परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)
Parasurama Kalpasutra with Vidya Niwas Mishra Commentary
भगवान् परशुराम (टीकाकार: प्रो. विद्यानिवास मिश्र) द्वारा
पृष्ठ 295, कुल 320 में से
संदर्भ में पढ़ेंसर्वसाधारणक्रमः २५३
स्पष्टार्थः ॥५०॥
अथ जपपूर्वाङ्गभूतान् जपविघ्ननिवारकान् मन्त्रानाह
अथ विघ्नदेवताः। इरि-मिलि-फिरि-किलिपदात् परिमिरोम्
इत्येकः। प्रणवो माया नमो भगवति महात्रिपुराद्वैवर्णाद् रविपदमनु
मम त्रैपुररक्षां कुरु कुरु, इति द्वितीयः।
संहर संहर विघ्नरक्षोविभीषकान् कालय हुं फट् स्वाहा, इति
तृतीयः। ब्लूं रक्ताभ्यो योगिनीभ्यो नमः, इति चतुर्थः। सां सारसाय
बह्नाशनाय नमः, इति पञ्चमः। दुमुलुपुमुलुपु माया चामुण्डायै नमः,
इति षष्ठः। एते मनवो ललिताजपविघ्नदेवताः ॥५१॥
अथेति प्रकरणान्तरज्ञापकम्। विघ्नहर्त्र्यो देवता विघ्नदेवताः,
मध्यमपदलोपी समासः। अत्र देवतापदेन तत्तद्देवतावाचकमन्त्रा लक्षणीयाः।
तेन देवताकथनं प्रतिज्ञाय अग्रे मन्त्रकथनं न विरुद्धम्।
अत्र श्रीविद्याङ्गभूताः षण्मन्त्रास्तेष्वाद्यं मन्त्रमाह—इरिमिलीति। द्वितीयं
मन्त्रमाह—प्रणव इति। प्रणवं मायोत्तरं त्रिपुरपर्यन्तं पठित्वात् ततो भैरवि मम
त्रैपुररक्षां कुरु कुरु इति पठितव्यम्।
तृतीयमाह — संहर संहरेति स्वाहान्तं पठनीयः।
चतुर्थमाह — ब्लूमिति। अयमपि यथाश्रुतः पठनीयः।
पञ्चममाह — सामिति। अयमपि यथाश्रुतः पठनीयः।
षष्ठमाह — दुमुलु इति। षष्ठ्यां माया इति ह्रीं-वर्णग्रहणम्। शेषं
यथाश्रुतम्। ललितामनुसमाप्तिं द्योतयति—एत इति। एते उक्ताः ॥५१॥
ललिता विद्या मन्त्रों के जप करने में जितने विघ्न आते हैं, उनको
निराकृत करने वाले छः मन्त्र इसमें दिये गये हैं। ललिता मन्त्र जप से पहले
इनका जप एक बार कर लेने से विघ्न नहीं आ सकते। वे इस प्रकार हैं—
१. इरि मिलि किरि किलि परिमिरोम्।
२. ॐ ह्रीं नमो भगवति महात्रिपुरभैरवि मम त्रैपुररक्षां कुरु कुरु।