सामग्री पर जाएँ
सर्वकोश
परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

Parasurama Kalpasutra with Vidya Niwas Mishra Commentary

भगवान् परशुराम (टीकाकार: प्रो. विद्यानिवास मिश्र) द्वारा

DevanagariHindipublished320 पृष्ठ

पृष्ठ 195, कुल 320 में से

संदर्भ में पढ़ें
पृष्ठ 195

श्यामाक्रमः १५३
पुनर्द्दशाष्टाविंशतिखण्डाः त्रितारी-कुमारी-वागादयः सजातयः
सामान्यमनुयुक्ताः ।।२०।।
चक्रमध्ये इति आवाह्येत्यनेनान्वितम्। श्रीं इत्यारभ्य प्रथमनम इत्यन्त
उत्त्वेत्यपहाय मूर्तिकल्पनमन्त्रः। द्वितीये श्रीं इत्यारभ्य आवाहयामीत्यन्त
उत्त्वावर्जम् आवाहनमन्त्रः। षोडशोपचाराः २।९ सूत्रे दर्शिताः। आशुशुक्षणिः
अग्निः। त्र्यक्षः ईशानः। रः निर्ऋतिः। प्रभञ्जनो वायुः। एषां दिक्षु उक्तक्रमेण
विदिक्ष्विति भावः। देव्या मौलौ मध्ये इत्यर्थः। प्रागादिदिक्षु अङ्गदेव्यः
षडङ्गदेव्यः पूज्याः, तासां मन्त्रान् वक्तुं प्रक्रमते—तन्मन्त्रा इति। मूलमन्त्रे
सर्वजनेत्यारभ्य षट् खण्डानि षडङ्गदेवीनां मन्त्रा बोध्याः, तत्रैकैकं कूटं
कियद्वर्णकमिति जिज्ञासायामाह—अष्टाविति। प्रथमखण्डमष्टवर्णम्। द्वितीयं
सप्तवर्णं, तृतीयम् एकादशवर्णं, चतुर्थपञ्चमौ दशवर्णौ, षष्ठम् अष्टाविंशति-
वर्णकमिति फलितम्।
न केवलं मूलमन्त्रघटकोक्तसङ्ख्याकवर्णा एव मन्त्रस्वरूपम्। अन्येऽपि
वर्णा योज्या इत्याह—त्रितारी-कुमारी-वाचः। आदौ एषां खण्डानां
जातिः हृदयाय शिरसे इत्यादि तैः सहिता सजातयः। इत्थं च मन्त्रस्वरूपम्
'ऐं ह्रीं श्रीं'—
१. ऐं क्लीं सौः ऐं सर्वजनमनोहारि हृदयाय नमः।
२. ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसुखरञ्जनि शिरसे स्वाहा।
३. ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं क्लीं ह्रीं श्रीं सर्वराजवशङ्करि शिखायै वषट्।
४. ऐं ह्रीं श्रीं ऐं क्लीं सौः सर्वस्त्रीपुरुषवशङ्करि कवचाय हुं।
५. ऐं ह्रीं श्रीं ऐं क्लीं सौः सर्वदुष्टमृगवशङ्करि नेत्रत्रयाय वौषट्।
६. ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वसत्त्ववशङ्करि सर्वलोकवशङ्करि अमुकं मे
वशमानय स्वाहा। सौः क्लीं ऐं श्रीं ह्रीं ऐं अस्त्रायफट्—इति मन्त्रस्वरूपम्।
यद्यपि मन्त्रे त्रयस्त्रिंशद्वर्णा दृश्यन्ते सूत्रोक्ताष्टाविंशतिसङ्ख्ययाविरुद्ध्यते,
तथापि स्वाहान्ताः सप्तविंशतिवर्णा अग्रिमषड्बीजानि मिलित्वा श्रीषोडशाक्षर्यां