सामग्री पर जाएँ
सर्वकोश
परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

Parasurama Kalpasutra with Vidya Niwas Mishra Commentary

भगवान् परशुराम (टीकाकार: प्रो. विद्यानिवास मिश्र) द्वारा

DevanagariHindipublished320 पृष्ठ

पृष्ठ 192, कुल 320 में से

संदर्भ में पढ़ें
पृष्ठ 192

१५० परशुरामकल्पसूत्रम्
प्रतिष्ठाप्य तस्मिन् पात्रे 'ह्रीं ऐं महालक्ष्मीश्वरि परमस्वामिनि ऊर्ध्व-
शून्यप्रवाहिनि सोमसूर्याग्निभक्षिणि परमाकाशभासुरे आगच्छागच्छ
विश विश पात्रं प्रतिगृह्ण प्रतिगृह्ण हुं फट् स्वाहा' इति पुष्पाञ्जलिं
विकीर्य सूर्यकला अभ्यर्च्य,
ब्रह्माण्डाखण्डसम्भृतमशेषरससम्भृतम्।
आपूरितं महापात्रं पीयूषरसमावह।।
इत्यादिममापूर्य द्वितीयं निक्षिप्य अकथादित्रीरेखाङ्कितकोणत्रये
हलक्षान् मध्ये हंसं च विलिख्य, मूलेन दशधा अभिमन्त्र्य चन्द्रकलाः
अभ्यर्च्य अग्नीशासुरवायुषु मध्ये दिक्षु षडङ्गानि विन्यस्य, अस्त्रेण
संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनी प्रदर्शयेत् ॥१९॥
ताभिः सामान्यार्घ्योदकसम्बन्धिभिः अद्भिः, ईकाराङ्कितेति त्रिकोण-
विशेषणम्। त्रिकोणमध्ये ईकारं लिखेद् इति भावः। इदं न पूर्ववत् प्रवेशरीत्या
निर्माणामिप्रायकम्; किन्तु निर्गमरीत्या त्रिकोणमारभ्य चतुरस्रावसानपाठात्
त्रिकोणं सर्वान्तः चतुरस्रं सर्वस्माद् बहिरिति प्रायोदिष्टत्वात्। पूर्ववदिति
सामान्यार्घ्याधारवदित्यर्थः। अग्निकलाः धूम्रार्चिरादीः अभ्यर्च्य पात्रं प्रतिष्ठाप्य
इत्यत्रापि पूर्ववदनुवर्त्तते, योग्यत्वात्। तेन पात्रप्रतिष्ठापने पूर्वमन्त्रलाभः
आदिमद्वितीयौ प्रोक्तौ अत्र सूत्रे, तेन नात्र तृतीयचतुर्थपञ्चमाः, अनुक्तत्वात्।
गणपतिक्रम इव मध्यमं चेतिवत् चकारोऽस्ति, अग्रे मपञ्चकमुररीकृत्येति वा
लिङ्गमस्ति, येन तल्लाभो भवेत्। तस्माद् यावदुक्तम्। अश्च कश्च थश्च ते आदौ
यासां ताः त्रिरेखाः। अवर्णमारभ्य विसर्गान्ता एका वर्णमयी रेखा ततः
कादितान्ता, ततः थादिसान्तेति भावः। विशेषस्यानुक्तत्वात् स्वाग्रादि-
प्रादक्षिण्येने हलक्षान् त्रीन् वर्णान् त्रिषु विलिख्य मध्ये हंस इति उत्तरसंस्थं
लिखित्वा इदं सर्वं पात्रस्थद्रव्ये तत्संस्काररूपं लेखनम्। इत्थं च ईदृशलेखेन
द्रव्यसंस्कारं भावयेद् इति तदर्थः। दशधा—एतदनन्तरं आवर्त्तितमूलेनेत्यस्य
विशेषणम्। धेनुयोनी प्रदर्शयेद् इति धेनुमुद्रां प्रदर्श्य योनिमुद्रया प्रणमेत्।
एतदर्घ्यसंशोधनमिति क्वचित्पुस्तके पाठः ॥१९॥