सामग्री पर जाएँ
सर्वकोश
परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)

Parasurama Kalpasutra with Vidya Niwas Mishra Commentary

भगवान् परशुराम (टीकाकार: प्रो. विद्यानिवास मिश्र) द्वारा

DevanagariHindipublished320 पृष्ठ

पृष्ठ 176, कुल 320 में से

संदर्भ में पढ़ें
पृष्ठ 176

श्यामाक्रमः
[ षष्ठः खण्डः ]
श्यामे सङ्गीतमातः परशिवनिलये मुख्यसाचिव्यभारो-
द्वाहे दक्षे दयापूरितनिजहृदये मामकीं दैन्यवृत्तिम्।
श्रीमत्सिंहासनेश्यां भववनपतितान् दावदग्धान् नमस्ते
त्रातुं पीयूषवर्षैः कथय परिकरं बद्धवत्यां विवेके ।।
श्यामोपास्तिविधिः
श्रीभगवान् परशुरामः श्यामाक्रमं विवक्षुः तस्यामुपासकाना-
मुपास्यत्वज्ञानोत्पत्तये, अङ्गीकृतश्रीविद्योपासनस्य 'यो वै स्वां
देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्राप्नोति पापीयान्
भवति' इति स्वीकृतैकदेवतौपास्तेरन्यदेवतोपासनमनिष्टजनकमिति यत्
प्रतिपादितं, तेन कलुषितचेतसां कालुष्यनिवृत्तये च आदौ तद्गुण-
स्वरूपं वर्णयति।
इयमेव महती विद्या सिंहासनेश्वरी साम्राज्ञी तस्याः प्रधान-
सचिवपदं श्यामा तत्क्रमविमृष्टिः सदा कार्या ।।१।।
इयम् वक्ष्यमाणा। महती निरवधिकमहत्त्ववती सिंहासनं परशिवः
स्वाधिष्ठानरूपत्वात् तस्य ईश्वरी तन्निष्ठसृष्टिस्थितितिरोधानसङ्कल्पनिर्वाहकत्री
साम्राज्ञी तस्याः प्रधानसचिवपदं साचिव्यरूपं धर्मपरं तस्य पदम् आश्रयः
श्यामा तस्या यः क्रमस्तस्य या विमृष्टिरनुसरणं तत्सदा कार्यम् ।।१।।