परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)
Parasurama Kalpasutra with Vidya Niwas Mishra Commentary
भगवान् परशुराम (टीकाकार: प्रो. विद्यानिवास मिश्र) द्वारा
पृष्ठ 155, कुल 320 में से
संदर्भ में पढ़ेंललितानवावरणपूजाक्रमः
[ पञ्चमः खण्डः]
प्रथमावरणव्यष्टिपूजा
अथ प्राथमिके चतुरस्रे अणिमा-लघिमा-महिमेशित्व-प्राका-
म्येच्छाप्राप्ति-सर्वकामसिद्ध्यन्ता मध्यमे चतुरस्रे ब्राह्मयाद्या-
महालक्ष्म्यन्तास्तृतीये चतुरस्रे संक्षोभणद्रावणाकर्षणवश्योन्मादन-
महाङ्कुशखेचरीबीजयोनित्रिखण्डाः सर्वपूर्वास्ताः सम्पूज्याः ।। १ ।।
अथेति नवावरणपूजाधिकारद्योतकम्। चतुरस्रत्रयमध्ये प्राथमिके चतुरस्रे
सर्वबाह्ये अणिमेत्यारभ्य सर्वकामपर्यन्तं द्वन्द्वः, ते सर्वेऽपि सिद्ध्यन्ताः कार्याः।
सर्वेषां पदानामन्ते सिद्धिरिति योज्यम्। तथा च त्रितारी ततोऽणिमासिद्धि-
श्रीपादुकां पूजयामीति। एवमग्रेऽपि। अणिमादिपदत्रयं न मन्त्रन्तं किन्तु
डाबन्तम्। मध्यमे चतुरस्रे ब्राह्मयाद्याः (तद्यथा)—ब्राह्मी माहेश्वरी चैव कौमारी
वैष्णवी तथा। वाराही चैव चेन्द्राणी चामुण्डा सप्तमातरः ।। महालक्ष्मी चेत्यष्टौ
मातरो मध्यचतुरस्रे पूज्याः।
तृतीये चतुरस्रे दशमुद्रापूजनमाह—तृतीये इति। सर्वशब्दः पूर्वं
यन्नामसु तास्तृतीये इति। त्रितार्युत्तरं सर्वसंक्षोभिणीशक्तिश्रीपादुकां पूजयामि
इति। सर्वसंक्षोभिणी एव वामाशक्तिरित्युच्यते। इति दशमुद्राः पूज्याः ।। १ ।।
परमाम्बा ललिता त्रिपुरसुन्दरी की पूजा के क्रम में यहाँ आवरण-पूजा की
चर्चा की जा रही है। सर्वप्रथम प्रथम आवरण की व्यष्टि पूजा का उल्लेख किया
जा रहा है। व्यष्टि पूजा में प्रतिशक्ति की, प्रतिसिद्धि की और प्रतिमुद्राओं की