पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 459, कुल 536 में से
संदर्भ में पढ़ें( ४४४ ) पञ्चतन्त्रम् ।
एतस्मादेव उष्ट्रीपरिपालनात् अस्य कुटुम्बस्य भव्यं सञ्जातम् ।
तत् किं अन्येन व्यापारेण" । एवं विचिन्त्य गृहमागत्य प्रि-
यामाह,-"भद्रे ! समीचीनोऽयं व्यापारः तव सम्मतिश्चेत्
कुतोऽपि धनिकात् किंचित द्रव्यमादाय मया गुर्जुरदेशे
गन्तव्यं करभग्रहणाय । तावत् त्वया एतौ यत्नेन रक्षणीयौ ।
यावत् अहमपरामुष्ट्रीं गृहीत्वा समागच्छामि" । ततश्च गुर्ज-
रदेशं गत्वा उष्ट्रीं गृहीत्वा स्वगृहं आगतः । किं बहुना, तेन
तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्च सम्मिलिताः ।
ततस्तेन महदुष्ट्रयूथं कृत्वा रक्षापुरुषो धृतः । तस्य वर्षं
प्रति वृत्त्या करभं एकं प्रयच्छति । अन्यच्च अहर्निशं दुग्धपानं
तस्य निरूपितम् । एवं रथकारोऽपि नित्यमेव उष्ट्रीकरभव्या-
पारं कुर्वन् सुखेन तिष्ठति । अथ ते दासेरका अधिष्ठानोपवने
आहारार्थं गच्छन्ति । कोमलवल्लीः यथेच्छया भक्षयित्वा
महति सरसि पानीयं पीत्वा सायन्तनसमये मन्दं मन्दं ली-
लया गृहं आगच्छन्ति । स च पूर्वदासेरको मदातिरेकात्
पृष्ठे आगत्य मिलति । ततस्तैः कलभैः अभिहितः-"अहो !
मन्दमतिः अयं दासेरको यथा यूथाद्भ्रष्टः पृष्ठे स्थित्वा घण्टां
वादयन् आगच्छति । यदि कस्यापि दुष्टसत्त्वस्य मुखे
पतिष्यति, तन्नूनं मृत्युमवाप्स्यति" । अथ तस्य तद्वनं
गाहमानस्य कश्चित् सिंहो घण्टारवं आकर्ण्य समायातः ।
यावत् अवलोकयति, तावत् उष्ट्रीदासेरकाणां यूथं गच्छति।
एकस्तु पुनः पृष्ठे क्रीडां कुर्वन् वल्लरीश्चरन् यावत् तिष्ठति,
तावत् अन्ये दासेरकाः पानीयं पीत्वा स्वगृहे गताः । सोऽपि
वनात् निष्क्रम्य यावद्दिशोऽवलोकयति, तावत् न कश्चित् मार्गं
पश्यति वेत्ति च । यूथाद्भ्रष्टो मन्दं मन्दं बृहच्छब्दं कुर्वन् यावत्
कियद्दूरं गच्छति, तावत् तच्छब्दानुसारी सिंहोऽपि क्रमं
कृत्वा निभृतोऽग्रे व्यवस्थितः । ततः यावत् उष्ट्रः समीपं
आगतः तावत् सिंहेन लम्फयित्वा ग्रीवायां गृहीतो मारितश्च ।
अतोऽहं ब्रवीमि-