पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 182, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( १६७)
कथा १६.
अस्ति कस्मिंश्चिद्वनोद्देशे वज्रदंष्ट्रो नाम सिंहः । तस्य
चतुरकक्रव्यमुखनामानौ शृगालवृकौ भृत्यभूतौ सदैवानु-
गतौ तत्रैव वने प्रतिवसतः । अथ अन्यदिने सिंहेन कदा-
चित् आसन्नप्रसवा प्रसववेदनया स्वयूथाद् भ्रष्टा उष्ट्री उप-
विष्टा कस्मिंश्चिद्द्रुनगहने समासादिता । अथ तां व्यापाद्य
यावदुदरं स्फोटयति, तावज्जीवल्लघुदासेरकशिशुर्निष्क्रान्तः।
सिंहोऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिमुपा-
गतः परं स्नेहात् बालदासेरकं त्यक्तं गृहमानीय इदमुवाच-
“भद्र ! न तेऽस्ति मृत्योर्भयं मत्तो न अन्यस्मादपि । ततः
स्वेच्छया अत्र वने भ्राम्यतामिति । यतस्ते शंकुसदृशौ कर्णौ
ततः शंकुकर्णो नाम भविष्यसि” । एवमनुष्ठिते चत्वारोऽपि
ते एकस्थाने विहारिणः परस्परमनेकप्रकारगोष्ठीसुखमनुभ-
वन्तस्तिष्ठन्ति । शंकुकर्णोऽपि यौवनपदवीमारूढः क्षणमपि
न तं सिंहं मुञ्चति । अथ कदाचित् वज्रदंष्ट्रस्य केनचिद्वन्येन
मत्तगजेन सह युद्धमभवत् । तेन मदवीर्यात् स दन्तप्रहारै-
स्तथा क्षतशरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा
क्षुत्क्षामकण्ठः तान् प्रोवाच- “भो ! अन्विष्यतां किञ्चित्सत्त्वं
येन अहमेवं स्थितोऽपि तं व्यापाद्य आत्मनो युष्माकञ्च
क्षुत्प्रणाशं करोमि । तच्छ्रुत्वा ते त्रयोऽपि वने सन्ध्याकालं
यावद्भ्रान्ताः परं न किञ्चित्सत्त्वमासादितम् । अथ चतु-
रकः चिन्तयामास । “यदि शंकुकर्णोऽयं व्यापाद्यते ततः
सर्वेषां कतिचिद्दिनानि तृप्तिर्भवति परं नैनं स्वामी मित्रत्वा-
दाश्रयसमाश्रितत्वाच्च विनाशयिष्यति । अथवा बुद्धिप्रभा-
वेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयि-
ष्यति । उक्तञ्च-
किसी वनमें वज्रदष्ट्रनाम सिंह रहताथा उसके चतुरक और क्रव्यमुखनाम-
वाले शृगाल वृक भृत्य सदानुगामी उस वनमे रहते थे । दूसरे दिन सिंहने एक