पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)
Panchasayaka of Kavishekhara Jyotirishvara with Commentary
कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री) द्वारा
पृष्ठ 62, कुल 109 में से
संदर्भ में पढ़ेंतृतीय सायक ३३
लेपेन नार्या स्मर-वेश्मरन्ध्रं
सङ्कोचयत्याशु हठेन योगः ॥ ३४ ॥
अथ मदनफलादियोगमाह
मदनभवनमार्गं क्षौद्रतुल्यैर्वराङ्गं
शिथिलतमपि यस्या पूरितं भूय एव ।
भवति कठिनमुच्चैः कर्कशं कामिनीना-
मिति निगदति योगं दन्तिदेवो नरेन्द्रः ॥३५॥
इति योनिगाढीकरणसमुद्देशः ॥
(६) “अथ कामिनीद्रावणसमुद्देशः-
“अथ कामिनी द्रावण प्रयोजनं निरूपयति-
“यद्यप्यष्टगुणाधिको निगदितः कामोऽङ्गनानां सदा
नो याति द्रवतां तथापि झटिति व्यायामिनां सङ्गमे ।
तस्माद्भेषज-सम्प्रयोगविधिना संक्षेपतो द्रावणं
किञ्चित्प्रह्लाददायि पङ्कजदृशां प्रत्यायनं कामिनोः ॥३६॥
अथ निन्द्रादिप्रयोग माह-
“भिन्दूर-चिञ्चाफल-माक्षिकानि
तुल्यानि यस्या मदनातपत्रे ।
निक्षिप्यते सा पुरुष-प्रसङ्गात्
प्रागेव रेतः-श्रुति मातनोति ॥३७॥