पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)
Panchasayaka of Kavishekhara Jyotirishvara with Commentary
कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री) द्वारा
पृष्ठ 53, कुल 109 में से
संदर्भ में पढ़ें२१ तृतीयः सायकः
हरीतकी, चन्दन, मुस्त, नागै-
रुशीरलोध्रोत्पलरात्रिमूलैः ।
स्त्रीपुंसयो घर्मजगात्रगन्धं
विनाशयत्याशु विलेपनेन ॥ ३ ॥
अथ कक्षादि दौर्गन्ध्यहरं प्रलेपं निर्दिशति
हरीतकीश्रीफलमुस्त युक्तं
चिञ्चाफलं पूतिकरञ्जबीजम् ।
कक्षादिदौर्गन्ध्य मपि प्रभूतं
विनाशयत्याशु हठेन योग ॥ ४ ॥
“सचन्दनोशीरकविल्वपत्रैः
कोलाक्षमज्जाऽगुरुनागपुष्पैः ।
लिप्त्वा शरीरं प्रमदाऽहवेन
चिरप्ररूढं विनिहन्ति गन्धम् ॥
प्रकारान्तरेण तरुणया गात्रदौर्गन्ध्यहरं प्रलेपं
निर्दिशति
“संदाडिम त्वग्मधुलोध्रपत्रैः
पिष्टैः समानैः पिचुमन्दपत्रैः ।
विलिप्य गात्रं तरुणी निदाघे
दुर्गन्धिघर्मापचयं निहन्ति ॥ ५ ॥
अथ घर्म्मस्रुतिहरं प्रयोगमुपदिशति
सकेशरोशीरशिरीषलोध्र
( १ ) "हरीतकी" इत्याख्य पद्यस्यान्ते पद्यमेतदधिकं पठ्यते—“ग पुस्तके,”—