पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)
Panchasayaka of Kavishekhara Jyotirishvara with Commentary
कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री) द्वारा
पृष्ठ 36, कुल 109 में से
संदर्भ में पढ़ें( ६ )
मर्षन्तो नखरैः पदाम्बुजयुगं कृत्वा कुरङ्गीदृशं
संसेव्याविरतं प्रयुद्धमदनां कुर्युः द्वितीयादिने ॥१६॥
“अथ चतुर्थ्यां तिथौ वशीकरणोपायं दर्शयति
“श्लिष्टा गाढतरं निपीड्य च कुचौ पीत्वा च दन्तच्छदं
वामोरौ करजक्षतं भुजलता मूले विशेषात्पुनः ।
मायूराङ्कमर्द्धचन्द्रच्छुरित प्रायान् नखानादरात्
दद्यु र्बाहरतोपचारचतुराः प्राय श्रतुर्थ्यां तिथौ ॥१७॥
“पञ्चम्यां तिथौ पद्मिन्याःसद्यः द्रावणोपायं दर्शयति
“विम्बोष्ठं परिचुम्ब्य दक्षिणकरेणाऽऽकृष्य केशोच्चयं
स्वच्छन्देन विमृश्य चूचुकयुगं चुम्वन् प्रियां भावयेत् ॥
आमृश्यात्करजैः सखेलपुलकं भूयो नितम्बस्थलीं
पञ्चम्यां द्रवतां नयेत्कमलिनी मित्याह वात्स्यायनः ॥१८॥
इति पद्मिनी चन्द्रकलासमुद्देशः ॥
“अथ चित्रिणी चन्द्रकला समुद्देशः—
दशम्यां तिथौ चित्रिण्या वशीकरणोपायं निरूपयति
“चुम्बित्वलक मुन्मदः कररूहै रल्लिख्य वक्षोजकं
श्रोणी पृष्ठ भुजादिकेण जघन स्त्यानोरुयुग्मस्थलीम् ।
पाणिभ्यामुपगूहयन् स्वरमणीं कान्तो दशम्यां तिथौ
कन्दर्पं प्रतियोध्य चन्द्रकलया कुर्युर्निजां चित्रिणीम् ॥१६॥
(१) “सपोह” इति गपुस्तके लिखितन् । (२) “भुजास्य” इति गपुस्तके दृश्यते ।