पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)
Panchasayaka of Kavishekhara Jyotirishvara with Commentary
कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री) द्वारा
पृष्ठ 108, कुल 109 में से
संदर्भ में पढ़ेंअपूर्व विज्ञापनम् ।
अयि ब्रह्मानन्दसहोदरानन्दसन्दोहदोहनरसालसाः कामकलारह-
स्यविज्ञानलालसाः सरसहृदयाः सहृदयाः । नैतन्न विदितं श्रीमतां
यद्धि नाम कामाख्यतृतीयपुरुषार्थरहस्यज्ञानमपि गृहस्थानां नितान्त-
मावश्यकमिति । तदर्थं च कल्याणकविरचितोऽनङ्गरङ्गाख्यो ग्रन्थो
नितान्तमुपयोगी एष हि सरलया भाषया सर्वं कामशास्त्रतत्वं सम्य-
गाविष्करोति तस्यैतस्य सटिप्पणस्य मुद्रणं जातम् । सन्ति चात्र
शुक्लकृष्णपक्षयोः प्रतिपदादितिथिक्रमेण स्त्रीणां तत्तदङ्गेषुदक्षिणवाम-
पार्श्वयोः कामस्यारोहावरोहौ, तत्तदङ्गस्पर्शादिना स्त्रीणामाशुद्रावणं,
पद्मिन्यादयः स्त्रीभेदाः शशादयः पुरुषभेदाः आलिङ्गनादिविवरणं,
चित्ररतानि, कन्यावरणं, कन्याविस्रम्भणं, स्त्रीणामनुरागविरागलक्षणानि,
अनेके वशीकरणादियन्त्रमन्त्रविशेषाः, वृष्ययोगाः—इत्येवमादयो वि-
षयाः । नितान्तं गोपनीयमिदम् । अत्युपयोगिनोऽतिदुर्लभस्य चास्य
मूल्यं सार्धरूप्यकं मात्रम् १।।) ये महाशया एतत्प्राप्तुमीहन्ते तैः
शीघ्रमेव पत्रं प्रेष्यम् ॥
कुचीमारतन्त्र—श्रीकुचीमार मुनिप्रणीतं साहित्याचार्य पं० मधुसू-
प्रसाद दीक्षित द्वारा संशोधित ।
मोतीलाल बनारसीदास,
पञ्जाब संस्कृत पुस्तकालय,
सैदमिट्ठा बाजार, लाहौर ।