सामग्री पर जाएँ
सर्वकोश
पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)

पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)

Panchasayaka of Kavishekhara Jyotirishvara with Commentary

कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री) द्वारा

DevanagariSanskritpublished109 पृष्ठ

पृष्ठ 105, कुल 109 में से

संदर्भ में पढ़ें
पृष्ठ 105

दुर्वारदुःखदहनैः परिखेदिताङ्गी
सा प्रोषिता प्रियतमा कथिता मुनीन्द्रैः ॥३६॥
इत्यष्टनायिकासमुद्देशः ।
अथ ग्रन्थोपसंहारम्—
"यावच्चन्द्रकलाकिरीटहृदये शैलाधिराजात्मजा
यावद्वक्षसि माधवस्य कमला सानन्दमादीव्यति ।
यावत्कामकलाविवर्त्तचटुलं क्षोणीतलं राजते
तावच्छ्री कविशेखरस्य कृतिनः काव्यं मुदे दीव्यताम् ॥३७॥
यावल्लेखां वहति शिरसा शङ्करःशीतरश्मे-
र्यावद्वेदावदनकमले ब्रह्मणःसन्तिसाङ्गाः ।
यावद्गङ्गा वहतिभुवने यावदाकाशभानु
स्तावत्कीर्त्तिर्वसतु विमला सा त्रिलोकीञ्चपायात् ॥ ३८ ॥
इति पञ्चमःसायकः ॥
इति कविशेखर श्रीज्योतिश्वराचार्य्यविरचिते पञ्चसायके
पञ्चमःसायकः ।
समाप्तश्चायं ग्रन्थः ॥
(१) घ संज्ञकपुस्तके चरमं पाठत्रयमित्थं पठ्यन्ते—
यावद् भास्वान गगन फलके द्योतयन विश्वमायाः।
भ्रामं भ्रामं चरति भूरिणा यावदास्ते सशैला
तावद् गोपालज गणपतेः प्रीतयेऽकाव्य मस्तु ॥ १० ॥