पाकदर्पण (राजा नल प्रणीत - इन्द्रदेव त्रिपाठी माधुरी हिन्दी व्याख्या सहित)
Pakadarpana of Raja Nala with Madhuri Hindi Commentary
राजा नल (टीकाकार: पं. इन्द्रदेव त्रिपाठी) द्वारा
पृष्ठ 5, कुल 69 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the Sanskrit text from both pages:
Left Page
( २ )
काव्ये—
“सुधांशुवंशस्य करीरमेव मां,
निशम्य किं नासि फलेग्रहि ग्रहा ॥” इति ।
एष एव महाराजो नलः दमयन्तीस्वयम्बरे समागतान् इन्द्रादिलोक-
पालचतुष्टयान् दौत्येन प्रसाद्याष्टौ वरानध्यगच्छदिति सुविदितमेव ।
यथा—वृते तु नैषधे भैम्या लोकपाला महौजसः ।
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान् ददुः ॥ इति ।
महा० वन० ५८ अ० ।
तेषामेवैकतमं सूदविद्यापारदर्शित्वं नाम वरं परेतभर्तुः ॐसकाशा-
दधिगतवान् महीश्वरो नल इत्यस्य ग्रन्थस्य प्रथमप्रकरणे, महाभारते च
दृश्यते । यथा—
“शृणु राजेन्द्र विद्याया निदानं मम तत्त्वतः ।
स्वयंवरार्थं वैदर्भ्याः समायाताः सुरेश्वराः ॥
ततोऽन्नरससिद्धिश्च सूर्यपुत्रादलौकिकम् ।”
नलपा० १ प्र० ।
महाभारते च—
“तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः ।
ऋतुपर्णस्य नगरं प्राविशद् दशमेऽहनि ॥
स राजानमुपातिष्ठद्वाहकोऽहमिति ब्रुवन् ।
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ।
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ॥” वन० ६७ अ० ।
नैषधचरितेऽपि—
“अमुष्य विद्यारसनाग्रनर्त्तकी” त्यादि श्लोके “रसनाग्रनर्त्तकी”त्यनेन
सूदविद्यैव लक्षितेति । अत एव पाकदर्पणप्रणेता नलश्चन्द्रवंशीयवीरसेन-
नृपतेस्तनय इति सुस्पष्टमेव वक्तुं शक्यते ।
महाराजनलस्य जन्मसमयनिर्धारणन्तु दुःशकमेव । केचितु --
'अवश्यम्भाविभावानां प्रतीकारो भवेदिति ।'
“प्रतिकुर्व्वन्ति नूनं नलरामयुधिष्ठिरा” इत्यत्र नलरामयुधिष्ठिरा इति
युगक्रमं निर्दिशन्तो नलस्य कृतयुगप्रादुर्भूतत्वं स्थापयन्ति प्रदर्शयन्ति
ॐ यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् । वन० ५७,३७३ श्लो०
Right Page
( ३ )
चापरं निदर्शनं श्रीहर्षस्य सूक्तम्—
पदैश्चतुर्भिः सुकृते स्थिरीकृते,
कृतेऽमुना के न तपः प्रपेदिरे । इत्यादि ।
परन्तु वयं विनिगमकाभावादस्मिन् विषये माध्यस्थ्यमेवावलम्बामहे ।
प्राधान्येनास्मिन् निबन्धे एकादशप्रकरणानि वर्त्तन्ते । तेषु च यथायथं
नानाविधाः पाकसाधनोपायाः पाकभेदाश्च प्रदर्शिताः । आयुर्वेदीयमतानु-
सारेण ऋतुभेदेन च पाकभेदान् प्रदर्श्य परमरमणीयत्वमुपादेयत्वञ्च निबन्ध-
स्यास्य सम्पादितं निबन्धकारेण । प्रथमस्तावदोदनभेदः । द्वितीयः
सूपभेदस्ततश्च क्रमेण सर्पिर्भेदः । व्यञ्जनभेदः । मांसपाकभेदः । भक्ष्यभेदः ।
पायसभेदः । रसायनभेदः । पानभेदः । यूषभेदः । घृताद्यन्नभेदः । लेह्यभेदः ।
क्षीरभेदः । तक्रभेदश्चान्ये चावान्तरभेदाः समीचीनरीत्या प्रदर्शिताः ।
पुस्तकस्यास्य परमोपादेयत्वेऽपि एतस्य मुद्रणाय वाराणसेय-
चौखम्बासंस्कृतसीरिजसम्पादकेन सुप्रसिद्धबाबुहरिदासतनूजनुषा श्रीमता
हरेकृष्णगुप्तेन बहुशोऽनुरुद्धोऽपि च विशुद्धादर्शपुस्तकाभावात् कालमेता-
वन्तं शिथिलप्रयत्न एवासम् । अनन्तरञ्च वाराणसीस्थराजकीयसंस्कृत-
पाठशालीयपुस्तकालयाध्यक्षेण पण्डितवर श्रीमद्विन्ध्येश्वरोप्रसादद्विवेदि-
महाशयेन पुस्तकदानादिना परमनुगृहीतोऽहं कथमप्येतन्मुद्रणमकरवम् ।
तत्र तेनैव महाशयेन प्रदत्तमेकमेव नवीनमनतिविशुद्धञ्च पुस्तकमन्य-
गतिकत्वादादर्शरूपेण परिकल्पितं मया । सोस्काक्षराणां दोषेण वा
मम मतेरपाटवाद्वा सम्भाव्यन्त एवाशुद्धयः । अतः साञ्जलिबद्धमभ्यर्थ-
येऽहं श्रीमद्भिः कृपया ते ते दोषाः क्षन्तव्या इत्यलं पल्लवितेनेतिशम् ।
वाराणसी ।
भाद्रशुक्ल चतुर्थ्यां १९६८ । श्रीवामाचरणशर्मणः ।
२ पा.द.