पाकदर्पण (राजा नल प्रणीत - इन्द्रदेव त्रिपाठी माधुरी हिन्दी व्याख्या सहित)
Pakadarpana of Raja Nala with Madhuri Hindi Commentary
राजा नल (टीकाकार: पं. इन्द्रदेव त्रिपाठी) द्वारा
पृष्ठ 4, कुल 69 में से
संदर्भ में पढ़ेंPublishers :
© CHAUKHAMBHA SANSKRIT SANSTHAN
Post Box No. 1139
K. 37/116, Gopal Mandir Lane, Golghar Near Maidagin
Varanasi-221001 (India)
Phone : 2333445, 3257859
Fax No. : 0542-2333445
E-mail : [email protected]
Edition : Third, 2006
Branches :
CHAUKHAMBHA SANSKRIT BHAWAN
Post Box No. 1160
Chowk, (Bank of Baroda Building)
Varanasi-221001
Phone: 0542-2420414
CHAUKHAMBHA PUBLICATIONS
4262/3, Ansari Road, Darya Ganj
New Delhi-110002
Phone: 011-23268639, 23259050
Fax No.: 011-23268639
E-mail : [email protected]
विज्ञप्तिः
विदिततरमेवेदं तत्र भवतां प्रेक्षावतां यत् किल पुरा भारते वर्षे न
केवलमध्यात्मविद्याया एवानुशीलनं निदधानास्ते विश्वविश्रुतकीर्तय-
स्तीर्थङ्करास्ततोऽन्यत्र स्वनयनं न विदधतिस्मेति। अध्यात्मविद्यैव ये खलुः
लौकिकसूक्ष्मविषयास्तैः केवलेन प्रज्ञाबलेनैवानुशीलितास्तेष्वेवान्यतममिदं
“नलपाकदर्पणं” मिदानीमुपक्रम्यते मुद्रयित्वा प्रकाशयितुम्। निबन्धोऽयं
भारतेतिहासप्रसिद्धेन निषधदेशाधिपतिना नलेन प्रणीत इति ग्रन्थस्य
नाम्ना, सन्दर्भेण च विज्ञायते। स खलु महाराजो नलः कदा प्रादुर्भूदिति
निर्णये महाभारतमेव प्राधान्येन वरीवर्त्ति। परन्तु महाभारतमपि स
कस्मिन् समये प्रादुर्भूदिति न सम्यङ् निर्धारयति। एतावदेवास्ति तत्र
वनपर्वणि—
"आसीद्राजा नलो नाम वीरसेनसुतो बली।
उपपन्नो गुणैरिष्टैरूपवानश्वकोविदः। इति वन ५३ अ०
परमपरोऽपि कश्चिदस्ति नलनामा नृपतिर्यः खलु सूर्यवंशे समज्रनि ।
यथा सूर्यवंशवर्णने—
'अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः।
नलस्तु नैषधस्तस्मान्नभस्तस्मादजायतइति ।
एतदेव द्रढयति मत्स्यपुराणं हरिवंशश्च—
मात्स्ये यथा—
नलौ द्वावेव विख्यातौ वंशे कश्यपसम्भवे।
वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः॥
हरिवंशे च—
नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ।
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वह इति ॥
परमेषोऽस्माकं समालोच्यविषयो नलपाकदर्पणप्रणेता नलस्तुः न सूर्य-
वंशीयनिषधपुत्रः किन्तु निषधदेशाधिपतेः चन्द्रवंशीयवीरसेनस्यात्मजः ।
कविकुलचूडामणिना श्रीहर्षेणापि प्रतिपादितमेतत् स्वरचितनैषधचरित-
भू० १ पा० द०