न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
एव कया चित्कल्पनया पदवाक्यभावमुपगतेभ्यः पदार्थवा- Line 18:क्यार्थसंप्रत्यय इति युक्तम् , तस्मात्पदार्थजन्या न भवति वाक्यार्थबुद्धिरिति Line 19:सिद्धम् , अनुपरतव्यापाराद्वाक्यादेवेयमुद्भवति, Line 20:वर्णानां पदवाक्यभावोपगमप्रकारः— Line 21:आह कया पुनः कल्पनया पदवाक्यभावमुपगता वर्णाः पदार्थवाक्यार्थप्र- Line 22:तीतिमादध्युरिति, Line 23:तत्राचार्यास्तावदिमां कल्पनामुदीदृशन् प्रथमं वर्णज्ञानं ततः संस्कारः ततो Line 24:द्वितीयवर्णज्ञानं तेन प्रथमवर्णज्ञानजनितेन च संस्कारेण पटुतरः संस्कारः Line 25:ततस्तृतीयवर्णज्ञानं तेन प्राक्तनेन संस्कारेण पटुतरः संस्कारः एवं यावदन्त्य- Line 26:वर्णज्ञानमन्त्यवर्णज्ञानानन्तरं तु ततः संस्कारात्सकलपूर्ववर्णविषयमेकस्मरणं Line 27:तेनान्त्यवर्णज्ञानस्य विनश्यत्ता विनश्यदव
३६० न्यायमञ्जर्याम्
रेण सर्वपदविषयमेकस्मरणमुपजन्यते संस्कारस्यैकत्वात्सो ऽयं स्मर-
णानुभवविषयीकृतवर्णसमूहपदसमूहो वाक्यमित्युच्यते ततो वाक्यार्थप्रति-
पत्तिः संस्कारस्य च संस्कारान्तरकरणकौशलमवश्यमेषितव्यमन्यथा सर्वत्र क्रि-
याभ्यासो ऽनर्थकः स्यादिति,
उक्तस्य वर्णानां पदवाक्योपगमप्रकारस्य खण्डनम् —
अत्र वदन्ति, नेयं प्रक्रिया साध्वी ज्ञानयौगपद्य प्रसङ्गात्, तथा हि चर-
मपदप्रतिभासानन्तरं यथा पूर्वपदस्मरणं तथा तदैव संकेतस्मरणेनापि भवि-
तव्यमनवगतपदार्थस्य हि न वाक्यार्थप्रतीतिरस्मृतसंकेतस्य च न पदा-
र्थप्रतीतिः, यत्राप्यभ्यस्ते विषये संकेतस्मृतिर्न संवेद्यते तत्राप्यविनाभा-
वस्मृतिरिव बलादसौ कल्प्यते अनवगतपदपदार्थसम्बन्धस्य नारिकेलद्वीपवा-
सिन इवार्थप्रत्ययाभावात्, सम्बन्धानुभवस्य च पूर्ववृत्तत्वेनेदानीं स्मरणमुखे-
नोपकारित्वात्तस्मादन्त्यपदज्ञानानन्तरं पूर्वपदसमयस्मरणयोर्युगपदुत्पादाज् ज्ञा-
नयौगपद्यम् ,
अथ समयस्मरणानन्तरं पूर्वपदस्मरणमुपेयते तथा तत्स्मृतिकाले पदा-
र्थज्ञानोपजनात्पुनरपि ज्ञानयौगपद्यं न च तदा पदार्थज्ञानं नोदेतीति शक्यते
वक्तुमविकलतदुपजनकारणसामग्रीसन्निधानात्प्रतिनायकस्य च तदानीमभा-
वात्, पदार्थज्ञानोत्तरकालं तर्हि पूर्वपदस्मरणमस्त्विति चेद् एवं तर्हि चर-
मपदज्ञानप्रत्यस्तमयादन्त्यपदरहितं वाक्यं स्यादन्त्यपदज्ञानस्य हि संकेतस्मृति-
वेलायां विनश्यत्ता पदार्थज्ञानवेलायां विनाश एव,
यत्तु ब्रूयादसंवेद्यमानमपि तदानीमन्त्यपदमस्त्येवेति स्वस्ति तर्हि न्याय-
विस्तराय, अपि च तदानीमनुपलभ्यमानेनापि सता किमन्त्यपदेन क्रियते,
पुनरवगमो ऽस्य भविष्यतीति चेत् स कुतस्त्यः, श्रोत्रस्य विरम्य व्यापारासंवे-
दनात्, मनसश्च स्वातन्त्र्येण बाह्ये विषये सामर्थ्यासम्भवात्, सत्यपि पुनः
तदवगमे ज्ञानयौगपद्यानपायात्,
अपि च पूर्वपदैरर्थशून्यतया शुष्कनीरसतनुभिरन्त्यपदानुभवसमनन्तरं
स्मृतैरपि को गुणः, न हि तथाविधपदस्मरणमर्थप्रत्यायनाङ्गम् , अथ सार्थ-
कानि प्राञ्चि पदानि स्मर्यन्ते तर्हि समयस्मरणपदार्थज्ञानादिकार्यसांकर्यकृतमने-
कशाखं प्रतिपदं ज्ञानयौगपद्यमापद्यते इत्यसतीयं कल्पना,
प्रकारान्तरेण वर्णानां पदवाक्यभावोपगमनिरूपणम्--
व्याख्यातारस्तु प्रक्रियान्तरमाचचक्षुः, वर्णानुगमरूपेण तावत्प्रथमप-
दज्ञानमुत्पद्यते ततः संकेतस्मरणं तेन विनश्यदवस्थेन पदज्ञानेन स्वविषयाव-
च्छेदेन पदार्थज्ञानमाधीयते यत्र वाचकावच्छिन्नं वाच्यस्वरूपमवभास-
प्रमाणप्रकरणम् ३६१
ते तथाविधपदार्थज्ञानात्संस्कारः ततस्तथैव क्रमेण द्वितीयपदज्ञानं तद्-
नु समयस्मरणं तेन विनश्यदवस्थेन च द्वितीयपदज्ञानेन तथैव स्वाव-
च्छेदेन स्वार्थज्ञानं तेन प्रथमपदार्थज्ञानाहितेन संस्कारेण च दृढतरः
संस्कारः पुनर्वर्णक्रमेण तृतीयपदज्ञानं पुनः संकेतस्मरणं संकेतस्मृतिसहायेन
तेन विनश्यदवस्थेन स्वार्थेनैव स्वावच्छिन्नं ज्ञानं तेन प्राच्येन च संस्कारेण
दृढतरः संस्कारः एवं तावद्यावदन्त्यपदज्ञानात्स्वावच्छिन्नार्थप्रतीतिः ततः पूर्वो-
पचितन्महतः संस्काराद्विशिष्टसर्वविषयमेकस्मरणं यस्य स्वावच्छिन्नास्सर्वे पू-
र्वपदार्था विषयतां प्रतिपद्यन्ते तस्मिन्स्मरणे तथान्त्यपदार्थज्ञाने ऽवच्छेदकत्वेन
प्रस्फुरत्पदसमूहो वाक्यमवच्छेदकत्वेन प्रकाशमानो ऽर्थसमूहो वाक्यार्थः, एवं
स्मर्यमाणानुभूयमानौ पदपदार्थसमूहौ वाक्यवाक्यार्थावुक्तौ भवतः ।
उक्तस्य प्रकारान्तरस्य खण्डनम् —
एतदपि न विचारक्षमम् , अन्त्यपदार्थप्रतीतिसमये तदवच्छेदकतया
प्रतिभासमानं पदं तत्प्रतीतौ तावत्कारणमिति नात्र विमतिः, स्वयं च
प्रतिभासमानत्वात्कर्मापि भवत्येव, तस्य तदानीं कर्मत्वे कारणं चिन्त्यम् , न
श्रोत्रं तावत्कारणम् अन्त्यपदप्रतीत्यनन्तरमेव तद्व्यापारस्य विरतत्वाद् विरम्य
च पुनर्द्व्याप्रियमाणस्यानुपपत्तेः, मनस्तु बाह्ये विषये स्वातन्त्र्येण प्रवर्त्तितुमसम-
र्थम्, तत्प्रवृत्तौ सर्वाण्येव प्रथमपदात्प्रभृति पदानि मानसव्यवसायगोचरचा-
रीणि भवन्तु किं स्मर्यमाणत्वमन्येषामुच्यते,
अथ तदन्त्यपदमर्थे इवात्मन्यपि तदवच्छेदकत्वप्रतिपत्तेः करणत्वं प्रति-
पत्स्यत इति मन्यसे तदयुक्तम् , स्वप्रतीतौ तस्य कर्मत्वान्न चैकस्यामेव क्रिया-
यां तदेव कर्म करणं च भवितुमर्हति, विस्तरतश्चायं वाचकावच्छिन्नवाच्यप्र-
तिभासः प्रत्यक्षलक्षणे प्रतिषिप्त इत्यलं पुनस्तन्मर्द्देन ।
प्रकारान्तरेण वाक्यस्य वाक्यार्थबोधकत्वोपपादनम् —
आह प्रथमं पदज्ञानं ततः संकेतस्मरणं ततः पदार्थज्ञानं पदार्थज्ञानात्
पदज्ञानस्य विनश्यत्ता विनश्यदवस्थपदज्ञानमपेक्षमाणं श्रोत्रं प्रथमपदाव-
च्छेदेन द्वितीयपदे ज्ञानमादधाति द्वितीयपदज्ञानानन्तरं पुनः संबन्धस्मरणं
ततः पदार्थज्ञानं तेन द्वितीयपदज्ञानस्य विनश्यत्ता विनश्यदवस्थपद-
ज्ञानसहायाच्छ्रोत्रात्तथैव तदवच्छेदेनोत्तरोत्तरपदज्ञानं तावद्यावदन्त्यपदज्ञा-
नमिति , तज्ज्ञानानन्तरं च प्राक्तनप्रक्रियावन्नात्र पूर्वपदस्मरणमुपयुज्यते तत्फ-
लस्य च विनाशदशापतितपदज्ञानकृतावच्छेदकमहिम्नैव सिद्धत्वात् , तस्य
( १ ) शाबरभाष्ये अ० १ पा० १ सू० २६ । इयं टिप्पणी ३५७ पृष्ठस्था ।
४६ न्या०
or broken type? It looks like a spacer or broken type for क्व or कदा. But the letter क is clearly visible, and चित् is clearly visible. If it was क्वचित्, the व might be broken or it's a dot. Let's look at: यदा क्वचित् प्रथमं - usually क्वचित् प्रथमं प्रयुक्तमासीत्.
Wait, let's look at the dot: it is right next to क. It looks like यदा .क चित्प्रथमं or यदा कचित्प्रथमं.
Wait, let's look at how other words are printed:
L10: श्रवणात् , (space before comma)
L14: तदनुत्पादात् , (space before comma)
L21: दुराशैवेयम् , (space before comma)
L27: चानभ्युपगमात् , (space before comma)
L32: यदा .क चित्प्रथमं - wait, could it be यदा क्वचित्प्रथमं? Let's check if the dot is a broken ligature. It's safe to write यदा क्वचित्प्रथमं or यदा क चित्प्रथमं? Wait, let's look really closely at that character:
Is it a dot? It looks like a period . slightly below
न्तरोपरक्तं सञ्जातमिति तादृशस्यागृहीतसम्बन्धत्वादर्थप्रतिपत्तिहेतुत्वं न स्या-
दित्यास्तामपूर्वमिदं शङ्करस्वामिनः पाण्डित्यम् ,
स्वमतेन वाक्यार्थबोधोपपादनम्--
आह यदीमाः सर्वा एव तान्त्रिकरचिताः कल्पना न साधीयस्यश्चेदात्मी-
या का चन निर्दोषा साध्वी कल्पना निवेद्यताम् , उच्यते न वयमात्मीयामभि-
नवां कामपि कल्पनामुत्पादयितुं क्षमाः-
न हीयं कविभिः पूर्वैरदृष्टं सूक्ष्मदर्शिभिः ।
शक्ता तृणमपि द्रष्टुं मतिर्मम तपस्विनी ॥
कस्तर्हि विद्वन्मतितर्कणीयग्रन्थोपनबन्धे तव दोहदो ऽयम् ।
न दोहदः पर्यनुयोगभूमिः परोपदेशश्च न तस्य शान्तिः ॥
राज्ञा तु गह्वरे ऽस्मिन्नशब्दके बन्धने विनिहतो ऽहम् ।
ग्रन्थरचनाविनोदादिह हि मया वासरा गमिताः ॥
तथापि वक्तव्यं कथं वर्णेभ्यो वाक्यार्थप्रतीतिरिति, उच्यते चिरातिक्रान्त-
त्वमचिरातिक्रान्तत्वं वा न स्मृतिकारणं संस्कारकरणं हि स्मरणं भवति तच्च
सद्यः प्रलीने चिरप्रलीने वा न विशिष्यते इत्येवं पूर्वेषां पदानां चिरतिरोहिता-
नामपि व्यवहितोच्चारितानामपि संस्कारात्स्मरणं भविष्यति अन्त्यपदस्यानुभू-
यमानत्वोपगमे ज्ञानयौगपद्यादिप्रमादप्रसङ्ग इति वरमन्त्यपदमपि स्मर्यमाणम-
स्तु, स्मृत्यारूढान्येव सर्वपदानि वाक्यार्थमवगमयिष्यन्ति, तत्र चेयं कल्पना
वर्णक्रमेण तावत्प्रथमपदज्ञानं ततः संकेतस्मरणं संस्कारश्च युगपद्भवतः, ज्ञान-
योर्हि यौगपद्यं शास्त्रे प्रतिषिद्धं न संस्कारज्ञानयोः, ततः पदार्थज्ञानं तेनापि सं-
स्कारः पुनर्वर्णक्रमेण द्वितीयपदज्ञानं ततः संकेतस्मरणं पूर्वसंस्कारसहितेन च
तेन पटुतरः संस्कारः पुनः पूर्ववर्णक्रमेण तृतीयपदज्ञानं संकेतस्मरणं पूर्वसं-
स्कारापेक्षः पटुतरः संकार इत्येवं पदज्ञानजनिते पीवरे संस्कारे पदार्थज्ञानज-
निते च तादृशि संस्कारे स्थिते ऽन्त्यपदार्थज्ञानानन्तरं पदसंस्कारात्सर्वपदविष-
यस्मृतिः पदार्थसंस्काराच्च पदार्थविषया स्मृतिरिति संस्कारक्रमात्क्रमेण द्वे
स्मृती भवतः, तत्रैकस्यां स्मृतावुपारूढः पदसमूहो वाक्यमितरस्यामुपारूढः
पदार्थसमूहो वाक्यार्थः,
ननु स्मृतेरप्रमाणत्वादप्रमाणमिदानीं वाक्यार्थप्रतिपत्तिः, मैवम् तथा
सम्बन्धग्रहणाद्यत्र ह्यन्यथा सम्बन्धग्रहणमन्यथा च प्रतिपत्तिः तत्रायं दोषः,
यथा धूमे गृहीतसम्बन्धे नीहाराद्दहनानुमितौ, इह तु क्रमवर्त्तिनां वर्णानामन्य-
था प्रत्ययासम्भवाद्यथैव व्युत्पत्तिस्तथैव प्रतीतिरिति न किंचिदवद्यम् , अचि-
रनिर्वृत्तानुभवसमनन्तरभाविनी च स्मृतिरनुभूयते,
३६४ न्यायमञ्जर्याम्
अथ वा कृतं स्मरणकल्पनयान्त्यपदार्थज्ञानानन्तरं सकलपदार्थविषयो मां-
ससो ऽनुव्यवसायः शतादिप्रत्ययस्थानीयो भविष्यति, तदुपारूढानि पदानि
वाक्यं तदुपारूढश्च पदार्थो वाक्यार्थः, तथाविधश्च मानसोऽनुव्यवसायः
सकललोकसाक्षित्वादप्रत्याख्येयः,
नन्वन्त्यपदार्थज्ञानानन्तरं किं पूर्वपदतदर्थविषयेण स्मरणेनानुव्यवसायेन
वा अन्त्यपदार्थश्चेज् ज्ञातः समाप्तं कर्त्तव्यं किमन्यदवशिष्टं यद्व्यवसायेन
स्मरणेन वा करिष्यते, एकाकारो हि वाक्यार्थप्रत्ययः प्रत्यात्मवेदनीयो न श-
क्यते ऽपह्नोतुम्, न चासौ स्मर्यमाणादानुव्यवसायाद्वा विना सम्पद्यते इत्य-
स्ति तदुपयोग इत्थं स्मर्यमाणारूढं संकलनाज्ञानविषयीभूतं चेदं पदनिकुरुम्बं
वाक्यं तथाविधश्चैष वाक्यार्थः ।
संसर्गभासकनिरूपणोपक्रमः—
ननु मा भूत्पदस्फोटो वाक्यस्फोटोश्च वाचकः ।
मा च भूतामिमौ वाक्यवाक्यार्थौ भागवर्जितौ ॥
भवन्तु भवदाख्याताः पदवाक्यादिकल्पनाः ।
पदार्थानां तु संसर्गे मार्गः कः इति कथ्यताम् ॥
असंसृष्टा हि गौरश्वः पुरुषो हस्तीति पदार्था न वाक्यार्थभावमधिरोहन्ति,
अन्त्यपदार्थज्ञानान्तरभाविना हि स्मरणेन वा ऽनुव्यवसायेन वा विषयीक्रिय-
माणास्ते यथाऽवगता एव विषयीक्रियन्ते संसर्गावगमस्तु कुतस्त्य इति चिन्त्यम्,
संसर्गभाने विप्रतिपत्तिः --
उच्यते अस्त्यत्र विवादः के चिदाचक्षते अन्विता एव पदार्थाः पदैरभि-
धीयन्ते अन्यथा पदानां वाक्यत्वायोगादिति,
अन्ये मन्यन्ते शुद्धानामेव पदार्थानां पदैरभिधानं ते तु तथाऽभिहिताः
सन्तः परस्परमाकाङ्क्षासन्निधियोग्यत्वपर्यालोचनया संसर्गमधिगमयन्तीति,
तत्रेदं विचार्यम्, व्युत्पत्तिर्बलीयसी न शब्दोऽर्थमवगमयति व्युत्पत्तिमन्त-
रेण, व्युत्पत्तिश्च किं वाक्यस्य वाक्यार्थे पदस्य वा पदार्थे इति, यदि वाक्यस्य
वाक्यार्थे व्युत्पत्तिः तदन्विताभिधानम्, पदस्य पदार्थे व्युत्पत्तावभिहितान्वय इति,
अभिहितान्वयवादनिरूपणम् —
किं तावत्प्राप्तमभिहितान्वय इति पदार्थप्रतिपत्तिपूर्वकत्वाद्वाक्यार्थप्रतिपत्तेः,
न ह्यनवगतपदार्थस्य वाक्यार्थसम्प्रत्ययो दृश्यते पदार्थप्रविभागाच्च गम्यते ऽस्य
पदस्य जातिरर्थो ऽस्य द्रव्यमस्य गुणो ऽस्य क्रियेति स चैवमवकल्पते यदि
तावत्सो ऽर्थः पदैरभिधीयते, पदान्तरार्थोपरक्ते तु तस्मिन्नभिधीयमाने तदर्थ्यै-
त्तैव नावधार्यते कदम्बाकारार्थप्रतीतेः, आवापोद्वापाभ्यां तदवधारणमिति-
चेन्मैवम्, आवापोद्वापपरीक्षावसरेऽपि कदम्बप्रतीत्यनपायान्न ह्येकमेव
किं चिद्वाक्यमन्विताभिधायिपदमग्रथितम् , अन्यत्र तु शुद्ध एव पदानामर्थः
किं तु सर्वत्र कदम्बकरूपादुपायात्कदम्बकरूपमुपेयं प्रतीयते इति दुरवगमः
पदार्थविभागः, ततश्च पदार्थानामनपेक्षाणे गामानयेति वाक्यादश्वबन्धननियोगः
प्रतीयते, अपेक्ष्यते तु पदानामर्थः सो ऽपेक्ष्यमाण इयानिति नियतो ऽवधारयि-
तव्यः, तदवधारणं शुद्धाभिधायिषु पदेष्ववकल्पते तस्मात्पदपदार्थयोरौत्पत्तिकः
सम्बन्ध इष्यते, वृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः पदपर्यन्ता
भवति इतरथा हि प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते सा चानन्त्याद् दुरुपपादेति
शब्दव्यवहारोच्छेदः स्यात् , दृश्यते च पदार्थविदामभिनवकविरलोकादपि
वाक्यार्थप्रतीतिः सा पदतदर्थव्युत्पत्त्या ऽवकल्पते वाक्यवाक्यार्थयोस्तु व्युत्प-
त्ताववेक्ष्यमाणायां सा न स्यादेव, तस्मान्नान्विताभिधानम् ,
अतश्चैवं पदान्तरोच्चारणवैफल्यप्रसङ्गादेकस्मादेव पदात्तदुपपरञ्जकद्विती-
यपदार्थावगतिः सिद्धैव तदपि पदमन्यानुरक्तस्वार्थावाचीत्यनेनैव न्यायेनैकमेव
पदमखिलपदाभिधेयार्थवाचि सम्पन्नमिति तेनैव व्यवहारा ऽस्तु न चासौ सम्प-
द्यते गौरित्युक्ते सर्वगुणक्रियावगमान्न ज्ञायते किमुपादीयतामिति सर्वागमो ह्य-
नवगमनिर्विशेष एव व्यवहारानुपपत्तेः, न हि रसविदां पूर्णोऽप्यन्धिर्मरोरति-
रिच्यते सलिलकार्यानिष्पत्तेः, नियतगुणक्रियानुरक्तस्वार्थप्रतिपादने तु गोश-
ब्दस्य न हेतुमुत्पश्यामः,
पदान्तरसन्निधानं नियमहेतुरिति चेत् किं स्वरूपमात्रेणार्थप्रतिपादनेन वा
स्वरूपमात्रेण जपमन्त्रपदानाभिव सन्निधानं भवदप्यसन्निधानान्न विशिष्यते,
अगृहीतसम्बन्धस्य तत्कृतोपकारादर्शनाद्, अर्थप्रतिपादनेन तु पदान्तरं
यदि नियमहेतुः सो ऽयमिहितानामर्थानामन्वय उक्तो भवति, तस्मात्स एव
श्रेयान्पदेभ्यः प्रतिपन्नास्तावदर्था आकाङ्क्षासन्निधियोग्यत्ववशेन परस्परमभि-
सम्बध्यन्ते यो येनाकाङ्क्ष्यते यश्च सन्निहितो यश्च सम्बन्धुं योग्यः स तेन
सम्बध्यते नातो ऽपरः, अत एवाङ्गुल्यग्रे हस्तिूथशतमास्ते इति नास्ति सम्ब-
न्धः योग्यत्वाभावादन्विताभिधानवादिनां तु अन्वितस्यानभिधानात्तत्राप्यन्वयः
प्राप्नोति स च नास्ति तस्मादभिहितानामेव पदार्थानामन्वय इति युक्तम, तदुक्तं
'पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराण्यथेदानीमर्था अवगता वाक्यार्थं
सम्पादयन्ति' इति,
३६६ न्यायमञ्जर्याम्
अभिहितान्वयवादखण्डनम्—
एवं प्राप्ते अभिधीयते न व्युत्पत्तिनिरपेक्षो दीप इव शब्दो ऽर्थमवगम
यतीति व्युत्पत्तिश्च वृद्धव्यवहाराद् वृद्धानां च व्यवहारो वाक्येन न पदेन केव-
लस्य पदस्याप्रयोगाद् ।
अर्थप्रकरणप्राप्तपदार्थान्तरवेदने ।
पदं प्रयुज्यते यत्तद्वाक्यमेवोदितं भवेत् ॥
वक्ता वाक्यं प्रयुङ्क्ते च संसृष्टार्थविवक्षया ।
तथैव बुद्ध्यते श्रोता तथैव च तटस्थितः ॥
सेयं वाक्यस्य वाक्यार्थे व्युत्पत्तिः, वाक्यं च किमुच्यते संहत्यार्थमभिदध-
ति पदानि वाक्यम् एकार्थः पदसमूहो वाक्यमिति वाक्यविदः, तत्रायं पदसमूह
एकार्थो भवति एवं न संहत्यार्थमभिदध्युः पदानि यद्येकस्यैव पदस्य व्यापारः,
यथा हि बाह्यानि करणानि काष्ठादीनि पाके व्याप्रियन्ते यथा च शिबिकाया
उद्वहन्तारः सर्वे शिबिकामुद्यच्छन्ति यथा त्रयो ऽपि ग्रावाण उखां बिभ्रति तथा
सर्वाण्येव पदानि वाक्यार्थमवबोधयन्ति तदिदमन्विताभिधानमन्यान्वितनिष्ठ-
ष्ठस्वार्थपर्यवसायित्वे हि सति न सर्वेषां वाक्यार्थव्यापारः स्यात् ,
नन्वेवमेकैकस्य कृत्स्नकारित्वे सत्येकस्मादेव कृत्स्नसिद्धेः पदान्तरोच्चार-
णं व्यर्थमित्युक्तम्, नैतत् पदान्तरेण विनैकस्मात्कृत्स्नकारित्वसम्पत्त्यभावात् ,
न तर्ह्येकं कृत्स्नकारीति चेन्मैवम्, एकैकस्य कृत्स्नफलपर्यन्तव्यापारपतितत्वा-
देकैकस्मिन्सतिकृत्स्नफलपर्यन्तो व्यापारो निवर्त्तते एकैकेन विना न निर्वर्त्तते
इत्येवमेकैकं कृत्स्नकारि भवति,
नन्वेवं तर्हि समुदाय एव कर्त्ता भवतु किं समुदायिभिः ततश्च तदेवा-
यातं निरवयवौ वाक्यवाक्यार्थाविति नैतद्युक्तम्, सङ्घातकार्यवत्स्वकार्यस्यापि
दर्शनात् , अथ किं संघातकार्यं किं च स्वकार्यं वाक्यार्थप्रतिपत्तिः संघात-
कार्यम् स्वकार्यं तु पदार्थप्रतिपत्तिः यथा पाकः संघातकार्यं स्वकार्यं उन्वल-
नभरणादि काष्ठस्थाल्यादीनाम् ,
ननु यदि पदानां पदार्थप्रतिपादनं स्वकार्यं शुद्धस्तर्हि पदार्थः, न
शुद्धः पदार्थः संघातकार्यं एव प्रयोगात्तत्र प्रयुक्तानामप्येषां स्वकार्यं न
मावगम्यते अत एव न निरवयवं वाक्यमिष्यते स्वकार्यप्रतिज्ञानात्संहतास्ते
संघातकार्यं कुर्वन्तो दृश्यन्ते न संघात एव संहतेष्वपि कुर्वत्सु स्वकार्यं पृथ-
क्पृथगुपलभ्यते यथा शकटाङ्गानामयमंशो ऽनेन कृतो ऽयमनेनेति न पृथक् प्र-
युज्यमानानि शकटाङ्गानि मनागपि शकटकार्यं कुर्वन्तीत्येवं न केवलं पदं
प्रयुज्यते प्रयुक्तमपि वा न तत्कार्याङ्गं पदान्तरेण तु सह व्यापारात्तदन्वि-
प्रमाणप्रकरणम् १६७
तार्थकार्येव पदमिति युक्तम्, तदिदमुक्तं 'संहत्यार्थमभिदधति पदानि वा-
क्यम् एकार्थः पदसमूहो वाक्यम्' इति, तदेवमवयवकार्योपलम्भान्न वैयाक-
रणवन्निमित्तान्यपि निह्नुमहे कृत्स्नफलसिद्ध्यवधि व्यापारपरिनिश्चयाच्च
नान्यमीमांसकवच्छुद्धपदार्थाभिधानमुपमच्छामहे इति,
अन्विताभिधाने आपादितदूषणानां परिहारः ।
यत्पुनरभ्यधायि प्रतिवाक्यं व्युत्पत्तिरपेक्षणीया अन्यथा नवकवि-
श्लोकार्थः, पदार्थविदा न प्रतीयेतेति तदिदं व्युत्पत्त्यनभिज्ञस्य चोद्यम्, न
हीयं व्युत्पत्तिः गोशब्दस्य शुक्लान्वितो ऽर्थः स हि व्यभिचरति कृष्णान्वितस्यापि
तदर्थस्य दर्शनान्नापि सर्वान्वितस्तदर्थ आनन्त्येन दुरवगमत्वात्, किं त्वाका-
ङ्क्षितयोग्यसन्निहितार्थानुरक्तो ऽस्यार्थ इति, एतां च व्युत्पत्तिं वाक्यान्येवावापो-
द्वापरचनावैचित्र्यभाञ्जि सञ्जनयन्ति पदार्थपर्यन्तापि भवन्ती व्युत्पत्तिरीदृशी
दृश्यते न शुद्धपदार्थविषया पदेन व्यवहाराभावादित्युक्तम्, तथापि न न ज्ञायते
इयान्पदस्यार्थ इति शकटाङ्गवदावापोद्वापाभ्यां तत्कार्यभेदस्य दर्शितत्वात्, त-
दित्थं प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते सन्निहितयोग्याकाङ्क्षितार्थोपरक्तस्वार्थाभि-
धेयत्वेन हि क चिद्गृहीतः सम्बन्धः सर्वत्र गृहीतो भवति ततश्च नवकविश्लो-
काद्यर्थप्रतिपत्तिरुपपद्यते, पदपदार्थयोस्तु न व्युत्पत्तिरुपायाभावादित्युक्तम्,
यदपि पदान्तरोच्चारणमफलमिति तदपि परिहृतम्, पदान्तरसन्निधाने हि
सर्वाणि पदानि कृत्स्नकारीणि भवन्तीत्युक्तत्वात्, किं पदान्तरसन्निधानेन क्रि-
यते इति चेत्सर्वकारकेष्वपि तुल्यो ऽयमनुयोगः, संहत्य तु सर्वाणि कुर्वन्ति का-
रकाणीत्युच्यन्ते तथा पदान्यपि अर्थाभिधानेनापि चोपकुर्वत्सु पदेषु नाभिहि-
तान्वयो ऽनन्वितार्थे व्युत्पत्त्यभावादनुपगमे वा दुरुपपादः पदार्थानामन्वयः
उपायाभावात्,
नन्वाकाङ्क्षासन्निधियोग्यत्वान्यभ्युपाय इत्युक्तं न युक्तमुक्तम्, कस्येयमाका-
ङ्क्षा शब्दस्यार्थस्य प्रमातुर्वा शब्दार्थयोस्तावदचेतनत्वान्नाकाङ्क्षायोगः फलत
इयं तत्र तत्र वाचोयुक्तिः शब्दः शब्दान्तरमाकाङ्क्षत्यर्थो ऽर्थान्तरमिति, प्रमातुः
पुनः स्वतन्त्रस्याकाङ्क्षा न प्रमाणं पुरुषेच्छया वस्तुस्थितेरघटमानत्वात्, शब्दोह्ययं
प्रमाणं पृष्ठभावेन तु पुरुषस्याकाङ्क्षा भवन्ती भवत्यर्थानाम् संसर्गहेतुरित्येवं
शब्दस्यायमियानिषोरिव दीर्घदीर्घो व्यापारः उपरतव्यापारे तु शब्दे पुरुषाका-
ङ्क्षामात्रं न सम्बन्धकारणम् ।
अशाब्दत्वं च वाक्यार्थप्रतीतेरित्थमापतेत् ।
व्यवधानमयुक्तं च साक्षाच्छाब्दत्वसम्भवे ॥
३६८ न्यायमञ्जर्याम्
अन्विताभिधानवादोपसंहारः —
तस्मादन्विताभिधायीनि पदानीति स्थितम् , एष एव हि संसर्गपन्थाः ।
व्यतिषक्तार्थबुद्ध्या हि व्यतिषङ्गो ऽवगम्यते ।
अपरं तु न संसर्गप्रतीतेरस्ति कारणम् ॥
न खल्वानय गां शुक्लां संसर्ग इति कथ्यते ।
व्यवहारे क्व चिद्वृद्धैः पदं संसर्गवाचकम् ॥
प्रयुज्यमानमप्येतद्बालिशेन हि केन चित् ।
अनन्वितार्थमेव स्याद्दशदाडिमवाक्यवत् ॥
तस्मादन्वितानामेवाभिधानं युक्तम् ,
आह—
अङ्गुल्यग्रादिवाक्येषु कथं तव समन्वयः ।
उच्यते,
उक्तानामपि संसर्गे कथं तव समन्वयः ॥
आह,
नन्वत्र योग्यताभावादसंसर्ग उपेयते ।
आकाङ्क्षादित्रयाधीनः संसर्गो हि मयेष्यते ॥
उच्यते—
मयापि योग्यासन्नादिसंसृष्टस्वार्थवाचिता ।
पदानां दर्शिता सा च तेषु नास्तीत्यनन्वयः ॥
आह अन्विताभिधानवादी हि भवान् ततश्च—
भवतो ऽनभिधानं स्यादन्वयासंभवादिह ॥
अहं त्वभिहितान्वयवादी तेन
मम ह्यनन्वितत्वे ऽपि नाभिधानं विरुद्ध्यते ।
उच्यते—
कथं मीमांसकेनापि भवता सूक्ष्मदर्शिना ।
नाद्यापि शब्दव्यापारः सुस्पष्टमवधारितः ॥
प्रकाशकत्वं शब्दस्य व्यापारो हि निसर्गतः ।
पुंसस्तु गुणदोषाभ्यां तस्मिन्सदसदर्दर्थता ॥
क्रियाकारकसंसर्गबुद्धिरन्या ऽपि शब्दजा ।
तादृश्येवायथार्था तु नरबुद्धिप्रमादतः ॥
तदुक्तम्—"प्रमाणान्तरदर्शनमत्र बाध्यते" इति ।
अत एव प्रमाणत्वं शब्दे निष्प्रतिमं स्वतः ।
शब्दे कर्मणि तन्नापि बाधकानुपसर्पणात् ॥
तत्राङ्गुष्ठश्रमवाक्ये ऽपि शाब्दो ऽस्त्येव समन्वयः ।
आधाराधेयक्रियानिर्देशस्यात्र प्रतीयमानत्वात् ।
वस्तुतो ऽसम्भवो यस्तु तुल्य एव स आवयोः ।
अयोग्यत्वेन संसर्गप्रतीत्यर्थनिबर्हणात् ॥
यदि तु शाब्दो ऽन्वयो भवेत् कचटतपादिवर्णनिर्देशमात्रमिदं स्यात् दशदा-
डिमादिप्रवादवदत्रापि अन्विताभिधानं न विरुद्धं बाधकस्त्वन्यविषय एव न शब्द-
संसर्गविषय इत्युक्तम् , अत एव स्वसामर्थ्यसिद्धिनिर्निबन्धकव्यापारे शब्दे स्व-
तो वेदे प्रामाण्यमनाकुलं निर्वक्ष्यत्यपौरुषेयतया विप्लवासम्भवात् खव्यापारस्य
तत एव शुद्धत्वमित्यलमप्रसङ्गेन ।
इत्यन्विताभिधानेन वाक्यार्थज्ञानसम्भवात् ।
व्युत्पत्तिरहितः प्राज्ञैः प्रहेयो ऽभिहितान्वयः ॥
अन्विताभिधानखण्डनम्—
तदेतदपि नानुमन्यन्ते, यदुक्तं वृद्धव्यवहाराद्व्युत्पत्तिरिति तत्सत्यम् वाक्येन
व्यवहार इत्येतदपि सत्यम् , शिबिकोद्यच्छन्नरवत्सर्वाणि पदानि कार्ये संहत्य
व्याप्रियन्ते इत्येतदपि सत्यमेव, व्युत्पत्तिः चिन्त्यताम् किमेकघनाकारसंघातका-
र्यनिष्ठैव किं वा पदार्थपर्यन्तेति, पूर्वस्मिन् पक्षे प्रतिवाक्यं व्युत्पत्तिरपरिहा-
र्या सा च बहुप्रमादेत्युक्तम्, पदार्थपर्यन्तायां व्युत्पत्तौ नूनं निर्धारणीयमिया-
न्पदस्यार्थ इति, भवद्भिरपि शकटावयवदृष्टान्तवर्णनेन पदव्यापारनिर्धारणमङ्गी-
कृतमेव, इतरथा हि पदार्थनियमानपेक्षत्वे गामानयेति विवक्षावानश्वपदमपि
निमित्ततयोपाददीत, न हि भवतामनपेक्षितपदार्थ एव वैयाकरणानामिव वा-
क्यार्थप्रत्ययः, तदसौ यावान् आवापोद्वापपर्यालोचनया गोपदस्यार्थो निर्धा-
र्यते तावानेव सङ्घातकार्ये ऽपि व्याप्रियमाणस्य तस्यार्थः,
नन्वाकाङ्क्षितयोग्यसन्निहितार्थोपरक्तो ऽस्यार्थ इत्युक्तम् , न सर्वदा संहत-
व्याप्रियमाणमेतत्पदं पश्यतः तवायं भ्रमः, अर्थः तावानस्य यावत्यभि-
धात्री शक्तिः, कियति च तस्याभिधात्री शक्तिः कियति तस्यानभिधात्री शक्तिः,
यावन्तमर्थमन्योन्यमाकाङ्क्षितैश्च योग्यैश्च सन्निहितैश्च संयुज्यमानं न मुञ्चति,
कियन्तं च न मुञ्चति गोत्वमात्रं तद्वन्मात्रं वेत्यतस्तावत्येवाभिधात्री शक्तिर-
न्वयव्यतिरेकाभ्यामस्य निर्धार्यते, अतः परमेकस्य पदस्याप्रयोगात्सर्वदा सङ्घा-
तकार्यरहितकेवलस्वकार्याचतुरत्वानवधारणात्प्रधानकार्ये तात्पर्यशक्तिरस्य व्या-
प्रियते नाभिधात्री, तां च पृथग्विवेचयता भवता ऽन्विताभिधानम-
भ्युपगतं तच्च न युक्तं सर्वत्राभिधात्र्याः शक्तेरविशेषात् , पदार्थनियमान-
वधारणं पदान्तरोच्चारणवैफल्यमित्यादिदोषानपायात् , येनान्वितमर्थमभिदधा-
४७ न्या०
[Page ३७०]
न्यायमञ्जर्याम्
ति गोशब्दः तदनभिधाने तदन्वितानवगमाद्येन सह संसर्गः स न गृह्यते तत्संसृ-
ष्टश्च गृह्यते इति विप्रतिषिद्धं स्यात् , तदभिधाने वा तद्वत्सर्वाभिधानमित्येकमेव
गोपदं सर्वार्थं भवेत् , तस्मान्न सर्वत्राभिधात्री शक्तिः पदस्योपपद्यते इति
नान्विताभिधानम् ।
अन्विताभिधानपक्षे च कथमङ्गुल्यग्रवाक्ये ऽपि नान्त्रयस्यात् शब्दो ऽस्त्येव
समन्वय इति चेदर्थासंस्पर्शी शब्दः प्राप्नोति बहिरन्वयाभावात् , प्रकाशकत्वमात्रं
व्यापार इति चेद् बाढम् तत्तु अनन्वितविषयं वेदितुं युक्तं न पुनरन्वितविषयमेवे-
ति शक्यते नियन्तुम्, दशदाडिमादिवाक्यमनन्वितार्थप्रतिपादकमपि दृश्यते यतः,
न तद्वाक्यमिति चेत् तदङ्गुल्यग्रवाक्यमपि वाक्यमेव, आधाराधेयक्रियासंसर्गप्र-
तीतिस्तु भ्रममात्रं तस्मादनन्वितमर्थमभिदधति पदानीत्यसमीचीनम् ,
तत्किं शलाकाकल्पाः परस्परमसंसृष्टा एव पदार्थाः पदैरुच्यन्ताम् एतदपि
नास्ति तथाविधव्यवहाराभावात् , पश्चादन्वयस्य च दुरवगमत्वाद्धिरम्य व्या-
पारस्य चासंवेदनात्तस्मात्पक्षद्वयमपि न क्षेमाय, तदुक्तम्—
मतद्वयमपीदं तु नास्मभ्यं रोचतेतराम् ।
कुतो ऽन्विताभिधानं वा कुतो वा ऽभिहितान्वयः ॥
मतान्तरं तत्खण्डनं च--
अन्या तु वाचोयुक्तिः कैश्चित्कृता अन्वीयमानाभिधानमभिधीयमानान्वय-
श्चेति सा ऽपि न हृदयङ्गमा—
न हि द्वे अनुभूयेते क्रिये एते पृथक्स्थिते ।
अभिधानक्रिया चान्या वाच्यस्था चान्वयक्रिया ॥
ते हि क्रमेण वा स्यातां युगपद्वा क्रमपक्षे पूर्वमन्वयक्रिया चेत्तदिदमान्वि-
ताभिधानमेव नान्वीयमानाभिधानम् , पूर्वं चेदभिधानमभिहितान्वय एव ना-
भिधीयमानान्वयः युगपत्तु क्रियाद्वयसंवेदनं नास्ति अर्थगतायाः क्रियायाः
शब्दप्रयोगकाले ऽनुपलम्भात् ।
अभिधानक्रियैवैका तदभिज्ञैः परीक्ष्यते ।
अन्वीयमानता ऽर्थानामभिधानाद्विना कुतः ॥
गौः शुक्ल इति जातिगुणयोरेकद्रव्यसमवेतयोरपि शब्दमन्तरेण कुतो
ऽन्वयमवगच्छामः ।
उक्तेर्नूतनतैवेयं न पुनर्वस्तु नूतनम् ।
न चात्रापि निवर्तन्ते दोषाः पक्षद्वयस्पृशः ॥
तात्पर्याच्छक्त्या ऽन्वितप्रतीतिः--
अन्ये मन्यन्ते सामान्येनान्विताभिधानं विशेषतश्चाभिहितान्वय इति,
गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रियासामान्यान्वितमभिधत्ते तावत्यन्वि-
ताभिधानम्, शुक्लादिगुणविशेषसम्बन्धस्तु पदान्तरादवगम्यते सो ऽयं विशेषो
ऽभिहितान्वय इत्येतदपि तादृगेव ।
दोषो ऽन्विताभिधाने यः सामान्ये ऽपि स तादृशः ।
दोषस्तुल्यो विशेषे ऽपि यश्चोक्तो ऽभिहितान्वये ॥
न चेदमपूर्ववस्तु वर्णितमभिहितान्वयवादिनो विशेषे एवाभिहितान्वय
आश्रीयते इति प्राक्तन एवेष्टः पन्था वेदितव्यः, कथं तर्ह्ययमभिधानिको व्य-
वहारः सङ्कुलमिवैनं पश्यामः सर्वत्र दोषसम्भवात् ।
उच्यते न कदा चिदत्र सङ्कुलता संहत्यकारिणि हि पदानीत्युक्तम्, समु-
दितैः पदैरेको वाक्यार्थः प्रत्याय्यते स च गुणभूतेतरपदार्थसंसृष्टः कश्चित्पदार्थ
एवेति किमत्र सङ्कुलम् ।
ननु किमयमन्विताभिधानपक्षः पुनरुत्थापयितुमिष्टः, मैवम्, नेदमन्विता-
भिधानम्, कथं तर्हि संहत्यकारिता पदानाम्, उच्यते संहत्यकारिता ऽप्यस्ति
न चान्विताभिधानम्, अन्वितमर्थं पदानि संहत्य सम्पादयन्ति न त्वन्वितम-
भिदधति, किमिदानीं कुर्वन्ति वाक्यार्थं पदानि घटमिव मृदादीनि, एतदपि
नास्ति, ज्ञापकत्वात्तेषाम्, का तर्हीयं वाचोयुक्तिः संहत्यकारिणि पदानि न
चान्वितमभिदधतीति, इयं वाचो युक्तिः पदान्यन्वितं प्रत्याययन्ति नान्वितम-
भिदधति, नाभिधात्री शक्तिरन्वितविषया किं त्वन्वयव्यतिरेकावगतनिष्कृष्टस्वा-
र्थविषयैव, तात्पर्यशक्तिस्तु तेषामन्वितावगमपर्यन्ता सह व्यापाराद्व्यापा-
रम्य च तदीयस्य निराकाङ्क्षप्रत्ययोत्पादनपर्यन्तत्वात् तथा हि—
अन्यथैव प्रवर्त्तन्ते प्रत्यक्षाद्युद्भवा धियः ।
अर्थं पूर्णमपूर्णं वा दर्शयन्त्यः पुरः स्थितम् ॥
अन्यथैव मतिः शब्दे विषयेषु विजृम्भते ।
प्रतिपत्तुर्निराकाङ्क्षप्रत्ययोत्पादनावधिः ॥
अत एव पदं लोके केवलं न प्रयुज्यते ।
न हि तेन निराकाङ्क्षा श्रोतुराधीयते मतिः ॥
नन्वभिधानव्यतिरिक्तः को ऽन्यः शब्दस्य कृत्स्नफलपर्यन्तः प्रत्यायनात्मा
व्यापारः, अस्ति कश्चिद्यः सर्वैरेव संसर्गावादिभिरप्रत्याख्येयः, न हि संसर्गो
ऽभिधीयते प्रतीयते च वाक्यात् ।
ननु संसृष्टाभिधाने सति संसर्गः प्रतीयते नान्यथा, नैतदेवं संहत्यकारि-
त्वादेव संसर्गावगतिसिद्धेः, न हि संहत्यकरणमसंसृष्टं च कार्यं क्व चिद्
दृश्यते, अपि च, प्रकृतिप्रत्ययौ परस्परापेक्षमर्थमभिदधाते न च प्रकृत्या प्रत्य-
यार्थो ऽभिधीयते नियोगस्य धातुवाच्यत्वान्न च प्रत्ययेन प्रकृत्यर्थो ऽभिधीयते
३७२ न्यायमञ्जर्याम्
यागादेः लिङ्वाच्यत्वानुपपत्तेः न च तौ पृथक्पृथक् स्वकार्यं कुरुतः ।
एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्यं करिष्यन्ति न च परस्परम-
र्थमभिधास्यन्ति वाक्यान्यपि प्रकरणपतितान्येवमेव, तदुक्तम्—
प्रकृतिप्रत्ययौ यद्वदपेक्षेते परस्परम् ।
पदं पदान्तरं तद्वद्वाक्यं वाक्यान्तरं तथेति ॥
अयमेव च पक्षः श्रेयान् यत्संहत्यकारित्वं पदानामसंकीर्णार्थत्वं च—
निरपेक्षप्रयोगे ऽयः शलाकाकल्पना भवेत् ।
तदन्विताभिधाने तु पदान्तरमनर्थकम् ॥
संहत्यकारिपक्षे तु दोषो नैको ऽपि युज्यते ।
तेनायमुपगन्तव्यो मार्गो हि हतकण्टकः ॥
अभिधात्री मता शक्तिः पदानां स्वार्थनिष्ठता ।
तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः ॥
तेनान्विता
आह लोके प्रमाणान्तरपरिच्छेद्यत्वाद्वाक्यार्थस्य तदवगमोपायतवं शब्दानां
योजयितुं शक्यते, वेदार्थस्तु अतीन्द्रियो न च रागादिदोषकलुषमनसामस्मदा-
दीनामतीन्द्रियपदार्थदर्शनकौशलमस्ति, तद्दर्शिनां च तत्र वृद्धव्यवहाराद्व्यु-
त्पत्तिरेव न सम्भवति, सो ऽहमद्य वेदार्थं बुभुत्समानो वेदविदं कञ्चिदाचा-
र्यमभिगच्छेयं सो ऽप्यतीन्द्रियार्थदर्शी न भवतीति तस्यापि तथैव व्युत्पत्त्य-
भाव इति तेनाप्यन्यः कश्चिदभिगन्तव्यः, सो ऽप्यहमिव व्युत्पत्त्यभावादन्य-
मुपासीत सो ऽप्यन्यमित्यन्धपरम्परा प्राप्नोति, न च वेदे एव वृद्धिरादैजिति
पाणिनिरिव मस्त्रिगुरुरीति ब्रुवन् पिङ्गल इव हस्तः करः पाणिरिति कथयन्न-
भिधानमालाकार इव स्वयमुपदिशत्येषो ऽस्य मामकस्य शब्दस्यार्थ इति त-
स्मात्सर्वथा दुरवगमो वेदार्थः, तदाह—
स्वयं रागादिमान्नार्थं वेत्ति चेत्तस्य नान्यतः ।
न वेदयति वेदो ऽपि वेदार्थस्य कुतो गतिरिति ॥
अथ निगमनिरुक्तव्याकरणवशेन तदर्थकल्पना क्रियते तर्हि नानामति-
त्वादुपदेश्यानामनेकार्थत्वाच्च नाम्नामुपसर्गनिपातानां च न नियतः कश्चिदर्थो
व्यवस्थापयितुं शक्यते, अन्यथा तत्कल्पनासम्भवात्, आह च—
तेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ ।
खादेच्छ्वमांसमित्येष नार्थ इत्यत्र का प्रमेति ॥
तदेतद् बधिरस्य रामायणं वर्णितमस्माभिः य एवमपि श्रुत्वा वेदार्थपरि-
गमाभ्युपायं मृगयते, अनेन हि पूर्वोक्तेन वाक्यार्थपरिगमोपायप्रकटनेन सर्वम-
पाकृतं भवति, उक्तं हि नाभिनवाः के चन वैदिकाः शब्दा रचनामात्रं वेदे
भिद्यते न तु पदानि, सर्गात्प्रभृति च प्रवृत्तो ऽयं वेदविदां व्यवहारः ततश्च दी-
र्घप्रबन्धप्रवृत्ताद्यत्वे वयसि व्युत्पद्यामहे व्युत्पद्यमानाश्च तं तमर्थं प्रतिपद्यामहे,
किं च वेदार्थस्य परिज्ञानौपयिकानि व्याकरणमीमांसाशास्त्राणि क्व गतानि
यदेषु जीवत्सु न वेदार्थो ऽवधार्यते, अपि च रे मूढ स्वयं रागादिमतः प्रत्यक्षम-
तीन्द्रिये ऽर्थे मा प्रवर्त्तिष्ट न तु रागादिमानग्निहोत्रं जुहुयात्स्वर्गकाम इति
वाक्यादपि अग्निहोत्राख्यं कर्म स्वर्गसाधनमिति नावगच्छेत्, अतीन्द्रिये ऽर्थे
नियता कुतो व्युत्पत्तिरिति चेद् उक्तमत्र वेदवत्तद्वृव्यवहारस्य तदर्थपरिगमो-
पायस्य सुचिरप्ररूढत्वात्, वेदश्चार्थश्च तदवगमश्च तदुपायश्च तदनुष्ठानं
च नाद्यत्वे प्रवृत्तानि किं तु केषां चिन्मते अनादीन्येवास्मन्मते तु जगत्सर्गात्प्र-
भृति प्रवृत्तानि कस्तेष्वद्य पर्यनुयोगावसरः, सेयमनेन पापकारिणा खादेच्छ्व-
मांसमित्याद्यपभाषणेन केवलमवीचिकेसरकुटुम्बिनमात्मानं कर्तुं वेदनिन्दैव
मन्दमतिना कृता न दूषणमभिनवं किं चिदुत्प्रेक्षितमिति,
अथापर आह किमेष तपस्वी पराणुद्यते किमनेनापराद्धं किमनेन विरुद्धम-
भिहितं, न हि लोकतो वेदार्थे व्युत्पत्तिरवकल्पते, कोऽयं लोको नाम किं यः
कश्चित्प्राकृत उत वैयाकरणः संस्कृतमतिरिति, तत्र शाकटिकाः साधुशब्दप्रयो-
गानभिज्ञमनसो निसर्गत एवात्तकण्ठा वराकाः संस्कारबाह्यैर्गोण्यादिभिरेव
शब्दैर्व्यवहरन्ति तैश्च व्यवहरन्तः कथमिव वैदिकेषु शब्देषु व्युत्पत्तिमाप्नुयुः,
यद्यपि चास्ति एषि एमि इति कश्मीरेषु गच्छेति दार्वाभिसारेषु करोमीति
मद्रेषु कतिपये साधुशब्दाः पामरैरपि प्रयुज्यन्ते तथा ऽप्यतीव प्रविरलसञ्चारो
ऽसौ व्यवहार इत्यनुपादेय एव वैदिकशब्दव्युत्पत्तेः ।
अथ व्याकरणस्य वेदाङ्गत्वात्तः साध्वसाधुशब्दविभागमवगच्छन्तः
साधुभिर्भावितव्यमसाधुभिर्नेति विधिनिषेधनियमितमतयः साधुभिरेव शब्दै-
र्व्यवहरन्तो विद्वांसस्तन्नीयसैव क्लेश
ध्यते तत्रापि स्वातन्त्र्येण वेदस्येव व्याकरणस्य शास्त्रत्वाद्युपपत्तेरङ्गसिद्धेश्च
वैदिकविषयेप्सितार्थसम्पर्कित्वं नूतनमस्येषितव्यम्, साधुभिर्भाषितव्यमसाधुभि-
र्नैत्यनयोरेव विधिनिषेधयोरिति चेद्—
नन्वेतावेव विधिनिषेधौ तावद्विचारयामः किं प्रकरणे पठितौ किमनार-
भ्याधीतौ क्लृप्ताधिकारौ कल्प्याधिकारौ वेति ।
साध्वसाधुशब्दविभागानुपपत्तिः--
आस्तां चेदं वितता खल्वियं चिन्ता, साध्वसाधुशब्दस्याप्रसिद्धत्वात्किवि-
षयाविमौ विधिनिषेधौ स्यातामितीदमेव चिन्त्यताम्, व्रीहिभिर्यजेत न कलञ्जं
भक्षयेदिति व्रीहिकलञ्जस्य स्वरूपस्य लोकतो ऽवगतौ तद्विषयविधिनिषेधबोधो
न दुर्घटः इह तु व्रीहय इव कलञ्जमिव न साध्वसाधुशब्दाः प्रविवेकेन लोकतो
ऽवगम्यन्ते, कृतश्रमश्रवणयुगलकरणिकासु प्रमितिषु शब्दस्वरूपमेव केवलं विष-
यतामुपयाति न जातु तद्गतं साधुत्वमसाधुत्वं वा, न हि शब्दत्वादिवज्जातिव-
दुदात्तादिधर्मवच्च साध्वसाधुतायां कस्य चिदपि श्रोत्रः प्रत्ययः प्रसरति, प्रत्य-
क्षप्रतिषेधे च सति तत्पूर्वकसम्बन्धग्रहणसम्भवादनुमानमपि निरवकाशमेव,
शब्दस्तु द्विविधः पुरुषप्रणीतो वैदिको वा, तत्र पुरुषप्रणीतः प्रत्यक्षानुमान-
विषयीकृतार्थप्रतिपादनप्रवण एव भवतीति तदपाकरणादेव पराकृतः, वैदिकस्तु
सम्प्रति चिन्त्यो वर्तते स हि सिद्धे साधुत्वे तद्विधौ सिद्धे चासाधुत्वे तन्निषेधे
व्याप्रीयते न पुनस्तत एव तत्सिद्धेर्युज्यते तथा ऽभ्युपगमे वा दुरुत्तरमितरेतरा-
श्रयमवतरति विधिनिषेधसिद्धौ साध्वसाधुशब्दसिद्धिः साध्वसाधुशब्दसिद्धौ च
विधिनिषेधसिद्धिरिति,
किं चेदं साधुत्वं नाम यदि वाचकत्वं गाव्यादयो ऽपि सुतरां वाचका इति
ते ऽपि कथं न साधवः, अर्थावगतिसाधनाद्धि साध
इति ते ऽपि साधवः स्युः, असाधुत्वमप्यवाचकत्वमुच्यते तच्च वायसवाशिता-
दिषु व्यवस्थितं न वर्णात्मकेषु व्यक्तवागुच्चार्यमाणेषु शब्देष्विति न ते ऽसाधवः,
अथ ब्रूयान्नार्थप्रतीतिसाधनत्वमात्रं साधुत्वं धूमादिभिरतिप्रसङ्गेरपि तु
विशिष्टक्रियाकारणत्वं वाचकत्वं तच्च गवादिष्वेवास्ति न गाव्यादिष्विति न ते
साधव इति ।
एतदपि असमीक्षिताभिधानम्, अभिधानक्रियाकारणत्वं हि वाचकत्वमिति
पूर्वमेव सुनिपुणमुपपादितम् एतच्च गवादिषु गाव्यादिषु समानमिति सर्वएव
साधवः ।
अथ लक्षणानुगतत्वं तद्वाह्यत्वं च साधुत्वमसाधुत्वं च वर्ण्यते तदयुक्तं
पारिभाषिकत्वप्रसङ्गात्, न चान्यत्किमपि साध्वसाधुलक्षणमतिसूक्ष्मया ऽपि
दृष्ट्या शक्यमुत्प्रेक्षितुमतो वाचकावाचकावेव साध्वसाधू इति स्थितम्, तेन
तयोः प्रवर्तमानौ विधिनिषेधाविमौ व्यर्थौ भवेताम्, कथम्—
साधुभिर्भाषणं तावत्प्राप्तत्वान्न विधीयते ।
अवाचकनिषेधश्चाप्राप्तेरेव न कल्पते(१) ॥
न हि सलिलं पिबेदनलं न पिबेदिति विधिनिषेधौ संभवतः, सलिलपानस्य
स्वतः प्राप्तत्वादप्राप्ते च शास्त्रस्यार्थवत्त्वात्, ज्वलनपानस्य च कस्यां चिदवस्था-
यामप्राप्तेः प्रतिषेधानर्थक्यात्, प्राप्तिपूर्वका हि प्रतिषेधा भवन्ति न हि ग्रीष्मे
ज्वालायोगपनीततृड्विकारः करभो ऽपि यतेत इति, तत्रैतस्याद् गवादेर्गा-
व्यादेश्च वाचकत्वाविशेषे साध्वसाधुशब्दोच्चारणकरणकपुण्यपातकप्राप्तिपरिहा-
रप्रयोजननियमविधानाय शास्त्रसाफल्यं भविष्यति, तदुक्तम् "वाचकत्वाविशेषे
ऽपि नियमः पुण्यपापयोः” इति ।
एतदपि दुर्घटम्, प्रविधेयांश्च निषेध्यांश्च शब्दानुपदर्श्य नियमो विधातव्यः
एभिर्भाषितव्यमेभिर्नेति तत्र यद्युच्यते ते शब्दाः प्रतिव्यक्ति नामग्रहणपरिगण-
नपुरःसरमुपदर्श्येरंस्तदयमर्थः कल्पशतजीविनो भगवतः परमेष्ठिनो ऽपि न
विषयः प्रविततवदनसहस्रसंकुलमूर्तेरनन्तस्यापि न गोचरो वाचस्पतेर्न भूमिः
सरस्वत्या अतिभारः तेषामानन्त्येन दर्शयितुमशक्यत्वात्,
अथ किं चिदुपलक्षणमवलम्ब्य तेषां वर्गीकरणमुपेयते हन्त तर्हि दृश्यतां
न च तत्सम्भवति,
( १ ) तन्त्रवार्तिके अ० १ पा० ३ सू० २४ । पूनामुद्रिते तन्त्रवार्तिके “वा-
चकैर्र्भाषितव्यं हि प्राप्तत्वान्न विधीयत” इत्येवंविधः स च युक्तः स्पष्टार्थोऽयं श्लोकः ।
type curve, or is it नाद्य? In यदीति यदि, य has a round top left. In नाद्य, the letter after ना is: wait, it looks like नाद्य! Wait, look at नाद्य इत्याह: yes, "तत्र नाद्य इत्याह" (na ādya ityāha - the first option is not acceptable).
Wait, let's look at नाय: actually it might be नाद्य. Let's look very carefully: the character is द्य (composed of द with य subjoined, or modern द्य). In line 30, it is नाद्य or नाय? It's नाद्य with broken type, or नाद्य.
Wait, what about line 31:
ह्येकार्थाः साध्वसाधवो विकल्पेन प्राप्नुयुस्तदा साधुनियमावकाशः स्यान्न चैवं न द्वितीयः
Line 32:
इत्याह नियतमिति । तथा च भाषणाभाव एव स्यादित्यर्थः ।
Bottom line:
४८ न्या०
- Check Verse in L1-2 again:
अविभक्ता हि शब्दस्त्वजातिः शब्दापशब्दयोः ।
Wait, in L1, is itशब्दत्वजातिःorशब्दस्त्वजातिः?
Look at the character
३७८ न्यायमञ्जर्याम्
यदपि पुण्यपापफलत्वं शब्दापशब्दप्रयोगयोरिति गीयते तदपि न पेशलं परि-
दृश्यमानमविवादसिद्धार्थप्रत्ययजननमपहाय परोक्षस्यादृष्टस्य पुण्यपापात्मनः क-
ल्पनाऽनुपपत्तेः, यश्चायं स्वर्गे लोके कामधुग्भवतीति साधुशब्दस्तुत्यर्थवादो यश्च
स वाग्वज्रो यजमानं हिनस्तीत्यपशब्दे निन्दार्थवादः तत्र परार्थत्वस्य विस्पष्ट-
दृष्टत्वादर्थवादमात्रपर्यवसितौ च “द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थ-
वादः स्यात्” इति (१) न्यायान्न फलार्थतेति, तदेवं साधुभिर्भाषितव्यमसाधुभिर्नेति
विधिनिषेधयोरनारभ्याधीतयोः श्रूयमाणयोरपि दौःस्थ्यात्तन्मूलतया लब्धप्र-
माणभावा व्याकरणस्मृतिरङ्गतामेष्यति वेदस्येति दुराशैव, प्रकरणविशेषपाठे तु
तयोस्तदुपयोगादेव न सार्वत्रिकी नियमार्थतेति सर्वथा न व्याकरणे तन्मूलत्वम्,
व्याकरणस्य निष्प्रयोजनत्वम्—
आह तर्हि निष्कारणः षडङ्गो वेदो ऽध्येयो ज्ञेयश्चेति विधेः शिक्षाकल्प-
सूत्रनिरुक्तच्छन्दोज्योतिः शास्त्रवद्व्याकरणमपि वेदाङ्गत्वादध्येतव्यमित्यवगम्यते,
नैतदप्यस्ति शिक्षादीनामनितरेतरसाध्यासंकीर्णविविधविषयेपेक्षितवेदोपकारनि-
र्वर्तकत्वेन तदङ्गता सुसङ्गता, व्याकरणस्य तु सुदूरमपि धावनप्लवने विदधतः
साधुशब्दप्रयोगनियमद्वारकमेव तदङ्गत्वं सम्भाव्यते न मार्गान्तरेण स च नियमो
दुरुपपाद इति दर्शितम् , अतो नाङ्गान्तराणि स्पर्धितुमर्हति व्याकरणम्, निष्का-
रणषडङ्गवेदाध्ययनविधौ च निष्कारणग्रहणं यथा प्रयोजनशैथिल्यं सूचयति न
तथा प्रयोजनवत्ताम्, श्रुतिलिङ्गाद्यङ्गत्वप्रमाणापेक्षया षडङ्गता वर्णयिष्यते, एतेन
“तस्माद् ब्राह्मणेन न म्लेच्छितवै म्लेच्छो ह वा एष यदपशब्द” इति “एकः
शब्दः सम्यक्प्रयुक्तः स्वर्गे लोके कामधुग्भवति” इति “आहिताग्निरपशब्दं प्रयुज्य
प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत्” इति “तस्मादशेषा व्याकृता वागुच्यते”
इत्यादिवचनान्तरमूलता ऽपि व्याकरणस्मृतेः प्रत्युक्ता, शिष्टप्रयोगमूला तर्हि व्या-
करणस्मृतिरस्तु वैद्यकस्मृतिरिवान्वयव्यतिरेकमूलेति चेत् के शिष्टा इति पृष्टो वक्तु
मर्हसि, किमभिमतगवादिसाधुशब्दव्यवहारिणो गाव्याद्यपशब्दवादिनो द्वये वा,
आद्ये पक्षे दुरुत्तरमितरेतराश्रयत्वम् , शिष्टप्रयोगमूलं व्याकरणं व्याकरणवि-
दश्च शिष्टा इति, न ह्यशिक्षितव्याकरणास्तत्संस्कृतगवादिशब्दप्रयोगकुशला भव-
न्ति, मध्यमपक्षे गाव्यादिव्यवहारिणः शाकटिकाः शिष्टाः तत्प्रयोगमूलं गवादि-
शब्दसंस्कारकारि व्याकरणमिति व्याहतमिव लक्ष्यते, तृतीये तु पक्षे गोगाव्या-
दिशब्दप्रयोगसांकर्यात्किंफलं व्याकरणं भवेत्, वैद्यकस्मृतेस्तु युक्तमन्वयव्यतिरेक-
मूलत्वं तथा दर्शनादिति, तदनया ऽपि दिशा न प्रयोजनवत्तामुपयाति व्याकर-
णम् , अतश्च निष्प्रयोजनं व्याकरणं तत्सूत्रकृता स्वयं प्रयोजनस्यानुक्तत्वात् ,
( १ ) जैमिनिसूत्रम् अ० ४ पा० ३ सू० १ ।