सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 387, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 387

तावत्सो ऽर्थः पदैरभिधीयते, पदान्तरार्थोपरक्ते तु तस्मिन्नभिधीयमाने तदर्थ्यै-
त्तैव नावधार्यते कदम्बाकारार्थप्रतीतेः, आवापोद्वापाभ्यां तदवधारणमिति-
चेन्मैवम्, आवापोद्वापपरीक्षावसरेऽपि कदम्बप्रतीत्यनपायान्न ह्येकमेव
किं चिद्वाक्यमन्विताभिधायिपदमग्रथितम् , अन्यत्र तु शुद्ध एव पदानामर्थः
किं तु सर्वत्र कदम्बकरूपादुपायात्कदम्बकरूपमुपेयं प्रतीयते इति दुरवगमः
पदार्थविभागः, ततश्च पदार्थानामनपेक्षाणे गामानयेति वाक्यादश्वबन्धननियोगः
प्रतीयते, अपेक्ष्यते तु पदानामर्थः सो ऽपेक्ष्यमाण इयानिति नियतो ऽवधारयि-
तव्यः, तदवधारणं शुद्धाभिधायिषु पदेष्ववकल्पते तस्मात्पदपदार्थयोरौत्पत्तिकः
सम्बन्ध इष्यते, वृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः पदपर्यन्ता
भवति इतरथा हि प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते सा चानन्त्याद् दुरुपपादेति
शब्दव्यवहारोच्छेदः स्यात् , दृश्यते च पदार्थविदामभिनवकविरलोकादपि
वाक्यार्थप्रतीतिः सा पदतदर्थव्युत्पत्त्या ऽवकल्पते वाक्यवाक्यार्थयोस्तु व्युत्प-
त्ताववेक्ष्यमाणायां सा न स्यादेव, तस्मान्नान्विताभिधानम् ,

अतश्चैवं पदान्तरोच्चारणवैफल्यप्रसङ्गादेकस्मादेव पदात्तदुपपरञ्जकद्विती-
यपदार्थावगतिः सिद्धैव तदपि पदमन्यानुरक्तस्वार्थावाचीत्यनेनैव न्यायेनैकमेव
पदमखिलपदाभिधेयार्थवाचि सम्पन्नमिति तेनैव व्यवहारा ऽस्तु न चासौ सम्प-
द्यते गौरित्युक्ते सर्वगुणक्रियावगमान्न ज्ञायते किमुपादीयतामिति सर्वागमो ह्य-
नवगमनिर्विशेष एव व्यवहारानुपपत्तेः, न हि रसविदां पूर्णोऽप्यन्धिर्मरोरति-
रिच्यते सलिलकार्यानिष्पत्तेः, नियतगुणक्रियानुरक्तस्वार्थप्रतिपादने तु गोश-
ब्दस्य न हेतुमुत्पश्यामः,

पदान्तरसन्निधानं नियमहेतुरिति चेत् किं स्वरूपमात्रेणार्थप्रतिपादनेन वा
स्वरूपमात्रेण जपमन्त्रपदानाभिव सन्निधानं भवदप्यसन्निधानान्न विशिष्यते,
अगृहीतसम्बन्धस्य तत्कृतोपकारादर्शनाद्, अर्थप्रतिपादनेन तु पदान्तरं
यदि नियमहेतुः सो ऽयमिहितानामर्थानामन्वय उक्तो भवति, तस्मात्स एव
श्रेयान्पदेभ्यः प्रतिपन्नास्तावदर्था आकाङ्क्षासन्निधियोग्यत्ववशेन परस्परमभि-
सम्बध्यन्ते यो येनाकाङ्क्ष्यते यश्च सन्निहितो यश्च सम्बन्धुं योग्यः स तेन
सम्बध्यते नातो ऽपरः, अत एवाङ्गुल्यग्रे हस्तिूथशतमास्ते इति नास्ति सम्ब-
न्धः योग्यत्वाभावादन्विताभिधानवादिनां तु अन्वितस्यानभिधानात्तत्राप्यन्वयः
प्राप्नोति स च नास्ति तस्मादभिहितानामेव पदार्थानामन्वय इति युक्तम, तदुक्तं
'पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराण्यथेदानीमर्था अवगता वाक्यार्थं
सम्पादयन्ति' इति,