सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 638, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 638

१६ न्यायसूचोद्धारे —
अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥ ७ ॥
न गत्यभावात् ॥ ८ ॥
स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ॥ ९ ॥
स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद्व्यक्तीनामहेतुः ॥ १० ॥
नियमहेत्वभावाद्यथादर्शनमभ्यनुज्ञा ॥ ११ ॥
नोत्पत्तिविनाशकारणोपलब्धेः ॥ १२ ॥
क्षीरविनाशे कारणानुपलब्धिवदध्युत्पत्तिवच्च तदुपत्तिः ॥ १३ ॥
लिङ्गतो ग्रहणानुपलब्धिः ॥ १४ ॥
न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥ १५ ॥
व्यूहान्तराद्द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तिरनुमानात् ॥ १६॥
क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः ॥ १७ ॥
नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् ॥ १८ ॥
युगपज्ज्ञेयानुपलब्धेश्च न मनसः ॥ १९ ॥
तदात्मगुणत्वेऽपि तुल्यम् ॥ २० ॥
इन्द्रियमनसः सन्निकर्षाभावात्तदनुत्पत्तिः ॥ २१ ॥
नोत्पत्तिकारणानुपदेशात् ॥ २२ ॥
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥ २३ ॥
अनित्यत्वग्रहाद् बुद्धयन्तराद्विनाशः शब्दवत् ॥ २४ ॥
ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः २५
नान्तः शरीरवृत्तित्वान्मनसः ॥ २६ ॥
वृत्तिमतोर्नानात्वादिति सूत्रार्थं इति वार्तिकम् । ७ अस्य सूत्रत्वे न्यायसूचीनिबन्धः
प्रमाणम् । ८ इदं सूत्रमिति वार्तिकम् । ९ इदं सूत्रमिति वार्तिकम् तदन्यत्वाभिमान
इत्यस्य स्थाने तदभिमान इति पाठो न्यायनिबन्धप्रकाशे । १० स्फटिके-तुरिति ता०
टी० । ११ सिद्धान्तसूत्रं नय-ज्ञा इति ता० टी० ष्ठयहेत्व-इत्यादि पाठो न्यायसूत्र-
विवरणे । १२ उत्तरं सूत्रमवतारयतीति ता० टी० । १३-१४ १५ एषां सूत्रत्वे
प्रमाणं न्यायसूचीनिबन्धः । क्षीरविनाशकारणेति समस्तः पाठः कचित् । १६ शेषं
भाष्ये इति वार्तिकस्वरसादस्य सूत्रत्वम् । १७ सिद्धान्तिनः सूत्रमिति वृत्तिः ।
१८ सिद्धान्तसूत्रमिति वृत्तिः । १९ युगपज् ज्ञेयानुपलब्धेश्च न मनस इति सूत्रमिति
परिशुद्धिः । ज्ञेयस्थाने ज्ञानेति कचित्पाठः। २० तदात्मगुणत्वेऽपि तुल्यमिति सूत्रमेवेति
परिशुद्धिः । २१ अस्य सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । २२ इदं सूत्रमितिवार्ति-
कम् । अनुपदेक्षादिति कचित्पाठः । २३ विना-ङ्ग इति ता०टी० । २४-२५-२६ एषां