सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 637, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 637

गौतमसूत्रपाठः। १५
न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥ ५९ ॥
भूतगुणविशेषोपलब्धेस्तादात्म्यम् ॥ ६० ॥
गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्या ॥ ६१ ॥
अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥ ६२ ॥
न सर्वगुणानुपलब्धेः ॥ ६३ ॥
एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः ॥ ६४ ॥
संसर्गाच्चानेकगुणग्रहणम् ॥ ६५ ॥
विष्टं ह्यपरं परेण ॥ ६६ ॥
न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥ ६७ ॥
पूर्वपूर्वगुणोत्कर्षात्तत्तत्प्रधानम् ॥ ६८ ॥
तद्द्रव्यवस्थानं तु भूयस्त्वात् ॥ ६९ ॥
सगुणानामिन्द्रियभावात् ॥ ७० ॥
तेनैव तस्याग्रहणाच्च ॥ ७१ ॥
न शब्दगुणोपलब्धेः ॥ ७२ ॥
तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ॥ ७३ ॥
इति श्रीगौतमसूत्रे तृतीयाध्यायस्याद्यमाह्निकम् ॥
कर्माकाशसाधर्म्यात्संशयः ॥ १ ॥
विषयप्रत्यभिज्ञानात् ॥ २ ॥
साध्यसमत्वादहेतुः ॥ ३ ॥
न युगपद्ग्रहणात् ॥ ४ ॥
अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥ ५ ॥
क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥ ६ ॥
सूत्रत्वे न्यायसूचीनिबन्धः प्रमाणम् । ५९ इदं सूत्रमिति वार्तिकम् ।
६० अस्य सूत्रत्वे न्यायसूचीनिबन्धः प्रमाणं । ६१-६२ इमे सूत्रे इति वार्तिकम् ।
६३ न स-ब्धैरिति ता० टी० । ६४ एकैकश्येनेति सौत्रो निर्देश इति वार्तिकम् ।
६५ अस्य सूत्रत्वे प्रमाणं नोपलभ्यते । ६६ विष्टं-ण इति ता०टी० । ६७ अस्य सूत्रस्य
विकल्पतोऽनेकः सूत्रार्थः कल्पित इति भाष्ये वर्णितम् इति वार्तिकम् । ६८ पूर्व-नम्
इति ता० टी० । ६९ इदं सूत्रमिति वार्तिकम् । ७०-७१-७२ एषां सूत्रत्वे
न्यायसूचीनिबन्धः प्रमाणं । ७३ इदं सूत्रमिति वार्तिकम् ।
१ संशयप्रदर्शनार्थ सूत्रमिति वृत्तिः शेषं भाष्य इति वार्तिकम् । २-३ अनयोः
सूत्रत्वे न्यायसूचीनिबन्धः प्रमाणम् । ४-५ इमे सूत्रे इति वार्तिकम् । ६ वृत्ति-