सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 639, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 639

गौतमसूत्रपाठः । १७
साध्यत्वादहेतुः ॥ २७ ॥
स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ॥ २८ ॥
न तदाशुगतित्वान्मनसः ॥ २९ ॥
न स्मरणकालानियमात् ॥ ३० ॥
आत्मप्रेरणायदृच्छाज्ञताभिश्च न संयोगविशेषः ॥ ३१ ॥
व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ॥ ३२ ॥
प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावादयुगपत्स्मरणम् ॥ ३३ ॥
प्रातिभवत्तु प्रणिधानाद्यनपेक्षे स्मार्ते यौगपद्यप्रसङ्गः ॥ ३४ ॥
ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ॥ ३५ ॥
तल्लिङ्गत्वानिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ॥ ३६ ॥
परश्वादावारम्भनिवृत्तिदर्शनात् ॥ ३७ ॥
कुम्भादिष्वनुपलब्धेरहेतुः ॥ ३८ ॥
नियमानियमौ तु तद्विशेषकौ ॥ ३९ ॥
यथोक्तहेतुत्वात्पारतन्त्र्यादकृताभ्यागमाच्च न मनसः ॥ ४० ॥
परिशेषाद्यथोक्तहेतूपपत्तेश्च ॥ ४१ ॥
स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ॥४२॥
प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धा-
नन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभया-
र्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ॥ ४३ ॥
कर्मानवस्थायिग्रहणात् ॥ ४४ ॥
अव्यक्तग्रहणमनवस्थायित्वाद् विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् ॥४५॥
हेतूपदानात् प्रतिषेद्धव्याभ्यनुज्ञा ॥ ४६ ॥

सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । २७ साध्य-तुरिति ता० टी० । २८ स्म-
र-ध इति ता० टी० । २९ न त-स इति ता० टी० । ३० न स्मर-त् इति
ता० टी० । ३१ आत्म-ष इति ता० टी० । ३२ व्यास-नम् इति ता० टी० ।
३३–न्यायसूचीनिबन्धे वर्तते । ३४ इदं भाष्यं तात्पर्यटीकाकृता प्रातिभवदिति प्रतीक-
धारणात् वृत्तिकृताऽव्याख्यातत्वात् न्यायसूचीनिबन्धादावदर्शनाच्च । ३५ज्ञातुरेवेच्छाद्वेष
इति सूत्रार्थ इति वार्तिकम् । ३६ इदं सूत्रमिति वार्तिकम् । ३७ अस्य सूत्रत्वे
न्यायसूचीनिबन्धः प्रमाणम् । परश्वादिष्वारम्भेति बहुत्र पाठः । ३८ अस्य सूत्रत्वे
प्रमाणं नास्ति । ३९ अस्य सूत्रत्वे प्रमाणं न्यायनिबन्धप्रकाशः । ४० यथो-स इति
ता०टी०।४१-४२ अनयोः सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः।४३ प्रणिधानादिति सूत्र-
मिति वार्तिकम् । ४४ कर्मानवस्थायिग्रहणादिति सूत्रमिति वार्तिकम् । ४५-४६ अनयोः
३