न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 634, कुल 654 में से
संदर्भ में पढ़ें१२ न्यायसूत्रोद्धारे-
दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ १ ॥
न विषयव्यवस्थानात् ॥ २ ॥
तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः ॥ ३ ॥
शरीरदाहे पातकाभावात् ॥ ४ ॥
तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् ॥ ५ ॥
कार्याश्रयकर्तृवधात् ॥ ६ ॥
सव्यदृष्टस्येतरप्रत्यभिज्ञानात् ॥ ७ ॥
नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ॥ ८ ॥
एकविनाशे द्वितीयाविनाशान्नैकत्वम् ॥ ९ ॥
अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः ॥ १० ॥
दृष्टान्तविरोधादप्रतिषेधः ॥ ११ ॥
इन्द्रियान्तरविकारात् ॥ १२ ॥
न स्मृतेः स्मर्त्तव्यविषयत्वात् ॥ १३ ॥
तदात्मगुणसद्भावादप्रतिषेधः ॥ १४ ॥
अपरिसंख्यानाच्च स्मृतिविषयस्य ॥ १५ ॥
नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ॥ १६ ॥
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ॥ १७ ॥
नियमश्च निरनुमानः ॥ १८ ॥
पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसंप्रतिपत्तेः ॥ १९ ॥
पद्मादिषु प्रबोधसंमीलनविकारवत्तद्विकारः ॥ २० ॥
१ इदं सूत्रमिति वार्तिकम् । २ न वि-ष इति ता० टी० । ३ तद्-ध इति
ता० टी० । तद्व्यवस्थानादात्मसद्भावादप्रतिषेध इति सूत्रमिति वार्तिकम् । ४ इदं
सूत्रमिति वार्तिकम् । ५ तद्-प इति ता० टी० । ६ न कार्याश्रयकर्तृवधादिति
सूत्रमिति वार्तिकम् । ७ सव्येन चक्षुषा दृष्टमितरेण प्रत्यभिजानातीति सूत्रमिति
वार्तिकम् । सव्य-ए इति ता० टी० । ८ नैक-ए इति ता० टी० । इदं सूत्रमिति
वार्तिकम् । ९ एक-त्वमिति ता० टी० । १०. अस्य सूत्रत्वे मूलं न्यायतत्त्वालोकः
न्यायसूचीनिबन्धश्च । ११ अस्य सूत्रत्वे वार्तिकं प्रमाणम् । १२ इन्द्रिया-त्
इति ता० टी० प्रतिसन्धानं प्रकारान्तरेण सूचयतीति परिशुद्धिः । १३ अस्याक्षेप
सूत्रमिति न स्मृ-ए ता०टी० । १४ तदा-ष इति ता०टी०। १५ वं-पु० पञ्चदशसूत्रं
नास्ति । अस्य सूत्रत्वे वृत्तिकृतोपि संशयः । १६ इदं सूत्रमितिपरिशुद्धिः । न्या-
यतत्त्वालोकश्च । १७-१८ अनयोः सूत्रत्वे प्रमाणं न्यायतत्त्वालोकः । १९ अस्या-
र्थस्य ज्ञापनार्थं पूर्वाभ्यस्तेत्यादि सूत्रमिति वार्तिकम् । २० इदं सूत्रमिति वार्ति-