न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 633, कुल 654 में से
संदर्भ में पढ़ेंगौतमसूत्रपाठे । २१
अनियमे नियमाच्चानियमः ॥ ५२ ॥
नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ॥ ५३ ॥
गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्यस्तु वर्णविकारोपपत्तेर्व-
र्णविकारः ॥ ५४ ॥
ते विभक्त्यन्ताः पदम् ॥ ५५ ॥
तदर्थे व्यक्त्याकृतिजातिसन्निधावुपचारात्संशयः ॥ ५६ ॥
या शब्दसमूहत्यागपरिग्रहसंख्यावृद्ध्युपचयवर्णसमासानुबन्धानां
व्यक्तावुपचाराद् व्यक्तिः ॥ ५७ ॥
न तदनवस्थात् ॥ ५८ ॥
सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्ये-
भ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावेऽपि तदु-
पचारः ॥ ५९ ॥
आकृतिस्तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः ॥ ६० ॥
व्यक्त्याकृतियुक्तेप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जातिः ॥ ६१ ॥
नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ॥ ६२ ॥
व्यक्त्याकृतिजातयस्तु पदार्थः ॥ ६३ ॥
व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ॥ ६४ ॥
आकृतिर्जातिलिङ्गाख्या ॥ ६५ ॥
समानप्रसवात्मिका जातिः ॥ ६६ ॥
इति गौतमसूत्रे द्वितीयाध्यायस्य द्वितीयमाह्निकम्
इति गौतमसूत्रे द्वितीयोऽध्यायः ।
'प्रकृत्यनियमात्' इत्येतन्मात्रं सूत्रम् । ५२-५३-५४ इमानि सूत्राणीति
वार्तिकम् । ५५ ते वि-दमिति ता० टी० । ५६ अस्य सूत्रत्वे वृत्तिकृतोपि
संशयः । न्यायतत्त्वालोके न्यायसूचीनिबन्धे च तदर्थ इति पाठो नास्ति । तदर्थ इति
भाष्यकृतः पूरणमिति वृत्तिः । ५७-५८ इमे सूत्रे इति वार्तिकम् । ५९ सहचरणा-
दिति सूत्रमिति वार्तिकम् । ६०-६१ अनयोः सूत्रत्वे न्यायतत्त्वालोकः प्रमाणम् ।
६२ अस्य सूत्रत्वे प्रमाणं न्यायतत्त्वालोकः चान्तः पाठः क्वचित् । ६३ पाराशर्यं सूत्रं
व्यक्त्याकृतिजातयस्तु पदार्थ इति ता० टी० । ६४ व्यक्तिर्गुणविशेषाश्रयो मूर्तिरिति
सूत्रमिति वार्तिकम् । ६५ आकृ-ख्या इति ता०टी० । ६६ समा-तिरिति ता०टी० ।