सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 626, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 626

४ न्यायसूत्रोद्धारे-
स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ ३ ॥
सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥४॥
अनैकान्तिकः सव्यभिचारः ॥ ५ ॥
सिद्धान्तमभ्युपेत्य विरोधी विरुद्धः ॥ ६ ॥
यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥ ७ ॥
साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ ८ ॥
कालात्ययापदिष्टः कालतीतः ॥ ९ ॥
वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ॥ १० ॥
तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं चेति ॥ ११ ॥
अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् १२॥
सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छ-
लम् ॥ १३ ॥
धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् ॥ १४ ॥
वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ १५ ॥
न तदर्थान्तरभावात् ॥ १६ ॥
अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ॥ १७ ॥
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १८ ॥
विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ १९ ॥
तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ॥ २० ॥
इति गौतमसूत्रे प्रथमाध्यायस्य द्वितीयमाह्निकम् ।
इति गौतमसूत्रे प्रथमोऽध्यायः ।
येभ्यः प्रमाणादिभ्यो व्यवच्छेदः सूत्रार्थ इति ता० टी० । ३ सप-डा इति ता०
टी० । ४ विभागोद्देशपरं सूत्रं सव्य-सा इति ता० टी० । अनैकान्त इति वङ्गा-
क्षरसूत्रपुस्तकपाठः अनै--२ इति ता० टी० ६ कोऽस्य सूत्रस्यार्थ इति वार्ति-
कम् । ७ प्रकरणसमलक्षणाय सूत्रम् इति ता० टी० । ८ । साध्य-म इति ता०
टी० । ९ उद्देशक्रमसंगत्या बाधलक्षणाय सूत्रमिति तत्त्वालोके वाचस्पतिमिश्रः ।
१० वच-छमिति ता०टी० । ११ विभागसूत्रमवतारयति ता०टी० । १२ अवि-कमिति
ता०टी० । १३ सम्भ--छमिति ता०टी० । १४ धर्म-कमिति ता०टी० । १५ इदं सूत्र-
मिति वार्तिकम् । १६ सिद्धान्तसूत्रं न त-ए इति ता० टी० । १७ कोऽस्य सूत्रस्यार्थ
इति वार्तिकम् । १८ जातिलक्षणाय सूत्रमिति न्यायतत्त्वालोकः । १९ विप्र-
सूत्रमिति ता० टी० । २० शान्तरमवतारयितुं भाष्यकार आहेति ता० टी० ।