न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 613, कुल 654 में से
संदर्भ में पढ़ेंमात्मीयं संवरीतुर्मना एवमभिधत्ते न हि समर्थो विद्वान्निस्स्पृहं न वक्तीति, त्रि-
त्वनियमो ऽपि न वेदवचननरपतिशासननिबन्धनः किं तु वस्तुस्थित्युपगत एव,
यतः सकृद् द्विरप्यभिहितमप्यनवधानादिना न गृहीतमिति संभाव्यते त्रिस्तु
यदुक्तं न ज्ञायते तत्र वक्तुरेव जाड्यम् अनेकप्राश्निकादिसमाजे कथितमवश्यं
केनाप्यवगम्यते सर्वैरनवगमात्तु वक्तैव निगृह्यते, चतुर्भा पञ्चकृत्वो वा ऽभिधा-
ने विध्यमाणे निरवधिताऽभिधानस्य प्रसज्यत इति युक्तस्त्रिर्वचननियम इति।
अपार्थकस्य लक्षणम्—
पौर्वापर्यायोगादप्रतिसंबद्धार्थमपार्थकम् ॥ अ. ५ आ २ सू. १०
पूर्वापरासंगतपदकदम्बकोच्चारणादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रह
स्थानं भवति, तद्यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललखण्डः
अत्र्लोकमेतत्कुमार्याः स्फैयकृतस्य पिता प्रतिशीन इति ।
“अत्राह असंबद्धवाक्यमसंबद्धं प्रकरणं च निग्रहस्थानान्तरं कस्मान्नोक्तम् ,
एतेनैव गतार्थत्वादिति चेद्, यद्येवमनर्थकेनैव गतार्थत्वादपार्थकमपि पृथङ् न
वक्तव्यम्”
“अत्रोच्यते निरर्थकेन पदार्थेन वाक्यार्थः केवलं वर्णा एव शुष्का उच्चार्यन्ते
अर्थान्तरे ऽपि समन्वितपदार्थे व्यवस्थापितवाक्यार्थमप्रकृतं तूच्यते, इह तु
पदार्थसंप्रत्यये ऽपि तदन्वयासंभवेन वाक्यार्थानवसाय इति स्पष्टो भेदः, प्रकृ-
तविवादास्पदीभूते वस्तुनि को वा विशेष इति चेत् , उक्तमत्र संक्षेपविवक्षायां द्वे
एव निग्रहस्थाने असंकीर्णोदाहरणविवक्षया तु द्वाविंशतिभेदत्वं प्रकृतवस्तुसि-
द्धिस्तु द्वाविंशतावपि तुल्यैव ।
यत्तु असंबद्धं वाक्यमसंबद्धं प्रकरणं च पृथगुपसंख्येयमिति तन्न, असंबद्ध-
पदार्थेनैव तत्संग्रहात् , यदि त्वसंबद्धवाक्यमसंबद्धप्रकरणं चावश्यं वक्तव्यं
तदुक्तमेव भवदीयं शास्त्रम् , तथा हि वैभाषिकाणामस्ति बाह्यार्थः स च
प्रत्यक्षः, सौत्रान्तिकानां च सभ्यप्यनुमेयः, योगाचाराणां साकारं ज्ञानमेव न
बाह्यार्थः स च प्रत्यक्षः, माध्यमिकानामाकारशून्यं स्वच्छं ज्ञानम्, एवमितरे-
तरानन्वितवाक्यप्रकरणमिदमशेषमेव शाक्यशास्त्रम् आह च, दशदाडिमवाक्य-
स्य बौद्धशास्त्रस्य चाप्यबद्धस्य प्रतिष्ठा केन लभ्यते ।
अप्राप्तकालस्य लक्षणम्—
अवयवविपर्यासवचनमप्राप्तकालम् ॥ अ. ५ आ. २ सू. ११ ।
प्रतिज्ञाहतूदाहरणोपनयनिगमनवचनं क्रममुल्लङ्घ्यावयवविपर्यासिन प्रयुज्य-
मानमप्राप्तकालं नाम निग्रहस्थानं भवति ।
“अत्राह न हि पदार्थानां वाक्येषु नियतः क्रमः कश्चिदस्ति, नियतक्रमका
हि वर्णाः पदतामापद्यन्त इति युक्तं तदन्तरेण तदर्थानवगमात् , न हि टघ इत्यु-