न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 608, कुल 654 में से
संदर्भ में पढ़ेंसिद्धत्वात् सिद्धं हि विशेषणं भवति नित्यत्ववादिनं च प्रति शब्दस्यासर्वगत-
त्ववादिनं च प्रतिशब्दस्यासर्वगतत्वमसिद्धम् , साध्यते चेत्तर्हि प्रतिज्ञान्तरमे-
वेदं हेत्वाद्यवयववैलक्षण्यात् प्रतिज्ञालक्षणस्य च साध्यनिर्देशस्योपपत्तेः, अने-
कान्तिकत्वपरिहृतये हि हेतुविशेषणं सिद्धं च वाच्यं न तु धर्मिविशेषणं सा-
ध्यं चेति, अन्यतरासिद्धे तु हेत्वाभासे तत्समर्थनं प्रक्रमानुरूपमेवेति न प्रति-
ज्ञान्तरं निग्रहस्थानं भवति, इह तु अनैकान्तिकत्वपरिहाराय यतमानो मार्ग-
मनुगुणमपश्यन् स्खलित इव निगृह्यते, न च हेतूदाहरणादिप्रयोगनिपुणमते-
रपि भ्रमादेवंविधमभिधानं न सम्भवति, न च प्रतिज्ञामात्रेण सिद्धिमिच्छन्नेवं
ब्रवीति अपि तु व्यभिचारं परिजिहीर्षन्निति, न चायमुन्मत्तप्रलाप एव प्रस्तुता-
नुगुणबुद्ध्या प्रयोगात् , अपि चानित्यः शब्दश्चाक्षुषत्वादित्युभयासिद्धो नाम-
हेत्वाभासो भवद्भिरपि शास्त्रे लक्षित एव, स उन्मत्तप्रलापो न भवति यथो-
दाहृतं पतिज्ञान्तरमुन्मत्तप्रलाप इत्यपूर्व एष भिक्षोः स्वदर्शनरागः परदर्शन-
द्वेषो वा, को हि नाम शिशुरपि शब्दे चाक्षुषतां ब्रूयात् , इदं सम्भवत्येवाभि-
धानं केवलं हेतुविशेषणे सिद्धे च वक्तव्ये भ्रमाद्धर्मिविशेषणं साध्यं वा ऽयमु-
क्तवानिति, निमित्तान्तरमिदमस्य निग्रहे निरूपितं द्वितीय एव तु वचसि कथा-
विरतौ हेत्वाभासप्रयोगादेव निग्रहमाप्नुयादिति प्रतिज्ञाहानिप्रस्ताव एवोक्तम् ।
प्रतिज्ञाविरोधस्य लक्षणम्—
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥ गौ. सू. अ. ५ आ. २ सू. ४ ।
यत्र प्रतिज्ञा हेतुना विरुध्यते हेतुर्वा प्रतिज्ञया स प्रतिज्ञाविरोधो नाम
निग्रहस्थानं भवति, गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा रूपादिभ्यो ऽर्थान्तर-
स्यानुपलब्धेरिति हेतुः, सोऽयं प्रतिज्ञाहेत्वोर्विरोधो यदि गुणव्यतिरिक्तं द्रव्यं
न तर्हि रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिरथ रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिर्न
तर्हि गुणव्यतिरिक्तं द्रव्यं रूपादिभिश्चार्थान्तरस्यानुपलब्धिरिति व्याहतम् ।
“अत्राह नेदं प्रतिज्ञाहेत्वोर्विरोधोदाहरणं भवितुमर्हति हेतोरसम्भवात् ,
सम्भवे हि हेतुः प्रतिज्ञां विरुणद्धि तया वा विरुध्यते, इह तूपलब्धिलक्षणप्राप्त-
स्यानुपलब्धिर्न समस्त्येव रूपादिभ्योऽर्थान्तरस्य पृथक्त्वेनोपलब्धियोग्यत्वा-
नुपपत्तेः, सम्भवन्नपि चैवम्बिधे विषये प्रतिज्ञाविरोधे हेतुर्न द्वयीं दोषजातिम-
तिवर्तते विरुद्धत्वमसिद्धत्वं वा, गुणव्यतिरिक्तद्रव्यवादिनो हि भेदेनाग्रहण-
तार्थत्वान्न पृथग्वक्तव्यमिदं निग्रहस्थानम् , यदन्यदन्यैरुदाहरणमभाणि नित्यः
शब्दः सर्वस्यानित्यत्वादिति तदप्यसाधु, वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशि-
क्षितैरभिधानात् , तथा हि सर्वशब्दोऽत्र सावयववचन इति निरवयवत्वं
हेतुर्विवक्षितो नित्यः शब्दो निरवयवत्वात्सावयवस्थानित्यत्वादिति सो ऽयम-