सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 607, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 607

निग्रहस्थानप्रकरणम् । १९५
तदाह नारदः—
सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरँस्तामुत्तरो भवेदिति ॥
प्रतिदृष्टान्तधर्मं च स्वदृष्टान्ते ऽभ्युपगच्छन्नुत्सृजत्येव प्रतिज्ञाम्, नित्यत्वं
हि सामान्यवद् घटस्यापि सहते तद्दृष्टान्तबलेन च तद्धर्मं शब्दे सिषाधयिष-
तीति नूनमिदानीं नित्यत्वमेव घटधर्मः शब्दे सिद्धयेदिति कथं तदनित्यत्वप्र-
तिज्ञा ऽस्य न हीयते, यत्तूक्तं हेत्वाभासप्रयोग एव निग्रहनिमित्तं न प्रतिज्ञाहानि-
रिति स्यादेतदेवं यदि द्वितीये वचसि व्यवस्थितेन प्रतिवादिना व्यभिचा-
रोद्भावनया प्रत्यवस्थितो वादी तावत्येव विरमेत्, स तु तृतीये वचसि वर्त्तमा-
नस्तदुद्धरणबुद्ध्या तथाविधमभिधत्ते येन प्रतिज्ञां जहाति, अतश्च व्यभिचारप-
रिहरणलोभाभिहितप्रतिदृष्टान्तधर्माभ्यनुज्ञावचनोपनततदर्थप्रतिज्ञाहानिनिबन्धन
एवाय्य निग्रहो युक्तो न हेत्वाभासप्रयोगकृत इति अयमेव मुख्यः प्रतिज्ञाहानेर्विषयः।
प्रतिज्ञान्तरस्य लक्षणम् —
प्रतिज्ञातार्थप्रतिषेधे धर्मे विकल्पात्तदर्थनिर्देशः प्रतिज्ञा-
न्तरम् ॥ गौ. सू. अ. ५ आ. २ सू. ३ ।
प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतो
वादिनः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति, अनित्यः शब्द ऐन्द्रियकत्वाद्वि-
त्युक्ते पूर्ववत्सामान्येन व्यभिचारोद्भावनया प्रत्यवस्थित आह, सामान्यमै-
न्द्रियकं यन्नित्यं तद्युक्तं तद्धि सर्वगतम् असर्वगतस्तु शब्द इति प्रतिज्ञां कुर्वन्
प्रतिज्ञान्तरेण निगृहीतो भवति,
“अत्राह नेदमप्रस्तुतप्रतिज्ञान्तरकरणम् अपि तु परोद्भावितव्यभिचारनिवारणं
विशेषणोपादानमेतत्, एवमुक्तं भवति असर्वगतत्वे सत्यैन्द्रियकत्त्वादनित्यः शब्द
इति तदिदमसर्वगतत्वं प्रतिज्ञासिद्ध्यर्थमुपात्तं कथं निग्रहस्थानम्, यो हि
मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वादित्युक्तवांस्तेन कृतकत्वं सिद्धमित्युपलब्धे
कृतकत्वे स प्रतिज्ञान्तरं कुर्वाणो निगृह्येत, यस्तु पूर्वप्रतिज्ञामवधीर्य तदनौप-
यिकमकस्मादेव प्रतिज्ञान्तरमारभेत तदा उन्मत्त एव भवेत्, न चोन्मत्तप्रला-
पानां शास्त्रे लक्षणकरणं युक्तम्, स्पष्टे निग्रहहेतौ हेत्वाभासाभिधाने सम्भवति
किमिति प्रतिज्ञान्तरं निग्रहस्थानमुच्यत इति”
अत्रोच्यते प्रतिज्ञासिद्धये हेतुदृष्टान्तौ प्रयोक्तव्यौ न पुनः प्रतिज्ञान्तरं कर-
णीयमिति स्थितिः, इह च यो हेतुरनेनोपात्तस्तस्मिन्परेणानैकान्तिकीकृते सति
न तत्परिहारप्रकारमनुगुणमथमास्थितवान् अपि त्वसर्वगतत्वप्रतिज्ञामन्या-
मभिरूढः ।
“ननु विशेषणमेतदनैकान्तिकत्वपरिहारार्थं न प्रतिज्ञान्तरमित्युक्तम्” ना-