न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 524, कुल 654 में से
संदर्भ में पढ़ें११० न्यायमञ्जर्याम्
यदा हि देवदत्तार्थी कश्चिद् व्रजति तद्गृहम् ।
तत्रासन्निहितं चैनं गत्वा ऽपि न स पश्यति ॥
क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते ।
तत्र तत्सदसत्त्वेन तथात्वं वेत्ति तद्धियः ॥
अनागते देवदत्ते न देवदत्तज्ञानमुदपादि तस्मिन्नागते तदुत्पन्नमिति तद्भा-
वभावित्वात्तज्जन्यं तदवसीयते, इत्थं च तज्जन्यत्वेन तत्र नियमसिद्धेरलमा-
कारकल्पनया, एतेन पुरुषप्रवृत्तिरपि नियतविषया व्याख्याता, साधकतमत्वं
तु सामग्र्याः प्रमाणसामान्यलक्षणे निर्णीतमेव ।
यस्तु लौकिकव्यपदेश उदाहृतः, सो ऽपि व्यभिचरति नीलोऽयं यतस्तद्वि-
षयं ज्ञानमुत्पन्नमित्यपि न तद् व्यपदिशन्ति लौकिकाः, तस्मा'दर्थे सत्यपि सा-
कारं ज्ञानमेषितव्यम्' इति यदुक्तं तदनुपपन्नम् ।
यदप्यवर्णि सहोपलम्भनियमादभेदो नीलतद्धियोरिति, तदपि बालभाषित-
मिव नः प्रतिभाति अभेदे सहार्थानुपपत्तेः, अथैकोपलम्भनियमादिति हेत्वर्थो
विवक्षितः, तदयमसिद्धो हेतुर्नीलादिग्राह्यग्रहणसमये तद्ग्राहकानुपलम्भात्,
ग्राहकाकारानुवेधरहिततद्विच्छिन्नो बाह्यग्राह्यमात्रप्रतिभास एवायं नीलमिद-
मित्यादि दर्शितः, क्वचित्तु ग्राह्याकारानुपश्लिष्टकेवलग्राहकावमर्शनमपि दृश्यते
न स्मरामि मया को ऽपि गृहीतोऽर्थस्तदेति हीति, तदेवमितरेतरविभक्तज्ञाना-
र्थाकारसंवेदनात्कथमेकोपलम्भनियमादभेदो नीलतद्धियोरित्युच्यते, नीलतद्धि-
योरिति च वदता भवताऽप्येष भेद एव निर्दिश्यते, परमतानुवादमात्रमेतदिति
चेन्नाभेदे पृथङ् निर्देशस्याप्यघटमानत्वात् , तस्मादपि न ज्ञानस्यायमाकारः ।
यदप्युक्तम् 'असत्यपि बाह्ये ऽर्थे स्वप्नगन्धर्वनगरमायादिषु ज्ञानस्याकारवत्ता
दृश्यते' इति तस्यैवायमाकारो युक्त' इति, तदपि दुराशामात्रं-सर्वत्र ज्ञानाद्वि-
च्छिन्नस्य ग्राह्याकारस्य प्रतिभासनात् , तथा हि-भ्रमज्ञानेषु चतुष्टयी गतिरात्म-
ख्यातिरसत्ख्यातिरख्यातिर्विपरीतख्यातिर्वा, तत्र रजतमदमिति सामानाधिकर-
ण्येनैकार्थप्रतिभासात्तन्मते च संवित्तेरपरोक्षत्वाद्रजताधिगमाभिधानेन तदर्थि-
नस्तत्र प्रवृत्तेर्बाधकप्रत्ययस्य तथाविधबोधनिषेधपरत्वेन प्रादुर्भावान्न तावदख्या-
तिरिति प्रागेव प्रसाधितमेतत्
असत्ख्यातिनिरासः ।
असत्ख्यातिरपि नास्ति एकान्तासतः खपुष्पादेः प्रतिभासायोगात् , देश-
कालव्यवहितानुभूतपूर्वपदार्थविषय एष भ्रान्तो ऽपि प्रत्ययः प्राणभृतां भवति
न त्वत्यन्तासद्विषयः , तथा हि द्विविधा भ्रान्तिर्बाह्येन्द्रियजा मानसी च,
तत्र बाह्येन्द्रियजे भ्रमज्ञाने विषयदोषादिन्द्रियदोषाद्वा समुत्पद्यमाने न क-