न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 525, कुल 654 में से
संदर्भ में पढ़ेंचिन्निरालम्बनता दृश्यते भास्वररूपसादृश्येन हि विषयदोषेण शुक्तिकारज-
तमिति परिस्फुरति, मरुस्थलपतितोत्फलितं सावित्रं तेजस्तरलतरङ्गसारूप्येण
पय इति चकास्ति , इन्द्रियदोषादपि पित्तोपहतरसनस्य तिक्ततया शर्करा-
ऽवभासते , तिमिरसीमन्तितनयनवृत्तेश्चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति
तिमिरकणनिकरविवरविरचितप्रसृताश्च नयनरश्मयः सूर्यांशुसंवलिताः सन्तः
सूक्ष्मतया केशकूच्र्ककाराः प्रतिभान्तीति ।
अन्तःकरणदोषेण विभ्रमो यस्तु जायते ।
असत्यपि महिलादौ पुष्पेषु मुषितात्मनाम् ॥
सो ऽपि कश्चिद्विषयदोषाह्वो भवति कुत्र चित् ।
कोमलानिलकल्लोलवेल्लिते बालपल्लवे ॥
अनपेक्षिततत्तुल्यपदार्थस्यैव या पुनः ।
मानसी मन्मथोन्मादमहिम्ना मानिनीमतिः ॥
तस्यामपि रोगादिवासनाबलोपप्लवमानसंवृत्याद्युपस्थापितदेशकालव्यवहि-
तोपलब्धपूर्वपुरन्धि्ररूपः समुल्लेखो न त्वेकान्तासतः खरविषाणादेरिव, प्रति-
भानिद्रादिमनोदोषजन्मनि स्वप्ने ऽपि दृष्टपूर्वस्यैव तस्याकारस्योल्लेखः ।
ज्वलज्जलगलद्वह्निस्रवद्वद्रक्षादिदर्शने ।
रूपमन्यस्थमन्यत्र वेत्ति न त्वसदेव तत् ॥
तदेवं भ्रान्तबोधेषु नात्यन्तासतां प्रथा ।
देशकालान्यतात्वं तु केवलं भाति वस्तुनः ॥
ननु तत्रासतो ऽर्थस्य प्रतिभासे देशान्तरादिषु सत्त्वं कोपयुज्यते देशान्तरे
दि सन्नसन्वा ? तत्र तावन्नास्त्येव सोऽर्थः, न च द्वयोरसत्त्वयोः कश्चिद्विशेषः दे-
शकालावपि किं सन्तावसन्तौ वा प्रतिभासेते इति विकल्पनायां तथा तयोरपि-
तुल्यो दोषः ।
मैवम् भवतो ऽप्यस