न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 523, कुल 654 में से
संदर्भ में पढ़ेंहतं नवा कदा चिदिति, तन्न साम्प्रतम् , तदानीं तद्ग्रहणसामग्र्यभावात् ,
न चाविबन्धमात्रेण प्रतीतिरवगम्यते ।
उपायविरहेणापि तदा ज्ञानस्य न ग्रहः ॥
न च जैमिनीया इव वयं ज्ञानं नित्यपरोक्षमाचक्ष्महे ज्ञातो मयाऽयमर्थ
इति कालान्तरे तद्विशिष्टार्थग्रहणदर्शनात् ।
शुक्लः पट इति ज्ञाने यथासौ भाति तद्गुणः ।
तथा ज्ञातो ऽर्थ इत्यत्र भात्यर्थो धीविशेषणः ॥
न विशेष्ये च संवित्तिरगृहीतविशेषणा ।
नानुसायधियं वेत्थं प्रतीयेत भ्रमाग्रहात् ॥
न च नित्यपरोक्षा बुद्धिरनुमातुमपि शक्यते इति च विचारितमेव, तदल-
मनया कथया किमिति शाक्यमुत्सृज्य श्रोत्रियमिदानीमभियुञ्ज्महे ।
अतश्च यदुक्तं ज्ञानपृष्ठावमर्शदर्शनाज्ज्ञानग्रहणपूर्वकंमर्थग्रहणमिति तन्न
सार्वत्रिकमपि तु क चिदेव ज्ञाननिष्ठार्थसंवेदनात्तथा ऽभ्युपगम्यते, तस्माद-
र्थग्रहणात्पूर्वं ज्ञानस्यानवभासान्निराकारत्वावसायविरहाच्च ज्ञानस्यैवायमाकार
इति कदाशाप्रलपितमेतदरुणाम्बराणाम् ।
यत्पुनरभ्यधायि 'ज्ञानाकारपक्षे कल्पना ऽल्पीयसी'ति, तत्र यथोक्तनीत्या
प्रत्यक्षगम्ये बाह्ये ग्राह्येऽर्थाकारे कल्पनोक्तिः कीदृशी ? कीदृशं वा तदल्पत्वं मह-
त्वमित्युभयसिद्धमपि यद्वादि ज्ञानस्य, तत्र यदि प्रमाणायत्ता वस्तुस्थितिः
अर्थो ऽप्युभयसिद्ध एव, इच्छाद्वेषनिबन्धनायां तु वस्तुस्थितौ ज्ञानमपि कथ-
मुभयसिद्धं स्यादिति यत्किंचिदेतत् ।
यत्पुनरिदमभिहितमभ्युपगम्यापि बाह्यमर्थमप्रत्याख्येयः प्रतिकर्मव्यवस्थासि-
द्धये ज्ञानस्याकारयोग इति, तदपि न साम्प्रतम् , प्रतिकर्मव्यवस्थायाः प्रकारा-
न्तरेणाप्युपपत्तेः ।
यद्यप्यनेकसंनिधाने नीलज्ञानमुपजायते यद्यपि बोधरूपत्वमशेषसाधारणं तथा
ऽपि नीलेनैव कर्मकारकेण तदुपजनितमिति नीलनिष्ठमेवावतिष्ठते, चक्षुरादिना
ऽपि तज्जनितमिति चेत्सत्यं जनितं न तु कर्मभूतेन तदुत्पाद्यते इति तदेकविषय-
मेव भवति, कुत एष नियम इति चेद्वस्तुस्वभावत एव, आकारपक्षे ऽपि
समानो ऽयं पर्यनुयोगः ।
यदुच्यते किमिति नीलमेव कर्म कारकं किमिति वा कर्मविषयमेव ज्ञान-
मिति, तत्र वस्तुस्वभावैरुत्तरं वाच्यम , आकारमपि च ज्ञानमुपाददानमर्थस्यैव
कथमुपाददीत न कारकान्तरस्येत्यत्रापि वस्तुस्वभाव एव शरणमिति, अर्थस्य
च ज्ञानजनकत्वमन्वयव्यतिरेकाभ्यामवगम्यते ।