सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 500, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 500

८६ न्यायमञ्जर्याम्
क्लेशोपशमस्य सुशक्यत्वात् । यद्येषां नित्यो हेतुर्भवेत्कार्यो वा, यद्यसौ न ज्ञी-
येत ज्ञातोऽपि वाऽनुष्ठातुमसो न शक्येत तदा क एवैनमुच्छिन्द्यात्, किन्तु—
नाकस्मिका न नित्यास्ते न नित्याज्ञातहेतुकाः ।
नाज्ञातशमनोपाया न चाशक्यप्रतिक्रियाः ॥
न हि दोषाणामात्मस्वरूपवन्नित्यत्वमुपजननापायधर्मकत्वेन ग्रहणात्, मि-
थ्याज्ञानं च प्रसवकारणमेषामवधृतमिति नाकस्मिकत्वमविनाशिहेतुकत्वमज्ञात-
हेतुकत्वं वा। मिथ्याज्ञानस्य च सम्यग्ज्ञानं प्रतिपक्षः प्रतिपक्षभावनाभ्यासेन
च समूलमुन्मूलयितुं शक्यन्ते दोषा इति नाज्ञातप्रतीकारत्वं तेषाम्, उक्तं च
केन चित्—
सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयाश्रिताः ।
सात्मीभावात्तदभ्यासाद्धीयेरन्नामुना क्व चित् ॥ इति ।
वैराग्यार्थं विषयेषु दोषभावना ।
विषयदोषदर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति यदा ह्येवं चिन्त-
यति विवेकी—
असौ तरलताराक्षी पीनोत्तुङ्गघनस्तनी ।
विलुप्यमाना कान्तारे विहगैरद्य दृश्यते ॥
विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः ।
अन्तर्मज्जास्थिविण्मूत्रमेदःक्रिमिकुलाकुलम् ॥
अस्थीनि पित्तमुच्चाराः क्लिन्नान्यन्त्राणि शोणितम् ।
इति चर्मपिनद्धं सत्कामिनीति विधीयते ॥
मेदोग्रन्थी स्तनौ नाम तौ स्वर्णकलशौ कथम् ।
विष्ठाघटौ नितम्बे च को ऽयं हेमशिलाभ्रमः ॥
मूत्रासृग्द्वारमशुचि छिद्रं क्लेदि जुगुप्सितम् ।
तदेव हि रतिस्थानमहो पुंसां विडम्बना ॥
प्रीतिर्यथा निजास्योत्थं लिहतः शोणितं शुनः ।
शुष्के ऽस्थनि तथा पुंसः स्वधातुस्पन्दिनः स्त्रियाम् ॥
व्यात्तानना विवृत्ताक्षी विवर्णा श्वासबुद्बुदा ।
कथमद्य न रागाय म्रियमाणा तपस्विनी ॥
अहो व्रणे वराको ऽयमकाले तृषितः फणी ।
प्रसारितमुखो ऽप्यास्ते शोणितं पातुमागतः ॥
किमनेनापराद्धं नः स्वभावो वस्तुनः स्वयम् ।
स्पृश्यमानो दहत्यग्निरिति को ऽस्मै प्रकुप्यति ॥