सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 499, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 499

[Header] अपवर्गनिरूपणम् । ८५

वार्द्धक्याप्यपरित्यागप्रतिपादनाय कर्मप्रशंसार्थत्वात् , ‘ये चत्वारः पथयो देवयाना’
इत्यादयो हि चतुर्थाश्रमशंसिनो भूयांसः सन्ति मन्त्रार्थवादाः, मन्त्रादिस्मृति-
वचनानि चतुर्थाश्रमोपदेशीनि चतुर्थाश्रमोचितश्रौताचारादीतिकर्तव्यतावि-
तानविधानपराणि च प्रबन्धेनैव दृश्यन्ते ।
एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ।
वने वसेत्तु नियतो भैक्षभुग्विजितेन्द्रियः ॥ (मनु अ० ६ श्लो०१)
इत्युपक्रम्य चतुर्थाश्रमोचितमोक्षोपायानुष्ठानोपदेशाय षष्ठोऽध्यायः संमस्त
एव मनुना ऽनुक्रान्तः, जाबालश्रुतौ च विधायकेनैव ब्राह्मणवाक्येन प्रतिपद-
माश्रमचतुष्टयमुपदिष्टम्— ‘ब्रह्मचारी भूत्वा गृही भवेद् गृही भूत्वा वनी भवेद्वनी
भूत्वा प्रत्रजेदि’ति, अग्निसमारोपणविधानोपदेशश्च प्रत्यक्षाच्छ्रुतः कथमपन्हूयेत-
‘आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद् गृहादि’ति, अपि च उपनिषदामध्यय-
नमसति मोक्षोपयोगसमर्थे चतुर्थाश्रमे निरर्थकमेव प्राप्नोति , क्रियाकाण्डानु-
ष्ठाननिष्ठत्वे हि वेदस्य ज्ञानकाण्डोपदेशः किम्प्रयोजनः स्यात् , तदेवं वर्णवदा-
श्रमाणामपि चतुर्णां प्रत्यक्षोपदेशसिद्धत्वाच्चतुर्थाश्रमिणां च मोक्षाधिगमोपायत-
त्त्वज्ञानभावनाभ्यासावसरसम्भवात्सो ऽयं जरामर्यवादः प्रशंसामात्रपर एवा-
वतिष्ठते, ‘जरया ह वा एष एतस्मान्मुच्यते मृत्युना वे’ति च वचनाज्जरसा कर्म-
त्यागानुज्ञानात्स एव चतुर्थाश्रमावसर इति गम्यते, तदुक्तम्—
गृहस्थस्तु यदा पश्येद्वली पलितमात्मनः ।
अपत्यस्यैव चापत्यं तदा ऽरण्यं समाश्रयेत् ॥ (मनुअ०६ श्लो०२)
इतरथा हि मृत्युनेव च तस्मान्मुच्यते इत्यवक्ष्यत न त्वेवमब्रवीत् , त-
स्माद्वार्द्धकदशोचितं चतुर्थमाश्रममनुमन्यते, तिष्ठतु वा वार्धकद्शा यतो ऽपि
परिपक्ककषायस्याश्रमचतुष्टयक्रममनपेक्ष्यैव मोक्षाधिकार आख्यातः यथोक्तं
‘ब्रह्मचर्यादेव प्रव्रजेदि’ति, अत एव द्विविधो ब्रह्मचारी भवत्युपकुर्वाणो नैष्ठिकश्च,
तत्रोपकुर्वाणको यो ब्रह्मचर्यमनुभूय गृहस्थाश्रममनुभवति स चापरिपक्ककषायो-
ऽनुपशान्तगार्हस्थ्यरागः, तमेव प्रतीदमुच्यते-‘अनधीत्य द्विजो वेदाननुत्पाद्य च
सन्ततिम् । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः । (मनु०अ० ६श्लो३७)
इति, यस्तु परिपक्ककषायः स नैष्ठिक एव ब्रह्मचारा भवति न गृहस्थाश्रमं प्रति-
पद्यते, गृहस्थो ऽपि परिपक्ककषायो वानप्रस्थाश्रममुलङ्घ्य यतित्वे ऽधिक्रियते
यथोक्तम् , ‘गृहाद्वनाद्वा प्रव्रजेदि’ति ।
के चित्तु कर्मफलाभिसन्धिरहितस्य कर्तव्यमिति कर्म कुर्वतः क्षीणराग-
स्यात्मविदो गृहस्थस्यापि ( मोक्ष: ? ), यों ऽतिथिप्रियः श्राद्धकृद्वेदविद्याविद्
गृहस्थो ऽपि विमुच्यते इति, तस्मादृणानुबन्धादपवर्गाभाव इत्ययुक्तम् ।
यत्तु क्लेशानूबन्धादिति तदप्यनध्यवसायमात्रम , प्रतिपक्षभावनादिना