न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 498, कुल 654 में से
संदर्भ में पढ़ें८४ न्यायमञ्जर्याम्
रागादिप्रेर्यमाणो हि कर्माण्यरभते नरः ।
दीर्घदीर्घाः प्रतायन्ते यैर्धर्माधर्मवासनाः ॥
स प्रवृत्त्यनुबन्धश्च हेतुरन्यस्य जन्मनः ।
एकमेवेदृशं कर्म कर्तुमापतति क चित् ॥
जन्मायुतशतेनापि यत्फलं भुज्यते न वा ॥
त्वेककर्मानुबन्धोत्थजन्मदुःखादिश्रृङ्खला ।
पुनरावर्तमानैषा केनोपायेन भज्य्ताम् ॥
विना फलोपभोगेन न हि नाशोऽस्ति कर्मणाम्।
तेषां ज्ञानाग्निना दाह इति श्रद्धाविजृम्भितम् ॥
कार्यकारणभावो हि शास्त्रादेवावधारितः ।
कर्मणां च फलानां च स कथं वा निवर्त्तताम् ॥
न चास्य ज्ञानसापेक्षं कर्मेष्टं बन्धकारणम् ।
येनात्मज्ञानयुक्तानां तदुदासीत तं (१) प्रति ॥
अज्ञाननैरपेक्ष्येण कर्मणां स्वभाव एवैष यत्फलाविनाभावित्वमिति ।
तस्मादित्थंऋणक्लेशप्रवृत्त्यभ्यनुबन्धतः ।
न मोक्षसिद्धिरस्तीति तदर्थो विफलः श्रमः ॥
अशक्ये ऽर्थे वृथा ऽऽयासं परित्यज्य मनस्विभिः ।
मोक्षचर्चाः परित्यज्य स्वे गृहे सुखमास्यताम् ॥
मोक्षोपायानुष्ठानसम्भवः ।
अत्राभिधीयते—यत्तावदुक्तमृणानुबन्धादिति, तदयुक्तम्, विधिपक्ष-
श्रवणादौपचारिकमृणशब्दं जायमानशब्दं च प्रयुज्य कर्मस्तुतिरियं क्रियते-
‘जायमानो ह वै ब्राह्मण इति’ न तद्व्यतिरिक्तपुरुषार्थविषयप्रयत्नप्रतिषेधो
विधीयते, तथा हि ऋणशब्दो ऽयं विषयान्तरे मुख्यार्थः प्रसिद्धो यत्रोत्तमर्णः
सलाभममुतः प्रतिग्रहीष्यामीति धनमधमर्णाय प्रयच्छत्यधमर्णोऽपि सलाभमस्मै
प्रदास्यामीति मत्वा गृह्णाति, साऽयमृणशब्दस्य मुख्यो विषय इह नास्त्येव,
जायमानो ऽपि मुख्य उत्पद्यमानो ऽपि मातुः कुक्षिकुहरान्निस्सरन्नभिधीयते न
चासौ बालकः कर्मभिरभिसम्बध्यते, तस्माद् ब्रह्मचर्यमपत्योत्पादनमध्वरप्रयोग
इति त्रयमिदमवश्यकर्त्तव्यमिति कर्मस्तुतिरिय मौपचारिकपदप्रयोगाद्गम्यते, न
चैतावता मोक्षव्यवसायावसरविरह इति परिशङ्कनीयमाश्रमान्तरस्य तदौप-
यिकस्य दर्शनात् ।
ननु मरणावधिदर्शपूर्णमासकर्मोपदेशात्कथमाश्रमान्तरग्रहणम्?, न जरामर्य-
( १ ) तं—बन्धम् ।