सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 494, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 494

यते न दुःखविषयो द्वेषः विरक्तस्य चास्य मोक्षं प्रति यत्नो भवति न दुःखं
द्विषत इति समानो न्यायः ।
यत्तूक्तं—निरानन्दो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवतीति, तदपि न
साम्प्रतम् , प्रयोजनानुसारेण प्रमाणव्यवस्थाऽनुपपत्तेः, न हि प्रयोजनानुव-
र्ति प्रमाणं भवितुमर्हति, यदि निरानन्दो मोक्षः प्रेक्षावतां न रुचिरतः कामं मा
भून्न त्वप्रमाणकमानन्दं तत्र कल्पयितुं शक्नुमः, न च सर्वात्मना साधूनामन-
भिमत एव तथाविधो मोक्षः, न च तदवाप्तये न प्रयतन्ते, ते ह्येवं विवेचयन्ति
दुःखसंस्पर्शो शाश्वतिकसुखसम्भौगासम्भवाद् दुःखस्य चावश्यहातव्यत्वाद्विवे-
कहानस्य चाशक्यत्वाद्विषमधुनी ह्येकत्र पात्रे पतिते उभे अपि सुखदुःखे
त्यज्येतामिति, अतश्च संसारान्मोक्षः श्रेयान्यत्रायमियानतिदुःखप्रबन्धोऽवलु-
प्यते वरमियतः कादाचित्की सुखकणिका त्यक्ता न तस्याः कृते दुःखभार इया-
नूढ इति, तस्मान्न सुखोपभोगात्मको मोक्ष इति ।
सुखसत्तासमर्थनम् ।
अन्यस्त्वाह—तिष्ठतु तावन्मोक्षः संसारे ऽपि न सुखं नाम किं चिदस्तीति
सर्व एवायं दुःखाभावमात्रे सुखव्यवहारः, तथा हि—
तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि
क्षुधार्तः सञ्छालीनकवलयति सम्पाकवलितान् ।
प्रदीप्ते रागाग्नौ घननिबिडमाश्लिष्यति वधूं
प्रतीकारे व्याधेः सुखमिति विपर्यस्यति जनः ॥ (-इति ? )
उच्यते—तदिदमतीव कृतकवैराग्यप्रकटनकौरुकुचीकूर्चकौशलमानन्दारुमनः
प्रतिप्राणिसंवेद्यस्य निह्नोतुमशक्यत्वान्निवृत्तेऽपि दुःखे कचित्सुखसंवेद-
नान्न दुःखाभावः सुखं निरभिलाषस्याप्यतर्कितोपनतसुखसाधनविषयसम्पर्के
सति सुखसंवेदनदर्शनादभिलाषात्मकदुःखाभावः सुखमित्यपि न मनोज्ञम् ,
यस्तु दुःखाभावे कचित्सुखमित्यपि व्यपदेशः प्रशान्तरौगाणामिव पूर्वदर्शितः
स भाक्त इति न तावता स्वसंवेदनसाक्षिकसुखापह्नवः कर्तुमुचितः, मोक्षे तु
नित्यसुखमसम्भवत्प्रमाणं नाभ्युपगम्यते ।
अपिच मोक्षे सुखमस्ति न वेति विचार एष न प्रामाणिकजनोचितः,
स्वरूपेण व्यवस्थानमात्मनो मोक्ष इति मोक्षविदः, तत्रात्मस्वरूपमेव कीदृगिति
चिन्त्यं न पृथक् मोक्षस्वरूपम्, आत्मनश्च सुखदुःखबुद्ध्यादय आगन्तुका
गुणा न महत्त्ववत्सांसिद्धिका इति निर्णीतमेतदात्मलक्षणे सुखादिकार्येण चा-
त्मनो ऽनुमानादिति, अत एव कपिलकथितचितिशक्तिस्वभावत्वमपि न युक्त-
मात्मनः ।