न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 495, कुल 654 में से
संदर्भ में पढ़ेंअपवर्गनिरूपणम् । ८१
सचेतनश्चित्ता योगात्तदभावादचेतनः ।
चितिर्नामार्थविज्ञानं कादाचित्कं तु तस्य तत् ॥
नार्थसंवेदनादन्यच्चैतन्यं नाम विद्यते ।
तच्च सामग्र्यधीनत्वात्कथं मोक्षे भविष्यति ॥
जाग्रतः स्वप्नवृत्तेर्वा सुषुप्तस्यापि वा ऽऽत्मनः ।
ज्ञानमुत्पद्यते ऽन्या तु चतुर्थी नास्ति तद्दशा ॥
जाग्रद्दशायां स्वप्ने च बुद्धेः प्रत्यात्मवेद्यता ।
सुखं सुप्तो ऽहमद्येति पश्चात्प्रत्यवमर्शनात् ॥
तदा त्वचेत्यमाना ऽपि सुषुप्ते धीः प्रकल्प्यते ।
तुर्यावस्था तु संवित्तिशून्यस्य स्थितिरात्मनः ॥
तुर्यावस्थातिगं रूपं यदाहुः के चिदात्मनः ।
प्रमाणगोचरत्वेन कल्पनामात्रमेव तत् ॥
संवित्प्रसवसामर्थ्यं सामग्रीसन्निधानतः ।
यदि नामात्मनो ऽस्त्यस्य तावता न चिदात्मता ॥
यदि तु दर्शनशक्तियोग्यतामात्रमेव पुंसश्चैतन्यमुच्यते तर्हि तथाविधस्य
तस्य कैवल्यस्यास्माकीनमोक्षसदृक्षत्वमेव योग्यतामात्रसंभवे ऽपि दृश्येन्द्रियसं-
योगादेस्सामग्र्या वैकल्यावस्थायामात्मनो द्रष्टृत्वासंभवाद् दर्शनशून्यस्य चान्य-
स्य चैतन्यस्य निरस्तत्वादिति ।
निर्वाणादिपदाख्येयमपवर्गं तु सौगताः ।
सन्तत्युच्छेदमिच्छन्ति(१)स्वच्छां वा ज्ञानसन्ततिम्(२) ॥
एतद् द्वितयमप्युक्तं पूर्वमेव तद् ध्वस्तं च, ज्ञानसन्ततिर्नित्येत्यारभ्य स-
मर्थितः ।
सन्तत्युच्छेदपक्षस्तु नैयायिकमतादपि ।
शोच्यो यत्राश्मकल्पो ऽपि न कश्चिदवशिष्यते ॥
अर्हत्पक्षे ऽपि यद्रूपमन्यसापेक्षमात्मनः ।
न केवलस्य तद्रूपमित्यस्मन्मततुल्यता ॥
विकारित्वं तु जीवानामत्यन्तमसमञ्जसम् ।
शब्दपुद्गलवच्चैतत्प्रत्याख