सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 442, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 442

भावानां परस्परपरिहारव्यवस्थितरूपत्वमस्त्येवैषां लाक्षणिको विरोधः,
अपि च क्षणिकत्वे पदार्थानामिदमत्रोपादानकारणमिदं सहकारिकारण-
मिति विशेषोऽपि दुरवगमः, तथा हि किमिदमुपादानं नाम ? किं स्वसंतान-
विनाशेन बीजादिवत्कार्यजननमुपादानमुत स्वविशेषसमर्पणेनोत्पादकमिति,
यदि पूर्वः पक्षः, परलोकचर्चा चार्वाकवदुपेक्षिता स्यात् ज्ञानसन्तानविनाशेन
ज्ञानान्तरारम्भप्रसङ्गात् , स्वविशेषार्पणपक्षेऽपि सर्वविशेषार्पणं स्यात्कतिपयवि-
शेषार्पणं वा, सर्वविशेषार्पणे निर्विकल्पकस्य नोपादानकारणं स्यात् ,
लिङ्गदर्शनजन्या च प्रतिबन्धस्मृतिः(१) कथम् ।
कथं वा रसविज्ञानं रूपज्ञानानन्तरम् ॥
सन्तानभूयस्त्वाद्भविष्यतीति चेन्नैकप्रमात्राधीनप्रतिसन्धानोपनिबन्धनव्यव-
हारप्रतिबन्धविप्लवप्रसङ्गात्, नित्यमेकमात्मानमन्तरेण सन्तानैकतायामपि ताव