न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 322, कुल 654 में से
संदर्भ में पढ़ें३०० न्यायमञ्जर्याम्
तच्छोदेन न नः प्रयोजनमतिद्राघीयसी सा हि भू-
रन्यामेव दिशं परीक्षितुमतो ऽस्माभिर्गृहीतः क्षणः ।
जात्याद्यर्थसमर्थनेन कथिता बाह्यार्थसंस्पर्शिता
शब्दानामित्यतैव नन्ववसरे ऽमुष्मिन् कृतार्था वयम् ॥
वाक्यार्थनिरूपणम् —
एवं पदार्थे निर्णीते वाक्यार्थश्चिन्त्यते ऽधुना ।
तत्र विप्रतिपत्तिश्च बहुरूपा विपश्चिताम् ॥
वाक्यार्थे विप्रतिपत्तयः —
के चिदाचक्षते बाह्यस्य वाक्यार्थस्यासम्भवात् पदार्थसंसर्गनिर्भासं ज्ञानमेव
वाक्यार्थ इति,
अन्ये वास्तवः पदार्थानां परस्परसंसर्गो बाह्य एव वाक्यार्थ इत्याहुः,
अन्यव्यवच्छेदो वाक्यार्थ इत्यपरे, शुक्लादिपदान्तरोच्चारणे कृष्णादिनिवृत्ते-
रवगमात् ,
अपरे सङ्गिरन्ते संसर्गस्य दुरपह्नवत्वात्तस्य च गुणप्रधानभावगर्भत्वादगु-
णीभूतकारकनिकरनिर्वर्त्या प्रधानभूतक्रिया वाक्यार्थ इति,
अन्ये मन्यन्ते भव्यनिष्ठः पुरुषव्यापारः करोत्यर्थो भावनाशब्दवाच्यो
वाक्यार्थः , लिङादिशब्दव्यापारस्तु शब्दभावनाख्यः पुरुषार्थभावनाऽनुष्ठाने
प्रवर्त्तकः स एव विधिरुच्यते,
अन्ये ब्रुवते द्वयाभिधाने लिङादेः प्रत्ययस्य भारगौरवाद्विधिरेव वाक्यार्थः
स एवानुष्ठेयः प्रवर्त्तकश्चेति, तत्रापि द्वयी विमतिः कैश्चित्प्रेषणात्मकत्वं शब्द-
स्याभ्युपगतं लिङादिशब्दैस्तथा तदवगमात्कार्यान्तरानवगमाद्भावार्थमात्रका-
र्यत्वपक्षस्य चातिदौर्बल्याद्विधिरेवानुष्ठेय इत्यर्थात्त्तस्य कार्यत्वम् , अन्यैस्तु
कार्यत्वेन नियोगप्रतीतेरर्थात्त्तस्य प्रेरकत्वमिति संश्रितम् , कार्यमवगतं स्वसि-
द्धये पुरुषं नियुङ्क्ते ममेदं कार्यमित्यवगते हि तत्सिद्धये पुरुषः प्रवर्त्तते इति ,
अन्ये पुनः अभिनवं वाक्यार्थमुद्योगं नाम वर्णयांूबभूवुरित्यनेकशाखा
विप्रतिपत्तिः ।
ज्ञानस्य वाक्यार्थत्वनिरूपणम्—
तदत्र किं तत्त्वमिति अत्रैके तावदाहुः, वाक्यार्थो नाम पारमार्थिको
बहिर्नास्त्येव, स हि पदार्थेभ्यो व्यतिरिक्तो वा स्यादव्यतिरिक्तो वा, न व्य-
तिरिक्तः भेदानुपलम्भात् , गौः शुक्ला आनीयतामित्यत्र पदग्रामे जातिगुणक्रि-
यादिपदार्थ एव वाक्यार्थः प्रत्येकं वा स्यात्सामस्त्येन वा, न प्रत्येकं तथा