सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 319, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 319

निष्कृष्टस्वरूपमात्रनिष्ठामिति तदनुपपन्नम्, अनाश्रितव्यक्तिकाया जातेः कदा-
चिदप्यदर्शनात् ।
अथ गोशब्दश्रवणवेलायां व्यक्तिसंसर्गवती जातिरवगम्यते भावप्रत्य-
यान्ते तु गोशब्दे श्रुते तच्छून्या ऽसौ प्रतीयते इति, यद्येवमागतो ऽसि
मदीयं पन्थानम् आश्रयवती चेज्जातिरुच्यते शब्देन जात्याश्रय उक्त एव
भवति नान्यथा साश्रयवत्युक्ता स्यात्, तदाश्रयपरिहारेणाश्रयिसामान्यमा-
त्रविवक्षायां त्वतलादयः प्रयुज्यन्ते, तथा चाहुः(१) “यस्य गुणस्य हि भावाद्
द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलादय” इति, गुणस्य हि भावाद् द्रव्ये
शब्दनिवेशः इति तद्द्वाच्यत्वपक्षसाक्षीण्याक्षराणि, सामानाधिकरण्यं च तत्रै-
वोपपद्यते इत्युक्तमेतत्,
व्यक्तिबोधे पदव्यापारसाधनम्—
तस्मात्—
यथा विध्यन्तपर्यन्तो वाक्यव्यापार इष्यते ।
तथैव व्यक्तिपर्यन्तः पदव्यापार इष्यताम् ॥
अनवरतव्यापारे शब्दे तदवगमात् ।
येनान्विताभिधानं च पदानामभ्युपेयते ।
सुतरां तेन वक्तव्या व्यक्त्यन्ता पदतो मतिः ॥
न हि व्यक्त्यनपेक्षाणां जातीनामितरेतरम् ।
अन्वयो ऽनन्वितानां च नाभिधानमिति स्थितिः ॥
गङ्गायां घोष इत्यादौ यथा सामीप्यलक्षणा ।
नैवं गौः शुक्ल इत्यादौ गम्यते व्यक्तिलक्षणा ॥
प्रयोगप्रतिपत्तिभ्यां वृद्धेभ्यो ऽध्यवसीयते ।
तस्माद् गवादिशब्दानां तद्वानर्थ इति स्थितम् ॥
तदिदमुक्तं सूत्रकृता “व्यक्त्याकृतिजातयस्तु पदार्थ” इति, तुशब्दो विशेष-
णार्थः किं विशिष्यते गुणप्रधानभावस्य नियमेन शब्दार्थत्वम्, स्थिते ऽपि तद्गतौ
वाच्यत्वे क चित्प्रयोगे जातेः प्राधान्यं व्यक्तेरङ्गभावः यथा गौर्न पदा स्प्रष्टव्ये-
ति सर्वगवीषु प्रतिषेधो गम्यते, क चिद्व्यक्तेः प्राधान्यं जातेरङ्गभावः यथा गां
मुञ्च गां बधानेति नियतां कां चिद्व्यक्तिमुद्दिश्य प्रयुज्यते, क चिदाकृतेः प्रा-
धान्यं व्यक्तेरङ्गभावो जातिर्नास्त्येव यथा पिष्टकममयो गावः क्रियन्तामिति स-
त्रिवेशचिकीर्षया प्रयोग इति सर्वगतत्वे ऽपि जातेर्न मृद्गवादौ वृत्तिरित्यु-
क्तम्, तदेवं गवाश्वादिशब्दानां तावत्तद्वानर्थ इति सिद्धम् ।
( १ ) महाभाष्ये अ० ५ पा० १ आ० २ सू० ११९
३८ न्या०