सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 308, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 308

२८६ न्यायमञ्जर्याम्
तस्मात्सकृदभिव्यक्ता नान्यदापि प्रतीयते ॥
अभिव्यक्तिश्च तद्देशा यद्देशा व्यक्तिरीक्ष्यते ।
तस्मात्तस्मादभिव्यक्ता न देशे ऽन्यत्र दृश्यते ॥
व्यक्तिसर्वगतत्वे ऽपि स्वयूथ्यैः कैश्चिदाश्रिते ।
भविष्यत्यद्य जातायां गवि गोधीस्तथा प्रहात् ॥
जायमानैव हि व्यक्तिर्जायते प्रतियोगिनी ।
एक एव हि कालो ऽस्या जातेः सम्बन्धजन्मनोः ॥
नेह जातेः पुरास्तित्वं न च संक्रान्तिरन्यतः ।
किं तु स्वहेतोः सा व्यक्तिस्तादृश्येवोपजायते ॥
कथमेतदितीदं च यो वा पर्यनुयुज्यते ।
इतरस्य परं हेतुस्तेन पर्यनुयुज्यते ॥
वृषः पिशङ्गो गौः कृष्णा सा च नीलतृणाशिनी ।
ताभ्यामुत्पादितो वत्सः कथं भवति पाण्डुरः ॥
यथा रूपाद्यसम्बद्धा न व्यक्तिरुप