न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 307, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् १८५
पिण्डान्तरे ऽपि तदुपलम्भोऽस्त्येव, कथं च भवन्तमेनं निह्नुमहे, एकदे-
शास्तु जातेर्न सन्त्येव यैरस्या वर्त्तनं ब्रूमः, केदमन्यत्र चेद् अहो निपुणता
तव दृष्टान्तं याचसे यस्त्वं प्रत्यनुमानवत् , किंनामधेयैषा वृत्तिरिति चेद् न
नामधेयं जानीमः पिण्डसमवेता जातिरित्येतावदेव प्रचक्ष्महे ।
नन्वयुतसिद्धयोः सम्बन्धः समवायः स च विप्रतिषेधादेव निरस्तः, न
शक्यते निरसितुम्—
प्रतीतिभेदाद्भेदो ऽस्ति देशभेदस्तु नेष्यते ।
तेनात्र कल्प्यते वृत्तिः समवायः स उच्यते ॥
अवयवावयविनोर्गुणगुणिनोश्चायमेव वृत्तिस्तयोरर्थान्तरत्वमुपरिष्टाद्दर्शयि-
ष्यते दर्शितं चामुनेव मार्गेण देशभेदश्च तयोर्नास्तीति विस्पष्टमयुतसिद्धत्वम् ।
यदप्युच्यते 'नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धता' इति तदपि परिहृ-
तमाचार्यैः “जातं च सम्बद्धं चेत्येकः काल” इति वदद्भिः, सर्वं चैतदबाधितप्र-
तीतिबलात्कल्प्यते न स्वशास्त्रपरिभाषया, विभूनामपि सम्बन्धः परस्परमसम्भ-
वादेव नेष्यते न परिभाषणात् , न संयोगः तेषामप्राप्तेरभावादप्राप्तिपूर्विका हि
प्राप्तिः संयोगः न च समवायस्तदाश्रितस्य तस्यानुपलम्भादित्यलं प्रसङ्गेन ।
ये चेह वृत्ती स्रक्सूत्रभूतकण्ठगुणादिषु ।
जात्यादीनामनंशत्वात्ताभ्यां वृत्तिर्विलक्षणा ॥
तस्माद्वृत्त्यनुपपत्तेरित्यदूषणम् ,
जात्याश्रयनिरूपणम्—
यदपि सर्वगतत्वं पिण्डगतत्वं च विकल्प्य दूषितं तदपि यत्किं चिद्यथा
प्रतीतिरादिशति भगवती तथा वयमप्युपगच्छामः ।
सर्वसर्वगता जातिरिति तावदुपैयते ।
सर्वत्राग्रहणं तस्या व्यञ्जकव्यक्त्यसन्निधेः ॥
व्यक्तिर्व्यञ्जकतामेति जातेर्दृष्ट्वैव नान्यथा ।
दृष्टिर्यत्र यदा व्यक्तेस्तदा तत्रैव तन्मतिः ॥
सर्वत्र विद्यते जातिर्न तु सर्वत्र दृश्यते ।
तदभिव्यञ्जिका यत्र व्यक्तिस्तत्रैव दृश्यते ॥
व्यक्तेरन्यत्र सत्त्वे स्यात्किं प्रमाणं तदुच्यते ।
इहाप्यानीयमानायां गवि गोत्वोपलम्भनम् ॥
गोपिण्डेन सहैतस्या न चागमनसंभवः ।
देहेनेवात्मनस्तस्मादिहाप्यस्तित्वमिष्यताम् ॥
अभिव्यक्तिस्तु तत्काला यत्कालं व्यक्तिदर्शनम्