न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 306, कुल 654 में से
संदर्भ में पढ़ें२८४ न्यायमञ्जर्याम्
जातौ पूर्वपक्षांनिराकरणम् ।
यदप्यभिहितम् इतरेतरविरुद्धरूपसमावेश एकत्र वस्तुनि नांपपद्यते इति
तदपि न सम्यक् ।
परस्परविरोधो ऽपि नास्तीह तदवेदनात् ।
एकबाधेन नान्यत्र धीः शुक्तिरजतादिवत् ॥
यत्र हि विरोधो भवति तत्रैकतररूपोपमर्द्देन रूपान्तरमुपलभ्यते प्रकृते तु
नैवमिति को विरोधार्थः, छायातातपावपि यद्येकत्र दृश्येते किं केन विरुद्धमभि-
धीयते अदर्शनात्तु तद्विरुद्धमुक्तं न चैवमिहादर्शनमित्यविरोधः ।
अत एव हि मिथ्यात्वमेति नान्यतरा मतिः ।
न ह्यन्योन्योपमर्द्देन बुद्धिद्वितयसम्भवः ॥
तथा चाह—
यथा कल्माषवर्णस्य यथेष्टं वर्णनिश्चयः ।
चित्रत्वाद्वस्तुनोप्येवं भेदाभेदावधारणम्(१) ॥
इत्येवमविरोधेन भेदाभेदावधारणात् ।
उभयात्मकतैवास्तु वस्तूनां भट्टपक्षवत् ॥
एतत्तु वृत्तिविकल्पादिभ्यो बिभ्यतेवाभ्युपगतं तत्रभवतेति तिष्ठतु तावत्कि-
मत्र विमर्द्देन ।
व्यतिरिक्तैव जातिः व्यक्तिषु वर्त्तते इति ब्रूमः—
यच्च वृत्तिविकल्पादिदूषणं तत्र वर्णितम् ।
तत्प्रत्यक्षमहिम्नैव सर्वं प्रतिहतं भवेत् ॥
यत्तावदवादि भेदेन कुवलयामलकादिवदनवभासनादिति तत्र प्रतीतिभेदो
दर्शित एव ।
यत्तु देशभेदेनाग्रहणात् तद्ग्रहे तद्बुद्ध्यभावादिति तत्र तदाश्रितत्वं
कारणं जातेर्न त्वसत्त्वम् , व्यक्तिवृत्तित्वाज्जातेः पृथग्देशतया ऽनुपलम्भः
तद्ग्रहो वा न पुनस्तदतिरिक्ताया अभावादेवेति ।
जातिव्यक्तिसम्बन्धोपपादनम्—
यदप्युक्तं वृत्त्यनुपपत्तेरिति तत्राप्युच्यते प्रतिपिण्डं कात्स्न्र्येनैव जातिर्व-
र्त्तते इति, पिण्डान्तरे तदुपलम्भो न स्यादिति चेत् किं कुर्मः कमुपलभामहे,
( १ ) श्लोकवार्तिके आकृतिवार्तिके श्लो० ६७ । नानावर्णे हि वस्तुनि य एव
वर्णो निष्कृष्य दर्शयितुमिष्यते स एव शक्यते दर्शयितुम् । एवं नानारूपे वस्तुनि सर्वस्य
भेदाभेदादेः सम्भव इत्यर्थः ।