न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 305, कुल 654 में से
संदर्भ में पढ़ेंशब्द एष विकल्प इति चेन्मैवम्—
पश्यत्यनुगतं रूपमविज्ञाते ऽपि वाचके ।
दाक्षिणात्य इवाकस्मात्पश्यन्नुष्ट्रपरम्पराम् ॥
अनवगतशब्दार्थसंबन्धो ऽप्यभिनवानेकपदार्थसन्निधाने तेषामनुगतं च
व्यावृत्तं च पश्यत्येव रूपम् ।
अपि च प्रथमाक्षसन्निपाते एवाङ्गुलिचतुष्टयमवलोक्यमानमन्योन्यमनु-
गामिना च विभक्तेन च रूपेणावगम्यते तत्कथं केवलविशेषावलम्बी चाक्षु-
षः प्रत्ययः ।
अपि च पुराणशाबलेयपिण्डमवलोकयतः कालान्तरे बाहुलेयं पिण्डं प-
श्यतः पूर्वदृष्टशाबलेयपिण्डविषयं स्मरणमुत्पद्यमानं संवेद्यते तस्मात्सामान्या-
नवगमो नोपपद्यते, अन्यस्मिन्नसाधारणे स्वलक्षणे दृष्टे ऽन्यस्मरणस्य किं व-
र्तते अस्ति च तत्तेन मन्यामहे दृष्टमुभयानुगतरूपमिति, किं च व्यक्त्यन्तर-
दर्शने ऽपि स एवायं गौरिति प्रत्यभिज्ञायते तस्याश्च प्रामाण्यं दर्शितं दर्शयि-
ष्यते च विस्तरतः क्षणभङ्गभङ्गेन, तस्मादनुगतरूपविषयैव सा प्रत्यभिज्ञा
व्यक्तिभेदस्य विस्पष्टसिद्धत्वात् , यत्र च लघुतरपरिमाणतिलमुद्गादिप्रचय-
सन्निधाने विच्छिन्नसिक्थस्वलक्षणग्रहणं नास्ति तत्रानुवृत्तमेव रूपमिन्द्रियेण
गृह्यते, अतः निर्विकल्पकवेलायामेव व्यावृत्तवदनुगतरूपावभासान्न सामान्या-
पह्नवो युक्तः, प्रथमाक्षसन्निपाते ऽपि तुल्यत्वमवगम्यते नानात्वं चेति सामा-
न्यभेदौ वास्तवौ द्वावपि ।
सामान्यमिदमित्येवं स च तत्रानुपग्रहः ।
व्यावृत्तमिदमित्येवं किं वा बुद्धिः स्वलक्षणे ॥
समानवृत्तिसापेक्षं न च सामान्यवेदनम् ।
तत्र सन्निहितत्वात्तु व्यक्तिवाचानुपग्रहः ॥
समानवृत्त्यपेक्षत्वात्सामान्यस्यानुपग्रहे ।
विशेषो ऽपि हि मा ग्राहि व्यावृत्तिं स हि चेत्तते ॥
अनुवृत्तिर्हि येष्वस्य का तेषां ग्रहणे गतिः ।
व्यावृत्तिरपि यान्यस्य या तेषां ग्रहणे गतिः ॥
अथानुवृत्तिव्यावृत्तिनिरपेक्षं न केवलम् ।
वस्त्वेव गृह्यते कार्यं कीदृक्तदिह कथ्यताम् ॥
निर्विकल्पकवेलायां निर्देष्टुं तन्न शक्यते ।
तदुत्थास्तूभयत्रापि साक्ष्यं ददति निश्चयाः ॥
वस्तुनोऽङ्गीकृता प्राज्ञैरेत एवोभयात्मता ।
यौ ब्रूतस्त्वेकरूपत्वं तावुभावपि बालिशौ ॥