न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 304, कुल 654 में से
संदर्भ में पढ़ें१८२ न्यायमञ्जर्याम्
प्रभायामिव तथैव मणिबुद्ध्या प्रवर्त्तमानः, एवं च बाह्यवस्तुसंस्पर्शशून्येष्वपि
विकल्पेषु समुल्लसितेषु बाह्यो ऽर्थो मया प्रतिपन्नः तत्र चाहं प्रवृत्तः स च मया
प्राप्त इत्यभिमानो भवति लौकिकानाम् , न त्वयमर्थाध्यवसायमूलः, तदुक्तं
“यथाऽध्यवसायमतत्त्वाद्यथातत्त्वं चानध्यवसायात्” इति स्वप्रतिभासेऽनर्थेऽर्था-
ध्यवसायात्प्रवृत्तिरित्यत्रापि ग्रन्थे ऽर्थाध्यवसायो भेदानध्यवसाय एव व्याख्येयः,
एवं दृश्यविकल्पावर्थावेकीकृत्य प्रवर्त्तते प्राप्नोति चार्थमिति ।
तदेवमेष लोकस्य व्यवहारो ऽवकल्पते ।
विवेकेनापि वोढव्या लोकयात्रा ऽथ लोकवत् ॥
तस्माद्विकल्पप्रतिबिम्बनस्य शब्दार्थतामाहुरपोहनाम्नः ।
प्रतीतिमार्गस्त्वविविच्यमानो जनस्य जातिभ्रममातनोति ॥
यावांश्च कश्चिन्नियमप्रकारः प्रवर्त्तते जातिषु वृत्त्यवृत्त्योः ॥
तावानपोहेष्वपि तुल्य एव भवत्यवस्तुत्वकृतस्तु भेदः ॥
तुल्ये ऽपि भेदे शमने ज्वरादेः काश्चिद्यथा वौषधयः समर्थाः ।
सामान्यशून्या अपि तद्वदेव स्युर्व्यक्तयः कार्यविशेषयुक्ताः ॥
विशेषणादिव्यवहारक्लृप्तिः तुच्छे ऽप्यपोहे न न युज्यते नः ।
अतश्च मा कारि भवद्भिरेशा जात्याकृतिव्यक्तिपदार्थचिन्ता ॥
जातिसाधनम्—
अत्राभिधीयते, किं जात्यादेर्बाह्यस्य शब्दार्थस्य असत्त्वादपोहपक्षपातः उत
प्रतीतिबलादेवेति, प्रतीतिस्तावदपोहविषया भवद्भिरङ्गीकृतेति किमत्र कलहेन,
नापि जात्यादेरसत्त्वमिन्द्रियार्थसन्निकर्षोत्पन्नबाधसंदेहरहितप्रत्ययगम्यत्वात्खल-
ङ्गणावत् ।
आद्यमेव हि विज्ञानमर्थसंस्पर्शि चाक्षुषम् ।
न तदुत्तरभावीति किमिदं राजशासनम् ॥
तदेवास्तु प्रमाणं वा तेनापि त्ववगम्यते ।
व्यावृतं वस्तुनो रूपं नानुगामीति का प्रमा ॥
तथा हि निर्विकल्पकालस्यातिसूक्ष्मत्वात्किं प्रतिभासते किं न प्रतिभासते
इति कथमेष कलिरावयोरुपशाम्यतु, भवान् ब्रूते व्याववृत्तमेवावभातीति अहं
ब्रुवे ऽनुवृत्तमपि प्रतिभातीति एवं कलहायमानयोरावयोः कः परिच्छेदः, न
खलु शपथस्य शपमानस्य वैष विषयः, तस्मान्निर्विकल्पकानन्तरोत्पन्नस्थूलका-
लकार्यपर्यालोचनया तद्व्यवस्था कर्त्तव्या, तत्र च—
भवेद्यदि विशेषैकविषयं निर्विकल्पकम् ।
सामान्याध्यवसायो ऽयमकस्मात्तत्कथं भवेत् ॥