सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 303, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 303

अतश्च बाह्यमभावात्मकमपोहमाश्रित्य स्वरूपे दूषणोपन्यासे कण्ठशोषमनुभ-
वन्मस्थाने क्षिप्तो देवानांप्रियः ।
अपि च विकल्पभूमिरर्थो विकल्पान्तरसन्निधापितभावाभावाक्षेपी नियत-
रूपो बाह्यसदृशश्च प्रतीयते, न चेदं रूपत्रयमपि बाह्ये वस्तुनि युज्यते, बाह्यस्य
हि वस्तुनः स्वरूपेणावगतस्य न विकल्पान्तरोपनीतभावसम्बन्ध उपपद्यते वैय-
र्ध्यात्, नाप्यभावसम्बन्धो विप्रतिषेधात्, नियतरूपता च विकल्पविषयस्य
गौरेव नाश्व इत्येवमवगम्यमाना वस्त्वन्तरव्यवच्छेद मन्तरेण नावकल्पते इति
बलाद्यवच्छेदविषयत्वम् , अन्यथा नियमपरिच्छेदासम्भवात्सन्दिग्धं च वस्तु
न गृह्यते, एवं बाह्यवस्तुविषयत्वे च निरस्ते विकल्पानामेकस्यार्थस्वभावस्येति
न्यायेन पौनरुक्त्यादबाह्यविषयत्वं न्याय्यम् , अबाह्यान्तरारोपितं रूपं तच्च
बाह्यवदवभासते न च व्यावृत्तिच्छायामपहाय बाह्यारोपितयोः सादृश्यमन्यद्-
स्तीति व्यावृत्तिविषया एव विकल्पाः फलतो भवन्ति ।
यद्यपि विधिरूपेण गौरश्व इति तेषां प्रवृत्तिस्तथापि नीतिविदो ऽन्यापोह-
विषयानेव तान् व्यवस्थापयन्ति, यथोक्तं “व्याख्यातारः खल्वेवं विवेचयन्ति न
व्यवहर्तार” इति, सो ऽयं नान्तरो न बाह्यो ऽन्य एव कश्चिदारोपित आकारो
व्यावृत्तिच्छायायोगादपोहशब्दार्थ उच्यते इतीयमसत्ख्यातिवादगर्भा सरणिः ।
अथ वा विकल्पप्रतिबिम्बकं ज्ञानाकारमात्रकमेव तदबाह्यमपि विचित्रवा-
सनाभेदोपाहितरूपभेदं बाह्यवदवभासमानं लोकयात्रां बिभर्त्ति, व्यावृत्तिच्छा-
यायोगाच्च तदपोह इति व्यवह्रियते, सेयमात्मख्यातिगर्भा सरणिः ।
ननूभयथाऽपि वस्तुविषयत्वाभावे विकल्पानां कथं वस्तुनि व्यवहाराः प्रव-
र्त्तन्ते, दृष्टे ऽपि क चिद्वस्तुनि तृणादौ प्रवृत्त्यभावाद् अर्थित्वं तु प्रवृत्तेः कारणम् ,
कथमिति वक्तव्यमुच्यते, प्रवृत्तिस्तावद्दृश्यविकल्पयोरेकीकरणनिबन्धना
दृश्यदर्शनानन्तरमुत्पन्ने विकल्पे विकल्प्य तेन प्रतिपद्यते प्रमाता, दर्शनानन्तर्यवि-
प्रलब्धस्तु दृश्यमेव गृहीतं मन्यते तदभिमानेन च प्रवर्त्तते इदं तदेकीकरणमाहुः,
दृश्यविकल्पयोर्भेदो यन्न गृह्यते न पुनर्भिन्नयोरभेदाध्यवसाय एकीकरणमिष्यते,
दृश्याद् विभिन्नस्य विकल्पस्य शुक्तेरिव रजतस्य निर्देष्टुमशक्यत्वादभेदाध्य-
वसाये चोभयाभावान्न भेदाध्यवसाये दर्शनमुपायो विकल्पाविषयत्वान्न विकल्पो
दृश्याविषयत्वात्तस्माद् भेदानध्यवसायादेव प्रवृत्तिः, प्राप्तिरपि दृश्यस्यैवार्थक्रि-
याकारिणो वस्तुनः पारम्पर्येण तन्मूलत्वात्कार्यप्रबन्धस्य दृश्यादर्शनं ततो
विकल्पः ततः प्रवृत्तिरिति ।
अथ हि मूलवर्तिनमुपलभ्य प्रवर्त्तमानस्तमाप्नोति अपवरकनिहित-
मणिप्रसृतायां कुञ्चिकाविवरनिर्गतायामिव प्रभायां मणिबुद्ध्या प्रवर्त्त-
मानः, यत्र तु मूले ऽप्यर्थो नास्ति तत्र व्यामोहात् प्रवर्त्तमानो विप्रलभ्यते दीप-
३६ न्या०