सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 291, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 291

प्रमाणप्रकरणम् २६९
तया ऽवभाति वीतरागस्य च ब्रह्मविदो वित्तैषणव्युत्थितस्य गोविन्दस्वामिन
इव निधिरपि हेयतया परिस्फुरतीति कस्मै किमुपदिश्यताम् , वस्तुस्वरूपे तु
कथिते यथाहृदयवर्त्तिरागद्वेषानुवर्त्तनेन कश्चित्तत्र प्रवर्त्ततां कश्चित्ततो निवर्त्तता-
मिति भूतार्थकथनमेव लोके प्रेक्षावान् करोति न विधिनिषेधौ प्रयोक्तुमर्हतीति,
ये ऽपि ब्रुवते सर्वत्र प्रतिपत्तिकर्त्तव्यताविधानमेवादौ वेदितव्यम् अवि-
धिकस्य वाक्यस्य प्रयोगानर्हत्वादिति ते ऽपि न साधु बुध्यन्ते, विदितशब्दार्थ-
सम्बन्धस्य पुंसः शब्दश्रवणे सति प्रतिपत्तेः स्वतः सिद्धत्वेनानुपदेश्यत्वात् ,
असिद्धायां वा प्रतिपत्तौ प्रतिपत्तिकर्त्तव्यतापि कुतः प्रतीयेत ।
ननु कार्यार्थप्रतिपादकं पदमन्तरेण पदान्तराणि संसर्गमेव न भजन्ते
कार्याकाङ्क्षानिबन्धत्वात्सम्बन्धस्य तेन सर्वत्र कार्यपरत्वम् , उच्यते, नैष नियमः
कार्याकाङ्क्षागर्भ एव सर्वत्र सम्बन्ध इति वर्त्तमानापदेशकानामपि प्रेक्षापूर्वका-
रिवाक्यानामितरेतरसंसृष्टार्थप्रतीतिजनकत्वदर्शनात्, न हि दशदाडिमादिवाक्य-
सदृशि वर्त्तमानापदेशीनि वचांसि भवन्ति कार्यनिबन्धने हि सम्बन्धे तद्रहिता-
नामन्वय एव स्यात्, दर्शितश्चान्वयः पूर्वोदाहृतवाक्यानाम् , अपि च लिङ्-
न्तपद्युक्ते ऽपि वाक्ये पदान्तरार्थानां परस्परमन्वयो दृश्यते एव स कथं सम-
र्थिष्यते, कार्याकाङ्क्षानिबन्धने हि कार्ये सर्वेषामन्वयो न परस्परमिति ।
अथ ब्रूयात् सर्वथा कार्यसम्बन्धे प्रथममवगते सति पश्चादरुणैकहायनी-
न्यायेन वाक्यीयः परस्परान्वयो ऽपि सेत्स्यतीति, हन्त तर्हि परम्परान्वये
कार्याकाङ्क्षा कारणं तर्ह्यरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणातोति द्रव्य-
गुणयोर्विभक्त्या सोमक्रयं प्रांत युक्तत्वात्प्रथमं क्रयसम्बन्ध एव तयोर्गम्यते यश्च
पाश्चात्यः परस्परान्वयस्तत्र कार्यपारतन्त्र्यापादिका विभक्तिकारकाररणमसत्यामपि
तस्यां शुक्लः पट इति सामानाधिकरणप्रयोगेणान्वयसिद्धेः, तस्मात्कार्यैक्यनि-
बन्धनो ऽन्वय इति नियमो य उच्यते स कल्पनामात्रप्रभवो न प्रमाणव्यव-
स्थागम्य इति ।
यत्तु भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यतइत्ययमपि न सार्वत्रिको
नियमो विपर्ययस्यापि व्रीहीनप्रोक्षतीत्यादौ दर्शनादलं वा दर्शपूर्णमासप्रकरण-
निवेशानुज्झितकार्यमुखप्रेक्षणदैन्येन व्रीहिप्रोक्षगोदाहरणेन,
आत्मा ज्ञातव्य इति तु सिद्धपर एव साध्योपदेशः, नह्यत्र कर्म किं चि-
त्साध्यं प्रधानमुपदिश्यते ऽधिकाराश्रवणात् , न च विश्वजिदादिवदधिकारक-
ल्पना काचिदुपदिश्यते न च कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्येति वक्ष्यामः, अर्थवा-
दस्त्वर्थवाद एव नाधिकारिकल्पनाय प्रभवति, तस्मादपहतपाप्मत्वादिगुणयुक्ता-
त्मस्वरूपनिष्ठत्वमेव तत्रावतिष्ठते, तस्मिन्नवगते पुरुषान्तरप्रार्थनादैन्यानुपपत्तेः
स एव ह्युत्तमः पुरुषार्थः, स च सिद्ध एव न साध्यः, यतस्तु कृतबुद्धीनाम-