न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 288, कुल 654 में से
संदर्भ में पढ़ेंवेदप्रामाण्यसिद्धयर्थमित्थमेताः कथाः कृताः ।
न तु मीमांसकख्यातिं प्रप्तास्मीत्यभिमानतः ॥
कार्य एवार्थे पदसङ्गतिग्रहः—
नन्वेवं विध्यर्थवादमन्त्रनामधेयानां कार्यौपयिकत्वदर्शनात्कार्यएवार्थे वेदः
प्रमाणमित्युक्तं स्यात् , ततः किं सिद्धे ऽर्थे तस्य प्रामाण्यं हीयते, ततोपि किं
भूयान्भूतार्थाभिधायिमन्त्रराशिरुपेक्षितो भवेत् , सकलस्य च वेदस्य प्रामा-
ण्यं प्रतिष्ठापयितुमेतत्प्रवृत्तं शास्त्रम् , अत्र के चिदाहुः, सर्वस्यैव वेदस्य कार्ये
ऽर्थे प्रामाण्यम् , तथा हि, गृहीतसम्बन्धः शब्दो ऽर्थमवगमयति सम्बन्धग्रहणं
चास्य वृद्धव्यवहारात्, वृद्धानां च व्यवहारः पानीयमानय गां बधान ग्रामं गच्छेति
कार्यप्रतिपादकैरेव शब्दैः प्रवर्त्तते इति तत्रैव व्युत्पद्यन्ते बालाः, प्रयोजनोद्देशेन हि
वृद्धा वाक्यानि प्रयुञ्जते, न च सिद्धार्थाभिधायिना प्रवृत्तिनिवृत्ती अनुपदर्शता
शब्देन किं चित्प्रयोजनमभिनिर्वर्त्ततइति तस्य न प्रयोगयोग्यत्वम्, अप्रयुज्य-
मानस्य च न सम्बन्धग्रहणम् अगृहीतसम्बन्धस्य च न प्रतिपादकत्वम् अप्रतिपा-
दकस्य च न प्रामाण्यम् , अपि च आख्यातपदोच्चारणमन्तरेण निराकाङ्क्षप्रत्य-
यानुत्पादादवश्यमाख्यातयुक्तं वाक्यं प्रयोक्तव्यम् , आख्यातपदेन साध्यरूपो ऽर्थ
उच्यते नामधेयपदेन च सिद्धः, भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यते इति
वाक्यस्य साध्यार्थनिष्ठतेति न भूतार्थविषयं तस्य प्रामाण्यम्, अतश्च कार्ये ऽर्थे
शब्दस्य प्रामाण्यम्, यतश्च कार्यरूपो ऽर्थः शब्दस्यैव विषय इति, न च शब्दः
प्रमाणतां सिद्धे ऽर्थे लभते सिद्धो ऽर्थः प्रसिद्धत्वादेव प्रमाणान्तरपरिच्छेद्ययोग्य
इति तत्प्रतिपादने तत्प्रमाणान्तरसव्यपेक्षः शब्दो भवति, ततश्च तद्ग्राहिणः
प्रमाणान्तरस्यैव तत्र प्रामाण्यं स्यान्न शब्दस्य, शब्दश्च तदुपस्थापनमात्रनिष्ठ
एव स्यात्, तस्माच्छब्दप्रामाण्यमिच्छता कार्ये एवार्थे तत्प्रामाण्यमङ्गीकर्त्त-
व्यमिति ।
अकार्येऽपि पदसङ्गतिग्रहोपपादनम्
अत्रोच्यते, यद् ब्रूषे कार्यएवार्थे वाक्यस्य व्युत्पत्तिरिति तदयुक्तम्, एवं
हि सिद्धरूपो ऽयं तस्यार्थ इति कथं त्वयोच्यते, न ह्यलब्धव्युत्पत्तेः शब्दार्थ-
प्रत्ययो युज्यते, अर्थप्रतीतिश्च ततो दृश्यते व्युत्पत्तिश्च तत्र नास्तीति चित्रम्,
न च कार्यपरैरेव शब्दैः लोके व्यवहारो वर्त्तमानापदेशकेभ्योऽपि व्यवहारप्रवृत्ते-
स्तत्रापि व्युत्पत्तिर्भवत्येव, अपि चाङ्गुल्यादिना पुरोऽवस्थितमर्थं निर्दिश्य
यदा कश्चित्कथयत्यस्येदं नामेति तदा कार्योपदेशमन्तरेणापि भवत्येव व्युत्पत्तिः,
अस्माच्छब्दादयमर्थः प्रतिपत्तव्य इति कार्योपदेश एवासौ इति चेत् तादृशाना-
मक्षराणामश्रवणात् , अस्येदं नामेति हि श्रूयते नास्मादयं प्रतिपत्तव्य इति,