न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 197, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् १७५
ननु च वेदे प्रमाणान्तरसंस्पर्शरहितविचित्रकर्मफलगतसाध्यसाधनभावोप-
देशिनि कथं तदर्थसाक्षाद्दर्शी पुरुष उपदेष्टा भवेत् , उच्यते-
वेदस्य पुरुषः कर्त्ता न हि यादृशतादृशः ।
किं तु त्रैलोक्यनिर्माणनिपुणः परमेश्वरः ॥
स देवः परमो ज्ञाता नित्यानन्दः कृपान्वितः ।
क्लेशकर्मविपाकादिपरामर्शविवर्जितः ॥
ईश्वराङ्गीकारे पूर्वपक्षः—
अत्राह किं ब्रूषे त्रैलोक्यनिर्माणनिपुण इति अहो तव सरलमतित्वम् , न
हि तथाविधपुरुषसद्भावे किंचन प्रमाणमस्ति ।
तथा हीश्वरसद्भावे। न प्रत्यक्षप्रमाणकः ।
न ह्यसावक्षविज्ञाने रूपादिरिव भासते ॥
न च मानसविज्ञानसंवेद्यो ऽयं सुखादिवत् ।
योगिनामप्रसिद्धत्वान्न तत्प्रत्यक्षगोचरः ॥
प्रत्यक्षप्रतिषेधेन तत्पूर्वकमपाकृतम् ।
अनुमानमविज्ञाते तस्मिन् व्याप्त्यनुपग्रहात् ॥
न च सामान्यतोदृष्टं लिङ्गमस्यास्ति किं चन ।
क्षित्यादीनां तु कार्यत्वमसिद्धं सुधियः प्रति ॥
शैलादिसन्निवेशे ऽपि नैष कर्तृनुमापकः ।
कर्तृपूर्वककुम्भादिसन्निवेशविलक्षणः ॥
दृष्टः कर्तृविनाभावी सन्निवेशो हि यादृशः ॥
तादृङ् नगादौ नास्तीति कार्यत्ववदसिद्धता ।
सिद्धत्वेपि न सिद्धत्वमनैकान्त्यात्तृणादिभिः ॥
अकृष्टजातैः कर्तारमन्तरेणाप्तजन्मभिः ।
तेषामुत्पत्तिसमये प्रत्यक्षत्वं न लक्ष्यते ॥
कर्तुर्दृश्यत्वमप्येवमभावे ऽनुपलब्धितः ।
न च क्षितिजलप्रायदृष्टहेतुव्यतिरेकिणः ॥
कस्यापि कल्पनं तेषु युज्यते ऽतिप्रसङ्गतः ॥
तेन कर्तुरभावे ऽपि सन्निवेशादिदर्शनात् ।
अनैकान्तिकता हेतोर्विप्रत्वे पुरुषत्ववत् ।
किं च व्याप्त्यनुसारेण कल्प्यमानः प्रसिद्ध्यति ॥
कुलालतुल्यः कर्तेति स्याद्विशेषविरुद्धता ।