न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 18, कुल 654 में से
संदर्भ में पढ़ें४ भूमिका ।
धर्मकीर्तेर्नाम लक्षणं वा न स्वकीये ग्रन्थे धृतम् तथापि श्लोकवार्तिके प्रत्य-
क्षसूत्रे ‘लक्षणं यच्च यैरुक्तम्’ इति न्यायरत्नाकरस्य सुचरितमिश्रव्याख्या-
याश्च दर्शनेन अत्र यैरित्यनेन धर्मकीर्तिरेवाभिमत इत्यवगम्यते । कुमा-
रिलभट्टपादाः वाक्यपदीयकारमतं स्फुटं निराकुर्वन्तस्ततोर्वाचीनाः ७०५ ई०
वर्षादारभ्य ७५० ई० वर्षपर्यन्तं स्थितवतो बौद्धाचार्यशान्तरक्षितात् पूर्वभा-
विनो यतस्तेन स्वकीये तत्त्वसंग्रहे कुमारिलमतं निराकृतम् ।
कुमारिलभट्टपादानां च त्रयः शिष्याः प्रभाकरमण्डनभट्टोम्बेकाख्या आसन्
इति प्रसिद्धिः ‘ननु स्मरणानुभवयोर्विवेकमप्रतिपद्यमानः प्रवर्तत इत्युक्तं श्रुत
मिदं यदत्र भवद्भिः धर्मकीर्तिगृहादाहृतं दृश्यविकल्पार्थावेकीकृत्य प्रवर्तते इति किंच
चौर्यमपीदं न कथंचन स्वार्थं पुष्णाति’ इति ग्रन्थेन प्रभाकरमुपहसन्तो न्यायम-
ञ्जरीकाराः धर्मकीर्तेः परवर्ती प्रभाकर इत्यभिप्रयन्ति । तत्र लोकइत्यादि भाष्यं
यन्नगौरवं प्रसज्येतेत्यन्तमथशब्ददूषणार्थनौचित्यानुभाषणपरमिति वार्तिककारेण
व्याख्यातं तत्तु मन्दप्रयोजनमिति मत्वा टीकाकारः प्रयोजनं दर्शयति लोक
इत्यादि भाष्यस्येत्यादिना’ इति ऋजुविमलादर्शनात् तत्त्वसंग्रहकर्त्रा कुमारिल-
मतं खण्डयतापि प्रभाकरमतमखण्डयता तट्टीकाकृता शान्तरक्षितशिष्येण क-
मलशीलेन ७२५-७८६ ई० वर्षेषु स्थितिमता प्रभाकरमतमपि खण्डयता कुमारि-
लभट्टपादानन्तरं प्रभाकरमिश्राणां स्थितिरिति ६७०-७३० पर्यन्तमवस्थान-
समयः । बृहत्यां प्रभाकरमिश्रैः ‘अविवेकः परमापदां पदमि’ति भारविपद्यम
‘ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम्’ इति वाक्यपदीयं चोद्धृतम् ।
भट्टोम्बेकश्च श्लोकवार्तिकस्य व्याख्याता “उक्तं च भट्टोम्बेकेन-‘ग्रन्थारम्भे-
ऽभिमतदेवतानमस्कारं करोति वार्तिककार’ इति सिद्धान्तचन्द्रिकादर्शनावग-
म्यते । भावनाविवेकस्यापि अयं व्याख्याता । अमुमेव भवभूतिपदेन व्यपदि-
शन्ति अतएव मालतीमाधवस्य प्रत्यङ्कं भट्टकुमारिलशिष्यभवभूतिकृते इति
भण्डारकरोपलब्धपुस्तकेऽस्तीति केचित् । तन्न चोदक्षमं यतो भवभूतिः स्वग्रन्थे
ज्ञानानिधिं स्वगुरुत्वेन स्तौति न कुमारिलम् । किंच स्वकीयपाण्डित्यपरिचायके-
‘यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च’इति मा. १ अं. ६ श्लोके स्वस्य
मीमांसकत्वं न ख्यापयति अतो न भवभूतिरेव भट्टोम्बेकः किन्त्वन्य एव ।
मण्डनमिश्राश्च विधिविवेके ‘अभिधां भावनामाहुरन्यामेव लिङादय’ इति