सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 17, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 17

भूमिका । ३
स्य भर्तृहरेः ३७० ई० वर्षादारभ्य ४४० ई० वर्षपर्यन्तं सत्ता सम्भाव्यते ।
युक्तं चैतत् यत इचिङ्गाख्यश्चीनयात्री स्वकीयभारतभ्रमणपुस्तके स्वागमनस-
मयात् पञ्चाशद्वर्षेभ्यः पूर्वमेव भर्तृहरेर्निर्वाणं लिखति तदीयागमनसमयश्च
सुप्रसिद्ध एवाङ्ग्लभाषाविदाम् ।
वसुबन्धुप्रणीतस्य अभिधर्मकोशस्य व्याख्या दिङ्नागेन कृतेति ततो
न्यूनान्न्यूनः शतवर्षादन्यूनः समयोऽपेक्ष्यत इति ४६० ई० वर्षासन्नः समयो
दिङ्नागस्य भवितुमर्हति ।
धर्मकीर्तिसमयात्प्राक् दिङ्नागसमयादनन्तरं न्यायवार्तिककर्तुरुद्योतकरा-
चार्यस्य स्थितिः सम्भाव्यते यतः प्रत्यक्षलक्षणप्रस्तावे वसुबन्धोर्दिङ्नागस्य च
लक्षणे दूषयन्नुद्योतकराचार्यो धर्मकीर्तिलक्षणं न स्पृशतीति ४९० ई० वर्षादा-
रभ्य ५६० ई० वर्षपर्यन्तमुद्योतकराचार्यस्य स्थितिः सम्भाव्यते । कल्प-
नापोढत्वं प्रत्यक्षलक्षणं दिङ्नागेनाङ्गीकृतम् तस्मिंश्चोद्योतकरेण दूषिते अभ्रा-
न्तत्वघटितं प्रत्यक्षलक्षणं धर्मकीर्तिना स्वीकृतम् । अत्र मानं तु ‘दिङ्नागस्यैव
कल्पनापोढमात्रं लक्षणमपि तु तदेवाभ्रान्तत्वसहितं प्रत्यक्षलक्षणं मन्यते
स्म कीर्तिः प्रत्यक्षं कल्पनापोढमभ्रान्तमिति' । इति न्यायकर्णिका ( लाजरस-
'मुद्रित १९२ पृ. )
इति सुनिपुणबुद्धिर्लक्षणं वक्तुकामः
पदयुगलमपीदं निर्ममे नानवद्यम् ।
भवतु मतिमहिम्नश्चेष्टितं दृष्टमेतत्-
जगदभिभवधीरं धीमतो धर्मकीर्तेः ॥
इति प्रत्यक्षलक्षणगाथा न्यायमञ्जरी ( पृ. ९३ ) च ।
वासवदत्तायां ‘न्यायस्थितिमिवोद्योतकरस्वरूपाम्’ इति दर्शनात् इतः
१२०० वर्षेभ्यः पूर्वं वासवदत्ताकर्तुः स्थित्या तत्पूर्वभाविनः उद्योतकरस्य
पूर्वोक्तः समयः सुदृढ एव ।
उद्योतकराचार्यात् परम् ५९० ई० वर्षादारभ्य ६५० ई० वर्षपर्यन्तं
धर्मकीर्तेः स्थितिः सम्भाव्यते धर्मकीर्तेरन्तिमे वयसि कुमारिलभट्टपादा
अभूवन् इतिजनश्रुतिः ततश्च ६२५ ई० वर्षादारभ्य ६९० ई० वर्षपर्यन्त-
मेषां स्थितिसमयः । अयमेव च बाणभट्टस्यापि समयः । यद्यप्यनेन