न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 174, कुल 654 में से
संदर्भ में पढ़ेंतदपवादः बाधकप्रत्य-
Line 6: यः कारणदोषज्ञानं च, तदुक्तं भाष्यकृता(१), 'यत्र च दुष्टं करणं यत्र च मि-
Line 7: थ्येति प्रत्ययः स एवासमीचीनः प्रत्ययो नान्य' इति, वार्त्तिककारोऽप्याह(२)
Line 8: तस्माद्बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता ।
Line 9: अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते इति ॥
Line 10: तत्र बाधकज्ञानं पूर्वज्ञानोपमर्द्दद्वारेणैव तस्मिन्विषये जायते इति समा-
Line 11: नविषयत्वात्स्पष्टमेव बाधकम् , कारणदोषज्ञानं तु भिन्नविषयमपि कार्यैक्याद्-
Line 12: बाधकतां प्रतिपद्यते, यथा चमसेनापः प्रणयन्तीति दर्शपूर्णमासाङ्गत्वात् क्रत्व-
Line 13: र्थश्चमसः गोदोहनेन पशुकामस्य प्रणयेदिति काम्यमानपशुनिर्देशात्पुरुषार्थगोदो-
Line 14: हनेन निर्वृत्ते तस्मिंश्चमसो निवर्त्तते, एवमिह कारणदोषज्ञानं दोषविषयमपि-
Line 15: दोषाणामयथार्थज्ञानजननस्वभावत्वात्तस्य ज्ञानस्य प्रामाण्य