सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 114, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 114

५२ न्यायमञ्जर्याम्
न च भेदं विना सत्ता ग्रहीतुमपि शक्यते ।
नाविद्यामात्रमेवेदमिति च स्थापयिष्यते ॥
वाक्तत्त्वप्रतिभासो ऽपि प्रक्षिप्तो ऽनया दिशा ।
कथं च चाक्षुषे ज्ञाने वाक्तत्त्वमवभासते ॥
अगृहीते तु संबन्धे गृहीते वापि विस्मृते ।
अप्रबुद्धे ऽपि संस्कारे वाचकावगतिः कुतः ॥
चित्रतापि पृथग्भूतैर्धर्मैरस्तत्समवायिभिः ।
जात्यादिभिर्यदीष्येत धर्मिणः काममस्तु सा ॥
तदात्मता तु नैकस्य नित्यं तत्त्वानुपग्रहात् ।
अंशानिष्कर्षपे तु धर्मभेदो बलाद्भवेत् ॥
यस्य यत्र यदोद्भूतिर्जिघृक्षा चेति कथ्यते ।
तदात्मकत्वं धर्माणांमुच्यते चेत्यसंगतम् ॥
देशभेदस्तु धर्माणांमस्माभिरपि नेष्यते ।
धर्मी हि तेषामाधारो न पुनः स तदात्मकः ॥
तस्माद्य एव वस्त्वात्मा सविकल्पस्य गोचरः ।
स एव निर्विकल्पस्य शब्दोल्लेखविवर्जितः ॥
किमात्मको ऽसाविति चेद्यद्यदा प्रतिभासते ।
वस्तुप्रमितयश्चैव प्रष्टव्या न तु वादिनः ॥
क चिज्जातिः कचिद्द्रव्यं कचित्कर्म कचिद्गुणः ।
यदेव सविकल्पेन तदेवानेन गृह्यते ॥
इद शब्दानुसंधानमात्रमभ्यधिकं परम् ।
विषये न तु भेदो ऽस्ति सविकल्पाविकल्पयोः ॥
अतः शब्दानुसंधानबन्ध्यं तदनुबन्धि वा ।
जात्यादिविषयग्राहि सर्वं प्रत्यक्षमिष्यते ॥
तस्माद्यत्कल्पनापोढपदं प्रत्यक्षलक्षणे ।
भिक्षुणा पठितं तस्य व्यवच्छेद्यं न विद्यते ॥
अभ्रान्तपदस्यापि व्यावत्र्यं न किं चन तन्मतेन पश्यामः ।
ननु तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमं द्विचन्द्रालातचक्रचल-
त्पादपादिविदर्शनमपोह्यमस्य परैरुक्तम् , सत्यमुक्तम् अयुक्तं तु कल्पनापोढपदेनैव
तद्व्युदाससिद्धेः तत्रापि निर्विकल्पकं ज्ञानमेकं चन्द्रादिविषयमेव विकल्पास्तु
विपरीताकारग्राहिणो भवन्ति यथा मरीचिग्राहिणि निर्विकल्पके सलिलावसायी
विकल्प इति,
ननु तिमिरेण द्विधाकृतं चक्षुरेकतया न शक्नोति शशिनं ग्रहीतुम्·