न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पंचमस्तवके ] ईश्वरसाधनम् । ५६५
तत्र सद्भावात् । हननकारणकमदृष्टं नास्तीत्यर्थ इति तु निरातङ्कं दृष्टार्थिनं प्रवर्त्त-
येदेवेति साधु शास्त्रार्थः । अहननेनापूर्वं भावयेदिति त्वशक्यम् । कारणस्याना-
दित्वेन कार्यस्यापि तथाभावप्रसङ्गात्, भावनायाश्च तद्विषयत्वात् । अहननसङ्क-
ल्पेनेति यावज्जीवमविच्छिन्नतत्सङ्कल्पः स्यात् । सकृत् कृत्वैव वा निवृत्तिः । पश्चा-
द्धन्त्यादेवाविरोधात् । सम्पादितो ह्यनेन नियोगार्थः ।
यावद् यावद्धनन सङ्कल्पवान् तावत्तावद्विपरीतसङ्कल्पेनापूर्वं भावयेदिति
वाक्यार्थः, तथाभूतस्याधिकारित्वादित्यपि वार्त्तम् । तदश्रुतेः । प्रसक्तं हि प्रति-
षिध्यते नाप्रसक्तमिति चेत् । न वै किञ्चिदिह प्रतिषिध्यते । तदभावः प्रतिपाद्यते
इति निषेधार्थः । हननकरणकमपूर्वं वाक्यार्थः ॥
किञ्च न हन्यादिति अहननेनापूर्वस्य कर्त्तव्यताप्रत्ययो जातो वेदात् , जातश्च
हननक्रियायां रागात् । निष्फलाच्च कार्यादपेक्षितफलं गरीय इति न्यायेन हन्यादे-
वेत्यहो वेदव्याख्याकौशलमास्तिकाभिमानिनो मीमांसकदुर्दुरूढस्य ।
प्रकाशः ।
निरातङ्कमिति । अत्र किं सुकृतापूर्वस्य निषेधः, दुरितापूर्वस्य वा ? आद्ये धर्मानुत्पादेऽप्यध-
र्मोत्पादकमानाभावाददृष्टफलार्थी हनने प्रवर्त्तेत । अन्त्ये च सुतरां प्रवृत्तिः स्यादित्यर्थः । अथ नञ्-
धात्वर्थान्वयः, तत्राह अहननेति । कारणस्येति । हननप्रागभावस्यानादित्वादनाद्यपूर्वं स्यादित्यर्थः ।
ननु हननप्रागभावविषया भावनाऽपूर्वमुत्पादयिष्यतीत्यत आह भावनायाश्चेति । प्रागभावस्तदा
भावनाविषयः स्यात् , यदि तत्स्वरूपं भावनासाध्यं स्यात् , न चैवमित्यर्थः ।
सङ्कल्पविधिपक्षे निषेधानुपपत्तिमाह अहननेति । सर्वदा किमह play? किमहनन सङ्कल्पेनापूर्वं भावये-
दित्यर्थः, यदा कदाचिद्वा ? आद्ये, यावज्जीवमिति । अन्त्ये, सकृदिति । नियोगार्थो विध्यर्थः ।
विपरीतेति । अहननसङ्कल्पेनेत्यर्थः । तथाभूतस्येति । प्रवृत्तिमत्त एव निषेधापूर्वेऽधिकारादित्यर्थः ।
तदश्रुतेरिति । हनन सङ्कल्पवतो विपरीतसङ्कल्पकत्वाश्रुतेरित्यर्थः । ननु प्रसक्तं हननं निषेध्यं,
प्रसङ्गश्च तत्करणसङ्कल्प एव, इच्छाया एवाद्यप्रवृत्तित्वादित्यश्रुतमपि तल्लभ्यते इत्याह प्रसक्त-
मिति । नात्र हननं निषिध्यते, किन्तु हननाभावसङ्कल्पकारणकमपूर्वं विधीयते इत्याह न वै
किञ्चिदिति ।
किञ्चेति । अपूर्ववाच्यत्वेऽपि 'न कलञ्जं भक्षयेदि'त्यादितः कलञ्जभक्षणाभावविषयकमपूर्वमव-
गम्यापि तदभावे न प्रवर्त्तेत । तथाहि कलञ्जभक्षणे रागादस्य कर्त्तव्यता बुद्धिर्जाता, शब्दाच्च भक्ष-
णाभावे । निःफलाच्च कार्यात् सफलं गरीय इति न्यायेन सुखहेतौ भक्षण एव प्रवर्त्तेत, न तदभावे,
तस्य निःफलत्वात् । न च निषेधापूर्वमेव फलं तस्य सुखदुःखाभावान्यतया षण्डत्वेन तदजनकतया
च गौणमुख्यप्रयोजनत्वाभावात् ।
प्रकाशिका ।
मेव शब्दधर्मस्यार्थभावनानुरूपेऽभावादिति मतान्तरमेवेदमर्थनिष्ठाभिधेति भावः । संकल्पविधिपक्षे
इति । सङ्कल्पेति लिङर्थान्वयपक्ष इत्यर्थः । तेन नाग्रेतनविकल्पविरोध इत्यवधेयम् । यावज्जीवमिति ।
न च तत्सम्भवति सुषुप्त्याद्याद्यनुपपत्तेरिति भावः । ननु प्रवृत्तिमतो निवृत्तिनियोगेऽधिकारात् प्रवृ-
त्तिश्चप्रसङ्गो न तु सङ्कल्प इत्यत आह इच्छाया एवेति । आद्या प्रवृत्तिरिच्छैवेत्यभिधानादिति भावः ।
मकरन्दः ।
यावज्जीवमिति । न च तत्सम्भवति, सुषुप्त्यादिदशायां तद्विच्छेदादिति भावः ।
ननु प्रवृत्तिमतो निवृत्तिनियोगाधिकारात् प्रसङ्गः प्रवृत्तिः न तु सङ्कल्प इत्यत आह इच्छाया
एवेति । आद्या प्रवृत्तिरिच्छैवेत्यभिधानादिति भावः ।
५६६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १४ कारिकान्याख्यायां
इष्टसाधनतापक्षेऽपि न हन्यात् न हननभावना इष्टाम्युपाय इति वाक्यार्थः ।
तथाचानिष्टसाधनत्वं कुतो लभ्यते। न हीष्टसाधनं यन्न भवति तदवश्यमनिष्टसाधनं
दृष्टमुपेक्षणीयस्यापि भावात् ।
यत् रागादिप्रसक्तं प्रतिषिध्यते तदवश्यमनिष्टसाधनं दृष्टम्, यथा सविषमन्नं
न भुञ्जीथा इति, तेन वेदेऽप्यनुमास्यते, इत्यपि न साधीयः । प्रतिषेधार्थस्यैव
चिन्त्यमानत्वात् ।
न हि कर्त्तव्यत्वस्येष्टसाधनत्वस्य भावनाया वाऽभावः प्रतिपादयितुं शक्यते,
लौकिकानां लौकिकप्रमाणसिद्धत्वात् । तथापि प्रतिपाद्यते तावदिति चेत् । न ।
पाषण्डागमनिषेधेनानैकान्तात् । नासौ प्रमाणमिति चेत् । न । अर्थविपर्ययप्रति-
पादनाविशेषेऽस्यापि तथाभावात् ।
तात्पर्यतः प्रामाण्यमिति चेत् । न । विधिनिषेधयोरनन्यपरत्वात् । न विधौ
परः शब्दार्थ इति वचनात् । तथापि निषेधे तथा भविष्यतीति चेत् । न । अविना-
प्रकाशः।
अथ प्रवृत्तिमतो निवृत्तिनियोगाधिकार इति यदा भक्षणे प्रवृत्तिस्तदा तन्निषेधे शब्दकार्यज्ञाना-
तद्विपरीतप्रयत्ने जनिते रागान्न क्रियोत्पत्तिः, तेनैव प्रतिबन्धादिति चेत् । निवृत्तिकार्यताज्ञानेऽपि
निष्फलत्वे निवृत्तौ प्रयत्न एव नोत्पद्यते, यस्य प्रतिबन्धकता स्यात् । न च शास्त्रस्थस्य शास्त्रज-
कर्तव्यताज्ञानं बलवदिति वाच्यम् । तस्य सफलविषयत्वादेवांस्य च निष्फलविषयत्वात् । अथ कल-
ञ्जभक्षणस्य निन्दार्थवादेन बलवदनिष्टसाधनत्वज्ञानात् तद्भक्षणे न प्रवर्त्तते इति चेत् । एवमपि
कलञ्जभक्षणे न प्रवर्त्ततां, तदभावेऽपि निष्प्रयोजनत्वेनाप्रवृत्तौ किमायातमित्यर्थः ।
तथाचेति । वस्तुतः शत्रुहननभावनायाः कलञ्जभक्षणभावनायाश्चेष्टसाधनत्वमस्त्येवेति भावः ।
अत एव वक्ष्यति न हीति । अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति न्यायेनाह तथा-
पीति । प्रसक्तैव हिंसा यागादिविषया पाषण्डेन प्रतिषिध्यते, न च सा अनिष्टसाधनमिति व्यभि-
चार इत्याह पाषण्डेति । नासाविति । प्रमाणत्वेन हेतुर्विशेष्य इत्यर्थः । प्रमाणबाधितार्थविषय-
त्वेन पाषण्डागमस्येव न हन्यादित्यस्याप्यप्रमाणत्वादित्याह अर्थेति ।
ननु गङ्गायां घोष इत्यस्येव न हन्यादित्यस्याप्यर्थान्तरे निषिध्यमानानिष्टसाधनत्वरूपे तात्प-
र्याद्बोधकत्वं स्यादित्याह तात्पर्यत इति । अर्थवादवचनानामन्यत्र विधौ तात्पर्यं न तु विधिवच-
नस्येत्यभ्युपगमात् तदनुरोधेनान्यत्र लक्षणा युक्ता न तु तत्रैवेत्याह । न विधाविति । भाववि-
धावेव तथा न तु निषेधविधावपीत्याह तथापीति । यत्र लक्षणीयार्थेनाविनाभावस्तदुद्देशेन प्रयोगश्च
तत्रैव लक्षणा, न च न हन्यादिति वाक्यमन्यपरत्वेन प्रयुक्तं, न वाऽनिष्टसाधनत्वेनाविनाभाव
इत्याह अविनाभावेति । ननु यथा असुरादिपदे न निषेधो नञर्थः किन्तु तदन्यद्विरोधि,
प्रकाशिका ।
वस्तुत इति । तथा च तदभावप्रतिपादने बाध इति भावः । न हीति । न हि कर्त्तव्यत्वस्य
मकरन्दः।
अत एव न हि कर्त्तव्यत्वस्येष्टसाधनत्वस्य वा अभावः प्रतिपादयितुं शक्यते इति वक्ष्यती-
त्याह न हीति ।
टिप्पणी ।
'न कलञ्जं भक्षयेदि'त्यादौ तृप्तिरूपेष्टसाधनत्वस्य सत्त्वान्निषेधानुपपत्तिरित्याह निषेधेति ।
पञ्चमस्तबके ] ईश्वरसाधनम् । ५६७
भावतदुद्देशप्रवृत्त्योरभावात् । नाप्यसुरामित्रादिवदस्य नञो विरोधिवचनत्वम्,
क्रियासङ्गतत्वात् । असमस्तत्वाच्च ॥ १४ ॥
तस्माद्—
विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः ।
अभिधेयोऽनुमेया तु कर्तुरिष्टाभ्युपायता ॥ १५ ॥
तत्र स्वयङ्कर्तृकक्रियेच्छाऽभिधानं कुर्यामिति । सम्बोध्यकर्तृकक्रियेच्छाऽ-
भिधानं कुर्या इति । शेषकर्तृकक्रियेच्छाऽभिधानं कुर्वीतेति । तथाचाग्निकामो
दारुणी मथ्नीयादित्यस्य लौकिकवाक्यस्यायमर्थः सम्पद्यते अग्निकामस्य दारु-
मथने प्रवृत्तिर्ममेष्टेति । ततः श्रोताऽनुमिनोति–नूनं दारुमथनयत्नोऽग्नेरुपाय इति ।
यद्विषयो हि प्रयत्नो यस्यानेनेष्यते, स तस्यापेक्षितहेतुः । तथा तेनावगतश्च, यथा
ममैव पुत्रादेर्भोजनविषय इति व्याप्तेः ।
विषं न भक्षयेदित्यस्य तु विषभक्षणगोचरा प्रवृत्तिर्मम नेष्टा इत्यर्थः । ततोऽपि
श्रोताऽनुमिनोति-नूनं विषभक्षणभावना अनिष्टसाधनम् । यद्विषयो हि प्रयत्नः
कर्तुरभिमतसाधकोऽप्याप्तेन नेष्यते, स ततोऽधिकतरानर्थहेतुः, तथा तेनावगतश्च,
यथा ममैव पुत्रादेः क्रीडाकर्द्दमविषभक्षणादिविषय इति व्याप्तेः ।
प्रकाशः ।
तथाऽनेष्टसाधनविरोध्यनिष्टसाधनमर्थः स्यादित्यत आह नापीति । क्रियासङ्गतस्य नञः प्रसज्यप्र-
तिषेधवाचकत्वात् समास एव तस्य पर्युदासवृत्त्या तदितरविरोधिपरत्वादित्यर्थः ।
नियोक्तृधर्मो वेत्यभिमतं पक्षमुपसंहरति—
विधिरिति । प्रवृत्त्यादावित्यादिपदान्निवृत्तिः । विषयसप्तमीयम् । तेन प्रवृत्तिनिवृत्तिविषय
आप्ताभिप्रायो लिङर्थ इत्यर्थः । प्रवर्त्तकमिष्टसाधनताज्ञानमेव लिङर्थस्तवाप्ताभिप्रायो लाघवादिति
भावः । वक्तुरभिप्रायस्य विधित्वे कुर्यामित्यादावर्थभेदमानुभविकमुपपादयति तत्रेति ।
स्वर्गकामो यजेतेत्यस्य स्वर्गकामकृतिसाध्यतया यागो यागयत्नो वा आप्तेष्ट इत्यर्थः ।
ततो यो व्यापारो यस्य कृतिसाध्यतया यद्व्यापारविषयः प्रयत्नो वा यस्यानेनेष्यते, स तस्य बलवद-
निष्टाननुबन्धीष्टसाधनमिति व्याप्तिग्रहाद् यागस्येष्टसाधनत्वमनुमिनोति । तथाहि–यागो मदिष्टसाधनं
मत्प्रयत्नविषयतया मदाप्तेष्यमाणत्वात्, यथा मत्पित्रा मत्प्रयत्नविषयतया इष्यमाणं भोजनं मदिष्ट-
प्रकाशिका ।
इष्टसाधनत्वस्य वाऽभावः प्रतिपादयितुं शक्यत इत्यादिकमित्यर्थः। समास एवेति। यद्यपि न घटः
पट इत्यादौ व्यासेऽपि पर्युदासवृत्त्या प्रयोगो दृष्टः, तथापि विरोधिवाचकत्वं समास एव, अत एवोक्तं-
तदितरविरोधिपरत्वादिति । विधिर्वक्तुरित्यादिकारिकायां वक्तुरभिप्रायो विधिरभिधेय
इति योजना । लाघवादिति । न चाप्तस्य विशेषणीभूतस्य शक्यत्वे विपरीतं गौरवमिति वाच्यम् ।
वस्तुत आप्तस्य योऽभिप्रायस्तस्याभिधेयत्वेन शक्यत्वमित्याशयात् । स्वर्गकामकृतिसाध्य-
तयेति । आख्यातार्थकृतावेव लिङर्थान्वयो धात्वर्थे वेति मतभेदेन विकल्पः । इष्टसाधनत्वविधिपक्षेतोऽ
मकरन्दः ।
समास एवेति । यद्यपि न घटः पट इत्यादौ व्यासेऽपि पर्युदासवृत्त्या तदितरपरत्वमस्त्येव,
तथापि शब्दप्रकाशोक्तमनुसन्धेयम् । यागो मदिष्टसाधनमित्यनुमानं शब्दप्रकाशे विवक्षितमनुसन्धेयम्।
टिप्पणी ।
विधिरित्यादि । नन्वेवमिष्टसाधनताज्ञानात् यागादौ कथं प्रवृत्तिरत आह अनुमेयेति ।
इष्टेति । द्विष्टसाधनत्वमप्येतदुपलक्षयति न कलञ्जं भक्षयेदित्यादिनिषेधवाक्यात् कलञ्जभक्षणे
आप्ताभिप्रायविषयत्वाभावावगमे द्विष्टसाधनत्वस्यानुमानात् ।
५६८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १५ कारिकाव्याख्यायां
लौकिक एव वाक्ये अयं प्रकारः कदाचिद्बुद्धिमधिरोहति न तु वैदिकेषु, तेषु
पुरुषस्य निरस्तत्वात् इति चेत् । न । निरासहेतोरभावात् । तदस्तित्वेऽपि प्रमाणं
नास्तीति चेत् । मा भूदन्यत्, विधिरेव तावदूर्द्धं इव पुंयोगे प्रमाणं श्रुतिकुमार्याः
किमत्र क्रियताम् । लिङो वा लौकिकार्थातिक्रमे य एव लौकिकास्त एव वैदिकास्त-
एव चैषामर्था इति विप्लवेत । तथाच जबगडदशादिवदनर्थकत्वप्रसङ्ग इति
भव सुस्थः।
स्यादेतत् । तथापि वक्तॄणामुपाध्यायानामेवाभिप्रायो वेदे विधिरस्तु कृतं
स्वतन्त्रेण वक्तृा परमेश्वरेणेति चेत् । न, तेषामनुवक्तृतयाऽभ्यासाभिप्रायमात्रेण
प्रवृत्तेः शुकादिवत् तथाविधाभिप्रायस्याभावात् । भावे वा न राजशासनानुवादिनोऽ-
भिप्राय आज्ञा, किं नाम राज्ञ एवेति लौकिकोऽनुभवः॥ १५ ॥
श्रुतेः खल्वपि—
कृत्स्न एव हि वेदोऽयं परमेश्वरगोचरः ।
स्वार्थद्वारैव तात्पर्यात् तस्य स्वर्गादिवद्विधौ ॥ १६ ॥
प्रकाशः ।
ष्टसाधनम् । न कलञ्जं भक्षयेदित्यस्य कलञ्जभक्षणं मम बलवदनिष्टसाधनं मदिष्टसाधनत्वे सत्यपि
मदाप्तेन मत्प्रयत्नविषयतयाऽनिषिध्यमानत्वात् । यथा मत्पित्रा मत्प्रयत्नविषयतयाऽनिषिध्यमानं मधुवि-
षसम्पृक्तान्नभोजनं ममानिष्टसाधनम् ।
लिङादीनां साक्षात् प्रवर्त्तकज्ञानजनकत्वे बाधकाभावान्न परम्पराजनकत्वमिति न वाच्यम् ।
अनन्यलभ्यस्य शब्दार्थत्वनियमे कर्त्रादेरिवान्यलभ्यत्वस्य हेतुत्वादित्यादेश्च बाधकत्वात् ।
त्वयाऽपि स्वकृतिसाध्येष्टसाधनतामन्तराऽनुमापयता शब्दस्य साक्षात् प्रवर्त्तकत्वानङ्गीकारा-
च्चेति भावः।
विधिरेवेति । नन्वेवमन्योन्याश्रयः, न वा लाघवं तात्पर्यगौरवात्, ईश्वरायनन्तकल्पना-
पत्तेश्च । मैवम् । लोके आज्ञाभिप्राये लिङः शक्तिग्रहाद्वेदे परिशेषादीश्वराभिप्राये पर्यवसानात् । न तु
तत्रैव शक्तिः । यथा तवैव कार्यशक्तस्य लिङादेरपूर्वे पर्यवसानम् । फलमुखञ्च गौरवं न दोषाय ।
शक्तिग्रहकाले सिद्धधसिद्धिपराहतत्वात्, ईश्वरे मानान्तरोपदर्शनाच्चेति भावः ।
एतदेवाभिप्रेत्याह य एवेति । लोकदृष्टा एव पदार्था वेदे प्रत्यभिज्ञायमानाः कथमन्य इत्यर्थः ।
अनर्थकत्वेति । गृहीतसङ्केतैर्लोकिकपदादन्यत्वेनागृहीतसङ्गतिकत्वादित्यर्थः । तेषामिति । उपाध्याय-
वंशानामतीन्द्रियार्थज्ञानाभावात्तत्रेच्छा न सम्भवतीति शुकादीनामिव तावत्पदज्ञानात् विवक्षात्थोच्चा-
रयितृत्वमात्रमित्यर्थः ।
स्वार्थद्वारैवेति । मुख्यार्थाबाधात्तत्रैव श्रुतेस्तात्पर्यमिति नान्यपरत्वमित्यर्थः ।
प्रकाशिका ।
चेति भावः । हेतुत्वादित्यादेश्चेति । हेतुत्वादनुमानाच्चेत्यादिकारिकोक्तौ इत्यर्थः । त्वयापीति ।
स्वांशस्याशक्यत्वात्तद्घटितस्य प्रवर्त्तकज्ञानाविषयत्वादिति भावः । तात्पर्यगौरवादिति ।
मकरन्दः ।
हेतुत्वादित्यादेश्चेति । हेतुत्वादनुमानाच्चेत्यादेश्चेत्यर्थः ।
टिप्पणी ।
प्रथमश्लोकोक्तश्रुतेरित्यस्य व्याख्यान्तरमाह श्रुतेः खल्वपीति । स्वर्गादिवदिति । यन्न
दुःखेन संभिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥ इत्याद्यर्थवादो
यथा स्वर्गाद्यर्थप्रतिपादनद्वारा स्वर्गकामो यजेतेत्यादिविधिवाक्येन सहैकवाक्यतां प्रतिपद्यमानः
पञ्चमस्तबके ] ईश्वरसाधनम् । ५६६
न सन्त्येव हि वेदभागा यत्र परमेश्वरो न गीयते । तथाहि—स्रष्टृत्वेन पुरुष-
सूक्तेषु, विभूत्या रुद्रेषु, शब्दब्रह्मत्वेन मण्डलब्राह्मणेषु, प्रपञ्चं पुरस्कृत्य निष्प्रपञ्च-
तयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च
सर्वत्रेति ॥
सिद्धार्थतया न ते प्रमाणमिति चेत् । न । तद्धेतोः कारणदोषशङ्कानिरासस्य
प्रकाशः ।
सिद्धार्थतयेति । इदमत्राभिसंहितम्-व्यवहारत एवाद्या व्युत्पत्तिरुपायान्तरस्य व्युत्पत्त्यधीन-
त्वात्। तथाहि प्रयोजकवाक्योच्चारणानन्तरं प्रयोज्यप्रवृत्तिमुपलभमानो व्युत्पित्सुः प्रेक्षावद्वाक्योच्चारणस्य
प्रयोजनजिज्ञासायां तदन्वयव्यतिरेकानुविधानादुपस्थितत्वाच्च प्रयोज्यप्रवृत्तिमेव प्रयोजनमवधारयति ।
तच्च तदनुकूलव्यापारं विनाऽनुपपद्यमानं कार्यताज्ञानमेव व्यापारं कल्पयति, स्वप्रवृत्तौ
तस्यैव कारणत्वनिश्चयात् । एवञ्च तत्र शब्दस्य हेतुत्वमवधार्य तत्रैव शक्तिं कल्पयति, उप-
स्थितत्वात्, पश्चादावापोद्वापाभ्यां क्रियाकारकपदानां कार्यान्विततत्तदर्थेषु शक्तिं गृह्णाति प्रथमं
सामान्यतस्तत्रैव शक्तिग्रहादिति कार्यान्वित एव पदानां शक्तिरिति सिद्धार्थः शब्दो न प्रमाणम् ।
अथाकाङ्क्षादिस्तथ्याऽपि वाक्यार्थज्ञानहेतुत्वोपगमात् तत एव कार्यपदसमभिव्याहारात् कार्य-
त्वज्ञानसम्भवेनानन्यलभ्यत्वान्न कार्यांशेऽपि शक्तिः । परम्परयाऽपि शब्दस्य कार्यत्वज्ञानानुकूल-
त्वादर्थापत्तेः परिक्षयात् । किञ्च कार्यत्ववाचिलिङादीनामाकाङ्क्षायुपेतपदार्थान्वितस्वार्थबोधक-
त्वस्यावश्यकत्वात् पदान्तराणामपि तथात्वमस्तु लाघवात् ।
मैवम् । पदानां कार्यान्वितज्ञाने साक्षात्त्वस्यौत्सर्गिकत्वेन तथैव हेतुत्वस्य न्याय्यत्वात् ।
अन्वितपदार्थज्ञाने च हेतुत्वे परम्पराया अन्याय्यत्वात् । अर्थापत्तेः साक्षादुपपादकविषयत्वेन
साक्षादुपपादके कार्यान्वितज्ञाने पदानां शक्तिकल्पनात् । लिङादीनां शक्तेरकल्पनादन्यलभ्यत्वतर्क-
स्याप्यभावात्, आद्यव्युत्पत्तेर्विचार्यत्वात् । न च कार्यवाचिलिङादीनां व्यभिचारः । कार्यत्ववि-
शिष्टज्ञानजनकत्वं हि सर्वपदानाम् । तच्च कार्यान्वितस्वार्थप्रतिपादकतया इतरान्वितस्वार्थकार्यप्र-
तिपादकतया वेति न कश्चिद्विशेषः ।
अथ सिद्धार्थेऽपि व्युत्पत्तिः सम्भवति । तथाहि उपलब्धचैत्रपुत्रजन्मा बालस्तादृशेनेव वार्त्ता-
हारेण समं चैत्रसमीपं गतः ‘चैत्र ! पुत्रस्ते जातः’—इति वार्त्ताहारवाक्यं शृण्वन् चैत्रस्य मुखप्रसादं
पश्यन् श्रोतुर्हर्षमनुमिनोति, हर्षाच्च तत्कारणं पुत्रजन्मज्ञानं कल्पयति, उपस्थितत्वादुपपादकत्वा-
दन्योपस्थितौ गौरवाच्च तत्र वाक्यस्य कारणतां कल्पयति लाघवात् ।
मैवम् । हर्षहेतूनां बहूनां सम्भवात् हर्षेणापि लिङ्गेन पुत्रजन्मज्ञानस्य वालेनानुमातुमशक्य-
त्वात् प्रियान्तरज्ञानस्य परिशेषयितुमशक्यत्वात् । अत एव विधिशेषीभूतार्थवादानां स्वर्गादि-
पदशक्तिग्राहकाणाञ्च प्रवृत्तिपरत्वेन परम्परया कार्यानन्वयात् कार्यान्वितस्वार्थबोधकत्वमिति ।
तद्धेतोरिति । साध्यार्थानामिव सिद्धार्थानामपि वक्तृदोषनिबन्धनाप्रामाण्यनिरासादित्यर्थः ।
प्रकाशिका ।
अभिप्राये इष्टसाधनत्वे च तथासति तात्पर्यादित्यर्थः । परम्परयापीति । कार्यवाचिलिङ्पदसम-
भिव्याहारादित्यर्थः । किञ्चेति । न हि तत्रापि कार्यान्वितमात्रज्ञानजनकत्वं पौनरुक्त्यापत्तेरिति
भावः । साक्षात्त्वस्येति । इतरपदसमभिव्याहारानपेक्षत्वमेव साक्षात्त्वम् । अत एवेति । यत एव
मकरन्दः ।
साक्षात्त्वस्यौत्सर्गिकत्वेनेति । यथा च कार्यान्वितव्युत्पत्त्या साक्षात् कार्यान्वितज्ञानं
नान्त्रितव्युत्पत्त्या, तथा शब्दप्रकाशे अनुसन्धेयम् ।
टिप्पणी ।
तात्पर्यविषयतां लभमानः प्रामाण्यमश्नुते, तथा 'यज्ञो विष्णु'रित्यादिरपि वेदभागः स्वार्थप्रति-
७२ न्या० कु०
५७० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां
भाव्यभूतार्थसाधारणत्वात्। अन्यत्रामीषां तात्पर्यमिति चेत्। स्वार्थप्रतिपादन-
द्वारा, शब्दमात्रतया वा ? प्रथमे स्वार्थेऽपि प्रामाण्यमेषितव्यम्। तस्यार्थस्यानन्य-
प्रमाणकत्वात्। अत एव तत्र तस्य स्मारकत्वमित्यपि मिथ्या।
तत्प्रतिपादकत्वेऽपि न तत्र तात्पर्यमिति चेत्।
स्वार्थापरित्यागे ज्योतिःशास्त्रवदन्यत्रापि तात्पर्ये को दोषः। अन्यथा स्वर्ग-
नरकव्रात्यश्रोत्रियादिस्वरूपप्रतिपादकानामप्रामाण्ये बहु विप्लवेत। तत्रावाधनात्त-
थेति चेत्। तुल्यम्।
न तादृगर्थः क्वचित् दृष्ट इति चेत्। स्वर्गादयोऽपि तथा। तन्मिथ्यात्वे तदर्थि-
नामप्रवृत्तौ विधानानर्थक्यप्रसङ्ग इति चेत्। इहापि तदुपासनाविधानानर्थक्य-
प्रसङ्गः। तन्मिथ्यात्वे हि सालोक्यसायुज्यादिफलमिथ्यात्वे कः प्रेक्षावांस्तमुपा-
सीतेति तुल्यमिति॥
प्रकाशः।
अन्यत्रेति। कार्ये तदन्विते च शब्दशक्तेरवधारणात् सिद्धार्थानामपि तत्रैव तात्पर्यमिति न मुख्येऽर्थे
प्रामाण्यमित्यर्थः। स्वार्थेति। कार्ये तेषां तात्पर्यं किं प्रतिपाद्यमानसिद्धार्थान्वयपुरस्कारेण, किं वा
स्वार्थमप्रतिपाद्येत्यर्थः।
प्रथमे इति। अबाधितं पदसमन्वयलब्धमर्थमादायैव तेषां कार्यपरत्वात् स्वार्थेऽपि प्रामाण्य-
मवर्जनीयमित्यर्थः।
ज्योतिःशास्त्रवदिति। यथा ज्योतिःशास्त्रस्य वेदाङ्गस्य दर्शादिकालं स्वार्थमादायैव
दर्शादियागविधौ तात्पर्यं, तथा सिद्धार्थवादानामपि स्वार्थं प्रतिपादयतामेव कार्ये प्रामाण्यमित्यर्थः।
अन्यथेति। यदि स्वार्थमप्रतिपाद्यैवान्वयपरत्वमिति द्वितीयः कल्प इत्यर्थः। तादृश इति।
वेदान्तबोध्यनित्यज्ञानादिरूप इत्यर्थः। इहापीति। ईश्वराभावे ईश्वरमुपासीतेत्यादिविधेरनर्थक्यप्र-
सङ्ग इत्यर्थः। सालोक्यं-समानलोकता। सायुज्यं-सार्वज्ञ्याणिमादिकम्। आदिपदात् सारूप्यादि।
अत्रापीदमभिप्रेतम्-यद्यर्थापत्त्या साक्षादुपपादक एव पदानां शक्तिः, तदा घटानयनकार्य-
ताज्ञान एव पदशक्तिप्रसङ्गः, घटमानयेति वाक्यश्रवणानन्तरं प्रयोज्यस्य घटानयनप्रवृत्त्या घटा-
नयनकार्यताज्ञानस्यैवानुमानात्। न तु कार्यान्वितज्ञानस्य, प्रवृत्तिविशेषे तस्याहेतुत्वात्।
अथ घटानयनक्रियायां प्रथमं क्रियात्वज्ञानात्प्रवृत्तिमात्रानुमानं, तेन च कार्यान्वितज्ञानमनु-
माय तत्र वाक्यमात्रस्य कारणतां गृहीत्वा शक्तिं कल्पयति, तदुत्तरं विशेषयोः कार्यकारणभावग्रह
इति चेत्।
प्रकाशिका।
कार्यान्वितज्ञान एव पदानां शक्तिरत एव परम्परया कार्यान्वयकल्पनमित्यर्थः। वेदान्तेति। अन्त-
शब्दोऽत्र स्वरूपपरः, वेदान्तशब्द उपनिषत्परो वा। ननु सायुज्यं संयोगः, स च शरीरस्य परमेश्वरेण
सर्वदैव आत्मनस्तु न कदापि, तथासति जीवन्मुक्तधर्मसालोक्यसमभिव्याहाराविशेषादित्यन्यथा
व्याचष्टे सायुज्यं सार्वज्ञाणिमादिकमिति। सारूप्यादीति। गरुडगदाचक्रादीत्यन्वयः।
मकरन्दः।
ननु सायुज्यं संयोगः, स च परमेश्वरेण शरीरस्य सर्वदा अयत्नसिद्ध एव, आत्मनस्तु न
कदापीत्यन्यथा व्याचष्टे सायुज्यमिति।
टिप्पणी।
पादनद्वारा 'ईश्वरमुपासीतेत्या'दिविधिवाक्येन सहैकवाक्यतामापद्यमानः तात्पर्यविषयतां सम्पद्यमानः
प्रामाण्यं लभते इत्यर्थः॥ १६॥
पंचमस्तबके ]
ईश्वरसोधनम् ।
५७१
वाक्यादपि । संसर्गभेदप्रतिपादकत्वं ह्यत्र वाक्यत्वमभिप्रेतम् । तथाच यत्पद-
कदम्बकं यत्संसर्गभेदप्रतिपादकं तत् तदनपेक्षतत्संसर्गज्ञानपूर्वकं, यथा लौकिकं,
तथाच वैदिकमिति प्रयोगः । विपक्षे च बाधकमुक्तम् ॥ १६ ॥
प्रकाशः ।
न । प्रथमं प्रवृत्तिमात्रकार्यान्वितज्ञानमात्रयोरनुमानं भवति क्रमेणेत्यत्र मानाभावात् । घटा-
दिपदशक्तिग्रहस्य तेन विनाऽपि सम्भवात् । न च सामान्ययोः कार्यकारणभावग्रहो विशेषयोस्तथा-
त्वज्ञाने हेतुरिति वाच्यम् । विशेषयोरन्वयव्यतिरेकाभ्यामेव तद्ग्रहात् । विशेषयोः कार्यकारणभावज्ञानं
प्राथमिकमिति तन्मूलकः पदविशेषग्रह एव स्यात् । निष्प्रयोजनत्वेनान्तराऽनुमितौ मानाभावात् ।
किञ्च ममेदं कार्यमिति ज्ञानं साक्षादुपपादकं प्रवृत्त्या स्वकारणत्वेनानुमितम्, अतस्तत्र शक्तिं
गृह्णीयात्, साक्षादुपपादकविषयत्वात् कल्पनायाः । न त्विदं कार्यमिति ज्ञाने, तस्य साक्षादुपपा-
दकोपपादकत्वात् । श्रयेदं कार्यमिति ज्ञानशक्त्यैव परम्परयाऽनुमानद्वारा ममेदं कार्यमिति ज्ञानसम्भ-
वादन्यलभ्यत्वे न तत्र शक्तिकल्पनमिति तुल्यम् ।
अपि च-अस्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात् कारणतावबोधात्तत्र शक्तिग्रहः, तथा-
प्यावापोद्वापाभ्यां पदविशेषस्येतरान्वितस्वार्थज्ञाने शक्तिं कल्पयति, लाघवात् । न तु कार्यांशे,
गौरवादन्यलभ्यत्वाच्च । अन्यथासिद्धिमपश्यतो हि बालस्य पूर्वं तत्सम्भवेऽपि पश्चाद्गौरवान्यलभ्य-
त्वतर्कसहकृतमानेन तद्बाधोचिता ।
न च प्रवृत्तिहेतुतयोपस्थितं कार्यान्वितज्ञानं हित्वा कल्पयित्वाऽन्वितज्ञानं तत्र शक्तिकल्पनम-
युक्तमुभयथा गौरवादिति वाच्यम् । कार्यान्वितज्ञानेऽन्वितज्ञानस्यापि सत्त्वात्, तद्विशेषत्वात्तस्य ।
तथात्वेऽपि तदुपस्थितावन्वितज्ञानत्वं न विषय इति तदुपस्थित्यन्तरं कल्प्यमिति चेत् । न कार्या-
न्वितज्ञाने अन्वितज्ञानं विशेष्यमिति तदुपस्थितौ तस्यापि विषयत्वात्, विशिष्टज्ञानस्य विशेष्यवि-
षयत्वनियमात् । अन्यथा अन्यजातिज्ञानमन्यच्च जातिविशिष्टव्यक्तिज्ञानमिति व्यक्तिज्ञानमपहाय
जातिज्ञानं क्वापि नोपस्थितमिति न क्व जातिरेव पदार्थः स्यात् ।
यच्च हर्षहेतूनां बहूनां सम्भवादित्युक्तम् । तन्न, स्वतो गृहीतहर्षहेतुस्तनपानादेर्धावताराद-
न्यस्य हर्षहेतोरग्रहात् । अत उपस्थितत्वादुपपादकत्वाच्च पुत्रजन्मज्ञानमेव हर्षहेतुतया कल्पयति ।
न चान्यदपि प्रियं हर्षहेतुर्भविष्यतीति शङ्कया कथमेवमिति वाच्यम् । कार्यान्वितज्ञानेऽपि शक्तिग्र-
हानापत्तेः । प्रयोज्यज्ञानहेतूनां बहुत्वात् । अनन्यथासिद्धशब्दार्थविधानश्च तुल्यमिति संक्षेपः ।
यत्पदकदम्बकमिति । एतद्वेदवाक्यसमानकालोत्पत्तिकज्ञानाजन्यमिदं वेदवाक्यं समा-
नविषयकज्ञानजन्यं वाक्यत्वात् लौकिकवाक्यवदित्यत्र तात्पर्यम्। विपक्षे चेति ॥ १६॥
प्रकाशिका ।
एतद्वेदवाक्यसमानकालोत्पत्तिकेति । अत्र समानकालपदेन स्थूलकालोपाधेर्विवक्षणात्
पूर्वकालएव विवक्षितः, स च पैतृकस्य जनकत्वासम्भवेन तदादायाभन्तरशङ्कानवतारात् । एवमध्याप
कादिज्ञानजन्यत्वेनार्थान्तरवारणाय जन्यान्तरं पक्षविशेषणम् । अत्र च समानविषयत्वं ज्ञानविशेषणम्
अन्यथा तात्पर्यादिज्ञानजन्यत्वेन विशेपणासिद्धेः । न चैवमपि वाक्यार्थं ज्ञात्वा अस्मदाद्युच्चरितवेदे
पक्षतावच्छेदकासिद्धिरिति वाच्यम्। तद्भिन्नस्यैव पक्षत्वादिति भावः । यद्यपि सोत्पत्तिकज्ञानाजन्य-
मकरन्दः ।
एतद्वेदवाक्येति । समानकालपदेन स्थूलकालोपाधेर्विवक्षणात् पूर्वकाल एव विवक्षितः ।
समानकालोत्पत्तिकस्य जनकत्वासम्भवेन तदादायार्थान्तरादिशङ्काऽनवकाशात् । एवमध्यापकादि-
ज्ञानजन्यत्वेनार्थान्तरवारणायाजन्यान्तम् । न चैवमप्यसिद्धिः तादृशपदज्ञानादिजन्यत्वादिति
वाच्यम् । समानविषयत्वेनापि ज्ञानविशेषणात् । न चैवमपि वाक्यार्थं ज्ञात्वा अस्मदादिनेवोच्चरिते
इदानीन्तनवेदे दोषतादवस्थ्यमिति वाच्यम् । तद्भिन्नवेदस्यैव पक्षत्वादित्याहुः । यद्यपि सोत्पत्ति-
५७२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १७ कारिकाव्याख्यायां
सङ्ख्याविशेषादपि—
स्यामभूवं भविष्यामीत्यादिसङ्ख्यया च वक्तृगा ।
समाख्याऽपि न शाखानामाद्यप्रवचनादृते ॥ १७ ॥
कार्यतया हि प्राक् सङ्ख्योक्ता, सम्प्रति तु प्रतिपाद्यतयोच्यते । तथाह्युत्तम-
पुरुषाभिहिता सङ्ख्या वक्तारमन्वेतीति सुप्रसिद्धम् । अस्ति च तत्प्रयोगः प्रायशो
वेदे । ततस्तदभिहितया तयाऽपि स एवानुगन्तव्यः, अन्यथाऽन्वयप्रसङ्गात् ।
अथवा—समाख्याविशेषः सङ्ख्याविशेष उच्यते । काठकं कालापकमित्या-
दयो हि समाख्याविशेषाः शाखाविशेषाणामनुस्मर्य्यन्ते । ते च न प्रवचनमात्रनि-
बन्धनाः प्रवक्तॄणामनन्तत्वात् । नापि प्रकृष्टवचननिमित्ताः । उपाध्यायेभ्योऽपि
प्रकर्षे प्रत्युतान्यथाकरणदोषात् । तत्पाठानुक॑रणे च प्रकर्षाभावात् । कतिचनादौ
संसारे प्रकृष्टाः प्रवक्तार इति को नियामक इति । नाप्याद्यस्य वक्तुः समाख्येति
युक्तम् । भवद्भिरस्तदनभ्युपगमात् । अभ्युपगमे वा स एवास्माकं वेदकार इति वृथा
विप्रतिपत्तिः ।
स्यादेतत्, ब्राह्मणत्वे सत्यवान्तरजातिभेदा एव कठत्वादयः । तदध्येया तद-
नुष्ठेयार्था च शाखा तत्समाख्यया व्यपदिश्यते इति किमनुपपन्नम् । न । क्षत्रिया-
प्रकाशः।
पुरुषगुणाभावे तज्जन्यप्राशोभनवर्णोच्चारयितृत्वं प्रकर्षः, तत्राह कति चेति । न च ब्राह्मणत्वव्याप्यं
प्रकाशिका।
त्वविशेषणादेव पक्षधर्म्मतावलेनाजन्यज्ञानसिद्धिस्तथाप्यकालोत्पत्तिकस्य जनकत्वशङ्कैव नेति स्वरूप-
निर्वचनपरं समानकालोत्पत्तिविशेषणम् । न चार्थानभिज्ञोक्तवाक्ये व्यभिचारः, प्रमाणस्य तस्य
पक्षसमत्वात्, अप्रमाणस्य च प्रमाणवाक्यात्मकत्वहेतुविरहात्, उत्तमपुरुषत्वात् प्रमाणोत्तमपुरुषादि-
त्यर्थः, अन्यथा शुकोक्तप्रमाणोत्तमपुरुषे व्यभिचारात्, प्रमाणतद्वाक्यस्य च पक्षसमत्वमेवेत्यर्थः।
वक्तरीति । यद्यपि वक्तॄण्ववक्त्रोर्भैदादनुवक्त्रा नार्थान्तरशङ्का तथापि वक्तृत्वं वचनकर्तृत्वमात्रं
तच्च तत्रापीति युक्तं स्वातन्त्र्यविशेषणमिति भावः ॥१६॥ कतिच्चेति। तथा च पुनरप्यनियमप्रसङ्ग-
मकरन्दः।
कतादृशज्ञानाजन्यत्वविशेषणादेव पक्षधर्मतावलादजन्यज्ञानसिद्धाविष्टसिद्धिः, तथाप्यन्यकालोत्पत्ति-
कस्य जनकत्वशङ्कैव नेति स्वरूपतानिवर्चनपरं तदिति मन्तव्यम् । न च शुकादिवाक्ये व्यभिचारः,
तस्यापि पक्षसमत्वादिति भावः ।
(१) वक्तरीति । न च वक्तृत्वानुवक्तृत्वयोर्भैदादनुवक्ता न वक्तेति न तद्विशेषणमर्थवदिति
वाच्यम् । वक्तृत्वं हि वचनकर्तृत्वं, तच्च तत्रापि । आगन्तुकेति ! तथा च कठादिशरीरमधिष्ठा-
याद्यवक्तुरीश्वरस्यैव तत्तत्समाख्याविशेषे निबन्धनत्वमिति भावः ॥ १६ ॥
टिप्पणी।
द्व्यणुकपरिमाणजनकसंख्याजनकापेक्षाबुद्ध्याश्रयतया ईश्वरः सिध्यतीति पूर्ववृत्तं स्मारयन्नाह
कार्यतयेति । संख्याविशेषशब्दस्यार्थान्तरमाह समाख्यापीति । प्रवक्तृवचननिमित्त
एवेति । एवं चातीन्द्रियार्थदर्शी परमकारुणिको भगवानवे अस्मदाद्यदृष्टाकृष्टकठादिशरीरमधिष्ठाय
यां यां शाखां प्रावोचत् तत्तच्छाखानां तत्तन्नाम्ना व्यपदेश इति भावः ।
( १ ) प्रकाशिकामकरन्दयोर्गृहीतस्यैतत्प्रतीकस्य 'आमन्तु कस्येति' मकरन्दे समुपलब्धस्य च
प्रकाशप्रतीकस्य व्याख्येयः 'एतद्द्वेदवाक्यसमाने'त्यादित ऊर्ध्वं 'व्यवस्थाव्यतिरेकश्चे'त्यतः पूर्वं
कश्चिदंशो प्रकाशस्यादर्शपुस्तके भ्रष्ट इति प्रतिभाति । विशेषस्तु भूमिकायां द्रष्टव्यः । सं० ।
पञ्चमस्तवके ] ईश्वरसाधनम् । ५७३
देरपि तत्रैवाधिकारात् । न च यो ब्राह्मणस्य विशेषः, स क्षत्रियादौ सम्भवति ।
न च क्षत्रियादेरन्यो वेद इत्यस्ति । न च कठाः काठकमेवाधीयते तदर्थमेवानु-
तिष्ठन्तीति नियमः, शाखासञ्चारस्यापि प्रायशो दर्शनात् । प्रागेवायं नियम
आसीदिदानीमयं विप्लवते इति चेत् । विप्लव एव तर्हि सर्वदा, कठाद्यवान्तर-
जातिविप्लवादित्यगतिरेवेयम् । तस्मादाद्यप्रवक्तृवचननिमित्त एवायं समाख्या-
विशेषसम्बन्ध इत्येव साध्विति ॥
स एवं भगवान् श्रुतोऽनुमितश्च, कैश्चित् साक्षादपि दृश्यते प्रमेयत्वाद्धटवत् ॥
ननु तत्सामग्रीरहितः कथं द्रष्टव्यः । सा हि बहिरिन्द्रियगर्भा मनोगर्भा वा तत्र न
सम्भवति । चक्षुरादेर्नियतविषयत्वात् । मनसो बहिरस्वातन्त्र्यात् । तदुक्तं 'हेत्व-
प्रकाशः ।
कठत्वादिक्षत्रिये सम्भवतीत्याह न चेति । ननु क्षत्रियाद्यधीयमानाऽपि शाखा कठादिपदवाच्येत्यत आह
न च कठा इति । प्रागेवायमिति । पूर्वं कठैः स्वशाखैवाधीता, अधुना शाखान्तराध्ययनरूपो विप्लव
इत्यर्थः । विप्लव एवेति । कठत्वादिशाखाव्याप्यजातिविप्लवः कठादिसमाख्याव्यवस्था-
व्यतिरेकश्चेत्यर्थः । तस्मादिति । कठादिशरीरमधिष्ठाय सर्गादावीश्वरेण या शाखा कृता, सा
तत्समाख्येति परिशेष इत्यर्थः । अत्र अनित्यज्ञानवद्वक्तृकवाक्यावाचकानि श्रौतकठपदादीनि
किञ्चित्प्रवक्तृकवाक्यवाचकानि वाक्यवाचकपदत्वात् मन्वादिसंहितापदवदिति मानमभिप्रेतम् ।
इयता प्रबन्धेन मननरूपो प्रतिज्ञातामुपासनां निर्वाह्य न तावन्मात्रान्मोक्षोऽनुमितिरूपविशेपद-
र्शनस्य प्रत्यक्षभ्रमानुच्छेदकत्वात्, अपि तु प्रत्यक्षरूपं तत्तद्धेतुरिति दर्शयितुमाह —
स एवमिति । अत्र प्रत्यक्षसामग्रीमुपाधिमाह नन्विति । सामग्र्या अतीन्द्रियतया योग्या-
नुपलम्भेन निषेधोऽपास्तः । न च तस्याः कार्यव्यङ्ग्यतया तदभावादेवाभाव इति वाच्यम् । कार्य-
स्यापि पुरुषान्तरप्रत्यक्षज्ञानत्वेन योग्यव्यतिरेकत्वात् । साधनव्यापकत्या स नोपाधिरित्याह
प्रकाशिका ।
स्तदवस्थ एवेति भावः । पूर्वं कठैरिति । तथा च पूर्वकालीनमेव कठत्वादिजातिमद्ब्राह्मणाध्य-
यनं शाखायाः कठादिसमाख्यानियामकमस्तीत्यर्थः । कठत्वादिशाखाव्याप्येति । पूर्वशब्दस्या-
ननुगतत्वेन सर्गाद्यत्वमेव तदर्थः, स च न भवताप्युपेयत इत्यनियमस्तदवस्थ एवेति भावः ।
अनित्यज्ञानवदिति । तन्मतेऽवक्तृकतया अस्य ज्ञानवक्तृकतया च पक्षतावच्छेदकसिद्धिः । न
चास्मदाद्युच्चरितवेदवाचकत्या कठादिसमाख्यायाः पक्षतावच्छेदकासिद्धिरिति वाच्यम् । अनित्य-
ज्ञानवत्क्रियामात्रवाचकत्वस्य विशेषणत्वादिति भावः । किञ्चित्प्रवक्तृकेति । स्वातन्त्र्यम्
प्रशब्दार्थ इति नाध्यापकेनार्थान्तरमिति ध्येयम् ॥ १७-२० ॥
मकरन्दः ।
व्यवस्थाव्यतिरेक इति । नियमगर्भस्योक्तनियामकस्यासिद्धेरिति भावः ।
अनित्यज्ञानवदिति । तन्मते अपौरुषेयत्वादस्मन्मते नित्यज्ञानवद्वक्तृकत्वादुभयसिद्धविशे-
षणमिति चोध्यम् । शेषं सुगमम् ॥ १७-२० ॥
इति महामहोपाध्यायदेवदत्तात्मजश्रीरुचिदत्तोपाध्यायविरचितः
मकरन्दः समाप्तः ॥
५७४ व्याख्यात्रयोपेतप्रकाशायुते न्यायकुसुमाञ्जलौ [ १७ कारिकान्याख्यायां
भावे फलाभावादित्यादि। न कार्यैकव्यङ्ग्यायाः सामग्र्या निषेद्धुमशक्यत्वात्।
अपि च दृश्यते तावद्बहिरिन्द्रियोपरमेऽपि असन्निहितदेशकालार्थसाक्षा-
त्कारः स्वप्ने। न च स्मृतिरेवासौ पटीयसी। स्मरामि स्मृतं वेति स्वप्नानुस-
न्धानाभावात्। पश्यामि दृष्टमित्यनुव्यवसायात्। न चारोपितं तत्रानुभवत्वम्।
अबाधनात्। अननुभूतस्यापि स्वशिरश्छेदनादेरवभासनाच्च।
स्मृतिविपर्यासोऽसाविति चेत्। यदि स्मृतिविषये विपर्यास इत्यर्थः, तदाऽ-
नुमन्यामहे। अथ स्मृतावेवानुभवत्वविपर्यासः इति, तदा प्रागेव निरस्तः। न
च सम्भवत्यपि, न ह्यन्येनाकारेणाध्यवसितोऽन्येन ज्ञानावच्छेदकतयाऽध्यवसी-
यते। तथा च स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न
त्विमं घटमिति। न ह्ययं घट इति स्मृतेराकारः। तस्मादनुभव एवासौ स्वीकर्त्तव्यः।
अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वं, संवादात्। तच्च काकता-
लीयमपि न निर्निमित्तम्। सर्वस्वप्नज्ञानानामपि तथात्वप्रसङ्गात्। हेतुश्चात्र धर्म
एव। स च कर्म्मजवत् योगजोऽपि योगविधेरवसेयः, कर्मयोगविध्योस्तुल्ययोग-
क्षेमत्वात्।
तस्मात् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारित्वात् प्रत्यक्षफलं,
धर्माननुगृहीतभावनामात्रप्रभवस्तु न प्रमेति विभाग इति। अतस्तत्सामग्रीविर-
होऽसिद्धः।
तथापि विपक्षे किं बाधकमिति चेत्। 'द्वे ब्रह्मणो वेदितव्ये' इत्यादियोगविधि-
वैयर्थ्यप्रसङ्गः अशक्यानुष्ठानोपायोपदेशकत्वात्। न चासाक्षात्कारिज्ञानविधानमे-
तत्। अर्थज्ञानावधिनाऽध्ययनविधिनेव तस्य गतार्थत्वात् इति। एतेन परमाण्वा-
दयो व्याख्याता इति।
तदेनमेवम्भूतम् अधिकृत्य श्रूयते - 'न द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते' इति। 'एकमे-
वादितीय' मिति। 'पश्यत्यचक्षुः स शृणोत्यकर्ण' इति। 'द्वे ब्रह्मणो वेदितव्ये पर-
प्रकाशः।
कार्य्यैकेति। अथ प्रत्यक्षहेतुयावद्विशेषाभावादयोग्याया अपि सामग्र्या अभाव उन्नेयः। तन्न
यथा स्वप्नज्ञाने सहकारिविशेषान्मनसो वहिः स्वातन्त्र्यं, तथा प्रकृतेऽपि योगजधर्मात्तस्य तथात्व-
मित्यह। अपि चेति। पटीयस्त्वम्-असन्दिग्धविषयत्वम्। स्मृतिविपर्यासः-विपर्य्यस्ता स्मृतिः,
प्रागेवेति। अनुभवत्वस्याबाधनादित्यर्थः। न च सम्भवत्यपि इत्यत्र स्मृतावुनभवत्वविपर्यास
इत्यनुषञ्जनीयम्। यदि स घट इति स्मृतावुनभवत्वारोपः, तदा तं घटमनुभवामीति स्यात्, न
तु इमं घटमनुभवामीत्याह न हीति। ननु प्रमायामेव मनसो वहिःस्वातन्त्र्यं स्वप्नज्ञानं त्वप्रमा
इत्यत आह अस्ति चेति। तथापि साक्षात्कारो भ्रमो वासनाप्रभवत्वात् कामातुरकामिनीसाक्षा-
त्कारवदित्याशङ्क्य तत्प्रमात्वमुपपादयति स चेति। अर्थज्ञानावधिनेति। स्वाध्यायोऽध्येतव्य इति
विधेः परिशेषादर्थज्ञानफलसिद्धावर्थज्ञानावधित्वं सिद्धमिति भावः। एतेनेति। परमाण्वादयोऽपि
प्रमेयत्वात् प्रत्यक्षा इत्यर्थः।
एकमेवेति। ईश्वराख्यं ब्रह्म एकमेव न द्वितीयमित्यर्थः। तदर्थमित्यनेन ईश्वरज्ञानार्थतां
प्रकाशिका।
धीरा धरणिभवानी यमजनि चन्द्राद् भगीरथं तनयम्।
तस्य कृतावेतस्यां सन्तः सन्तोषमाचरत ॥
पंचमस्तवके ] ईश्वरसाधनम् । ३७५
आपरमेष्ठ चे' ति । 'यज्ञेन यज्ञमयजन्त देवा' इति । 'यज्ञा वै देवा' इति । 'यज्ञो वै
विष्णु'रित्यादि । स्मर्यते च—
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । इति ।
मदर्थं कर्म कौन्तेय ! मुक्तसङ्गः समाचर । इति ।
यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । इति ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते । इत्यादि ।
अनुशिष्यते च साङ्ख्यप्रवचने ईश्वरप्रणिधानम् । तमिमंज्योतिष्टोमादिभिरिष्टैः
प्रासादादिना पूत्र्तेन शीतातपसहनादिना तपसा अहिंसादिभिर्यमैः शौचसन्तोषा-
दिभिर्नियमैः आसनप्राणायामादिना योगेन महर्षयोऽपि विविदिषन्ति । तस्मिन्
ज्ञाते सर्वमिदं ज्ञातं भवतीत्येवं विज्ञाय श्रुत्वैकतानस्तत्परो भवेत् । यत्रेदं गीयते--
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ १७ ॥ इति ।
इत्येवं श्रुतिनीतिसंप्लवजलैर्भूयोभिराक्षालिते
येषां नास्पदमार्दधासि हृदये ते शैलसाराशयाः ।
किन्तु प्रस्तुतविप्रतीपविधयोऽप्युच्चैर्भवच्चिन्तकाः
काले कारुणिक, त्वयैव कृपया ते भावनीया नराः ॥ १८ ॥
प्रकाशः ।
कर्मणो दर्शयता न ज्ञानकर्मणोस्तुल्यकक्षतया समुच्चय इत्यभिप्रेतम् । अनुशिष्यते, उपदिश्यते इत्यर्थः ।
ईश्वरोऽवश्यं ज्ञेयो महर्षीणामपि तज्ज्ञानान्वितत्वादित्याह तमिममिति । ईश्वरवेदनस्य फल-
माह तस्मिन्निति । मयि परमेश्वरे मनः संयुज्येत्यर्थः । योगजेश्वरसाक्षात्कारस्य फलमाह शान्ति-
मृच्छतीति । मोक्षं प्राप्नोतीत्यर्थः ॥ १७ ॥
यस्त्वेवं निर्दोषन्यायावगमितं कुतर्काभ्यासान्न प्रत्येति, तं प्रत्याह—
इत्येवमिति । इतिशब्दः स्वरूपार्थः । एवंशब्दश्च प्रकारार्थः । नीतिर्न्यायः । शैलसारः
पाषाणं, लौहं वा, तद्वदाशयो येषां ते तथा, युक्तिप्रतिसन्धानानाश्रयहृदया इत्यर्थः । प्रस्तुते ईश्वरे,
विप्रतीपविधयः प्रतिकूलप्रकाराः, तादृशा अप्युच्चैरत्यर्थं काले कदाचित् भवच्चिन्तका इति योजना ।
भावनीया वासनीयाः शङ्काकलङ्कशून्याः कर्त्तव्या इत्यर्थः ।
प्रकाशिका ।
आसीदनुपमः कोऽपि महादेवः कुलाग्रणीः ।
टिप्पणी ।
सर्वधर्मानिति । अत्र धर्मपदमधर्मस्याप्युपलक्षणम् 'नाविरतो दुश्चरितान्नाशान्तो नासमाहित'
इत्यादिश्रुतेः, 'त्यजधर्ममधर्मं चे'त्यादिस्मृतेश्च, धर्माधर्मावनादृत्य मां परमात्मानमेकं शरणं प्राप्नुहि
मदेकशरणो भवेत्यर्थः । अहं त्वा त्वां सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि अतो
माशुचः मा शोकं कार्षीरित्यर्थः । प्रासादादीति । भगवन्मन्दिरादीत्यर्थः । ॥ १७-१९ ॥
इत्येष इत्यादि । इतिः समाप्तौ । एष उज्ज्वलश्रीः न्यायकुसुमाञ्जलिः दक्षिणवामकौ सज्जन-
दुर्जनौ यद् वासयेत् अनुरञ्जयेत्, अन्योऽपि कुसुमाञ्जलिः दक्षिणवामनासापुटे अनुरञ्जयति ।
५७६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [१८-२० कारिकाव्याख्यायां
अस्माकन्तु निसर्गसुन्दर ! चिराच्चेतो निमग्नं त्वयी-
त्यद्धाऽऽनन्दनिधे ! तथापि तरलं नाद्यापि सन्तृप्यते ।
तन्नाथ ! त्वरितं विधेहि करुणां येन त्वदेकाग्रतां
याते चेतसि नाप्नुयाम शतशो याम्याः पुनर्यातनाः ॥१९॥
इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्री-
र्यद्वासयेदपि च दक्षिणवामकौ द्वौ ।
नो वा ततः किममरेशगुरोर्गुरुस्तु
प्रीतोऽस्त्वनेन पदपीठसमर्पितेन ॥ २० ॥
इति श्रीन्यायाचार्यपदाङ्कितमहामहोपाध्यायश्रीमदुदयनविरचितं
न्यायकुसुमाञ्जलिप्रकरणं समाप्तम् ॥
प्रकाशः ।
अस्माकं त्वश्रद्धा नास्तीत्याह । अस्माकंत्विति । यद्यपि त्वयि चेतो निमग्नमित्यद्धा तत्त्वम्,
तथापि तरलं मनो नाद्यापि सन्तृप्यते तृप्तं भवति । तृपेः क्वचित् सकर्मकत्वात् कर्मकर्त्तरि रूपम् ।
त्वदेकाग्रतां त्वत्प्रवणताम् । याम्या यमदेवताकाः । यातना नरकपीड़ाः ॥ १९ ॥
इत्येष इति । इतिः समाप्तौ । एष नीतिकुसुमाञ्जलिर्दक्षिणवामकौ द्वौ यदि वासयेत् , ततः
किमस्माकम् । यद्वा यद्वासयेदित्यत्र प्रोक्त एव यदि ब्रूयात् माऽस्मान् वासयतीति, तं प्रत्याह नो
वा इति । वासयेदित्यनेन सम्बन्धः । ततः किं । तद्वासनायाः फलं न किञ्चिदित्यर्थः । पदमेव पीठं,
तत्र न्यायकुसुमाञ्जलेर्यत् समर्पणं, तेन भगवान् प्रीतोऽस्तु ॥ २० ॥
यस्तर्कतन्त्रशतपत्रसहस्ररश्मिर्गङ्गेश्वरः सुकविकैरवकाननेन्दुः ।
तस्यात्मजोऽतिविषमं कुसुमाञ्जलिं तं प्रकाशयत्कृतिमुदे बुधवर्द्धमानः ॥
इति महामहोपाध्यायश्रीवर्द्धमानविरचितो न्यायकुसुमाञ्जलिप्रकाशः समाप्तः ॥
प्रकाशिका ।
अनुजस्तस्य कृतवानिमां व्याख्यां भगीरथः ॥
इति महामहोपाध्याय मेघठक्कुरापरनामकश्रीभगीरथविरचितायां
कुसुमाञ्जलिप्रकाशिकायां पञ्चमः स्तवकः ॥
इति कुसुमाञ्जलिप्रकाशिका समाप्ता ।
टिप्पणी
कुतर्काभ्यासमलिनान्तःकरणं कथं वासयिष्यतीत्यत आह नो वेति । अपिच किंवा, नो
वासयेत्, ततः किमस्माकं किन्तु अमरेश इन्द्रस्तस्य गुरुर्बृहस्पतिर्ब्रह्मा वा, तस्य गुरुः उपदेष्टा
परमेश्वरः, पदमेव पीठं तत्र समर्पणं यस्य, तादृशेनानेन न्यायकुसुमाञ्जलिना प्रसन्नोऽस्त्वित्यर्थः ॥२०॥
इति मिथिलादेशालङ्कारसर्वतन्त्रस्वतन्त्रश्रीविद्याभागुरुचरणसेवनसमुपजातविद्येन दरभङ्गामण्ड-
लान्तर्गतसीमाग्रामनिवासिना काशीहिन्दूविश्वविद्यालयदर्शनविभागाध्यक्षेण मैथिलेन
लक्ष्मीनाथझाशर्मणा कृता न्यायकुसुमाञ्जलेः चतुःस्तबकपर्यन्तगुरूकृतटिप्पणी-
तोऽवशिष्टपञ्चमस्तबकमात्रस्य टिप्पणी समाप्ता ।
साम्बशिवायर्पणमस्तु ।